कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

यकारादिः

॥ अथ यकारादिः ॥

अथ य ईश्वरे त्यागेयाचके यमने यमे ।यमुने यामुनेये योयशसि चन्द्र-सूर्ययोः ॥ १ ॥
42.1 · p. 180
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable); pāda 4, syllable 3 सि (wrong syllable)
यः स्याद्याना-ऽङ्ग-शिष्येषुपाके पवन-पुञ्जयोः ।यः पुरुषोत्तमे पातृ-दातृ-धातृषु यातरि ॥ २ ॥
42.2 · p. 180
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रु (wrong syllable)
शयने वाहने लग्नेयोऽञ्जने चाऽतिकुत्सने ।विनये निलये छागे-ऽवयवेऽसु-वटेषु यः ॥ ३ ॥
42.3 · p. 180
अनुष्टुप्
कुले कल्पद्रुमञ्जर्यांयः कल्पद्रौ च कुक्कुरे ।यस्त्वचा-तारक-श्रेष्ठेदेव्यां पुत्रे पशौ तथा ॥ ४ ॥
42.4 · p. 181
अनुष्टुप्
यो ग्रामे रूपबीभत्सेक्षुधायां मातृ-योगयोः ।यं यशो-योग-यन्त्रेषुकरणे रूपके पशौ ॥ ५ ॥
42.5 · p. 181
अनुष्टुप्
यं मधुनि समुद्रे स्यात्संसार-वारिणोस्तथा ।वायुवेगे च यं प्रोक्तोयोगाढ्येऽपि समीरितः ॥ ६ ॥
42.6 · p. 181
अनुष्टुप्metre not read in every line
यत् त्रिलिङ्गः समाख्यातःसर्वनाम्नि सुपण्डितैः ।अव्ययं यत् तथा हेता-ववधारण-गर्हयोः ॥ ७ ॥
42.7 · p. 181
अनुष्टुप्
या युक्तौ याज्ञिके योगेयात्रायां योनि-यानयोः ।यातरि मातरि त्यागेया लक्ष्म्यामशने रथे ॥ ८ ॥
42.8 · p. 181
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable)
शोभायां निर्मितौ हेतौनिर्धने या नियन्तरि ।या धूमिते समज्ञायांप्रापणे वारणे व्यये ॥ ९ ॥
42.9 · p. 181
अनुष्टुप्
या मज्जर्यां च खट्वाङ्गेयिर्युद्धे यीर्गजे द्रुमे ।यीः सारथौ च युः सर्पेयुक् त्रिः समाधिसंयुते ॥ १० ॥
42.10 · p. 181
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
युग्मे, युङ् स्यात् ससंयोगेयुग्निन्दायामथाव्ययम् ।युत् क्लीबश्चाथ कुत्सायांधान्तो युद्युद्ध-योधयोः ॥ ११ ॥
42.11 · p. 181
अनुष्टुप्
यूः स्याद्यूषेऽथ यूकायांयेः सार्थे यैश्च वासवे ।योकारश्च भवेत् पादेयौः कण-स्वर्गयोरपि ॥ १२ ॥
42.12 · p. 181
अनुष्टुप्
य्यो जय्ये विबुधाधीशे-ऽथ य्यं कृत्ये नपुंसकः ।य्यमाधारे तथा न्याय्येय्या शय्यायां समुच्यते ॥ १३ ॥
42.13 · p. 181
अनुष्टुप्
य्रोऽर्जुने यादवे जारेय्रं क्लीबः स्याज्जरोद्भवे ।भ्राजति भोजने क्लीबोय्रं जुष्ट-जायमानयोः ॥ १४ ॥
42.14 · p. 181
अनुष्टुप्metre not read in every line
य्राऽजरायां जरायां स्याज्-जरठायामपि श्रुतः ।य्रिः कामिनी-प्रिया-पुष्टा-समुद्रपारगास्वथ ॥ १५ ॥
42.15 · p. 181
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्र (wrong syllable)
परमायामपि य्रिः स्यात्पुंलिङ्गो य्वो यवे तथा ।य्वो भवेज्जवने यक्षेय्वं क्लीबो रोदनेऽपि च ॥ १६ ॥
42.16 · p. 181
अनुष्टुप्
मर्दने जगति य्वं स्याद्य्वाऽथ स्त्री यभने मतः ।य्वा नार्यां जघनायां चो-त्तमायां यतने भवेत् ॥ १७ ॥
42.17 · p. 181
अनुष्टुप्