All kośas › Sundaraikākṣarakoṣa
सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa
800 verses · text only, tagging comes next
मकारादिः
॥ अथ मकारादिः ॥
अथ मो मन्त्र-मन्त्रेश-मासेषु मधुसूदने ।मेधा-मारण-मायावि-मन्दिर-मण्डलेषु मः ॥ १ ॥
41.1 · p. 179
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
मले मूले तथा मौलौमो माने मानि-रोगयोः ।मस्तन्द्री-यम-रामेषुसूर्या-चन्द्रमसोर्जले ॥ २ ॥
41.2 · p. 179
अनुष्टुप्
प्रकोष्ठे प्रतिदाने मोवह्नौ रणे निवारणे ।मो बन्धने तथेन्द्रे स्यात्काले विधौ विषे शिवे ॥ ३ ॥
41.3 · p. 179
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 4, syllable 3 वि (wrong syllable)
मङ्गले पिङ्गले सत्य-वादे मः साक्षि-हस्तिनोः ।मं मौलौ मूलके मोघ-वृत्तौ जने शुभे भवेत् ॥ ४ ॥
41.4 · p. 179
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable)
जले पले गले मं स्यान्-मलिने मं धने तथा ।मा मान-मेघ-मारेषुमालायां मातृ-मार्गयोः ॥ ५ ॥
41.5 · p. 179
अनुष्टुप्
मदिरायां च मेधायांलक्ष्मी-पृथ्वी-व्यथासु मा ।मा वेला-बन्धना-ऽऽक्षेप-जालन्ध्री-पूजनेषु च ॥ ६ ॥
41.6 · p. 179
अनुष्टुप्
योषित्कट्यां प्रभायां चमा विद्या-ज्ञानयोः स्मृतः ।मा सेनायां जने प्रोक्तःसूर्य जीवे हरौ कृतौ ॥ ७ ॥
41.7 · p. 179
अनुष्टुप्
मा स्याद्वस्तुनि पार्वत्यांव्यये जभन-योषितोः ।मा मेढ्राग्रमणावुक्तोदेशभेदे समीरितः ॥ ८ ॥
41.8 · p. 179
अनुष्टुप्
त्रिलिङ्गो मास्तथा मानेधने विद्भिः समुच्यते ।मा भवेद्वारणे चाथविकल्पेऽप्यव्ययं तथा ॥ ९ ॥
41.9 · p. 180
अनुष्टुप्
माश्चन्द्र-मासयोः सान्तःपुमान्, मांसे नपुंसकः ।मिर्भवेत् प्रेरणे कर्णेमीर्महाबाहु-हिंसयोः ॥ १० ॥
41.10 · p. 180
अनुष्टुप्
मुर्मातरि महेशे स्याद्बन्ध-पिङ्गलवर्णयोः ।बिम्बके कपिले मुश्चकथ्यते शब्दकोविदैः ॥ ११ ॥
41.11 · p. 180
अनुष्टुप्
स्त्रीलिङ्गो मुद्भवेद्वृद्धि-नामभेषज-हर्षयोः ।रान्तो मूः स्त्री च मूर्च्छायांमूर्बन्धने ग्रहे गृहे ॥ १२ ॥
41.12 · p. 180
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्ध (wrong syllable)
मूर्मोलि-मौन-मोक्षेषुमूर्मुकुन्दे महाबले ।स्त्री स्यान्मृन्मृत्तिकायां चजले तुवरिकाह्वये ॥ १३ ॥
41.13 · p. 180
अनुष्टुप्
मेरथ प्रतिदाने स्यान्-मृगे धेनौ च संभवेद् ।मैः श्रेष्ठे सारथौ सूर्येप्रणते च रणे मतः ॥ १४ ॥
41.14 · p. 180
अनुष्टुप्
मोकारो बन्धने पत्न्यांमौः स्वर्गे परिकीर्त्यते ।म्नो माने म्नं मृतौ क्लीबोमनसि मधुनि श्रुतः ॥ १५ ॥
41.15 · p. 180
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 न (wrong syllable)
म्ना स्त्री स्यादलकापुर्यांम्य ईशाने मये यमे ।म्यमुत्करे तथाऽमायेनिगदितो नपुंसकः ॥ १६ ॥
41.16 · p. 180
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
म्या रमायां क्षमायां स्त्रीसरमायामपीरितः ।म्रः पुमानमरे मृत्यौमैथुनी-बल-माधवे ॥ १७ ॥
41.17 · p. 180
अनुष्टुप्
म्रं क्लीबो मैथुने मृत्यौमृताङ्ग-मधु-मस्तके ।म्ना शुन्यां मारमानिन्यांमानव्यां स्त्री समीरितः ॥ १८ ॥
41.18 · p. 180
अनुष्टुप्
म्रा यामिन्याममर्यां, म्वोवक्षे, म्वं पुस्तको-त्तमे ।नभसि ब्रह्मणि म्वं स्यात्म्वा स्त्री पृथ्व्यां प्रचक्षते ॥ १९ ॥
41.19 · p. 180
अनुष्टुप्