कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

वकारादिः

॥ अथ वकारादिः ॥

अथ वः संयमे वायौविकल्पे वाल-वृन्दयोः ।वरुणे वारुणे वः स्याद्वारि-वारिधि-वारिदे ॥ १ ॥
45.1 · p. 184
अनुष्टुप्
वो वट-वास-वस्त्रेषुवधे वज्र-विकारयोः ।वह्नौ विनिर्गमे मेद-मन्त्रण-मानसेषु वः ॥ २ ॥
45.2 · p. 184
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ट (wrong syllable); pāda 4, syllable 3 ण (wrong syllable)
वो नयने गतौ गन्धेगत्वरे सत्वरे स्मरे ।सुखिनि सान्त्वने श्रेष्ठेश्रेयसि शोषणे च वः ॥ ३ ॥
45.3 · p. 184
metre not recognised
ब्रह्म-पङ्गु-प्रबोधे वःपाशि-कान्तारयोर्बुधे ।अधरे शङ्करे बाहा-वश्व-बलवतोश्च वः ॥ ४ ॥
45.4 · p. 184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 श्व (wrong syllable)
वो व्याघ्रे वन्दने प्रोक्तोवसतौ वरुणालये ।वो घटे स्यात्तथा राहौशालूके चोच्यते बुधैः ॥ ५ ॥
45.5 · p. 184
अनुष्टुप्
वं क्लीबो गन्धने रक्तेसन्ताने गिरिभेदके ।वचने वसने वंशेवं वपु-र्वरुणे सुखे ॥ ६ ॥
45.6 · p. 184
अनुष्टुप्
वं स्याद्वरुणबीजेऽथशोणितेऽरिवधे तथा ।अव्ययं व विकल्पे स्या-दुपमाने समुच्चये ॥ ७ ॥
45.7 · p. 184
अनुष्टुप्
व सान्त्वने पदार्थे स्याद्वत् सादृश्येऽव्ययं भवेत् ।वा देवमातरि प्रोक्तोगतौ ग्रन्थौ समुच्यते ॥ ८ ॥
45.8 · p. 184
अनुष्टुप्
वा स्त्री वाते तथा तातेशिक्षायां च मृगा-ऽण्डयोः ।वाऽव्ययमुपमो-त्प्रेक्षा-नानार्थ-पादपूरणे ॥ ९ ॥
45.9 · p. 184
अनुष्टुप्metre not read in every line
वा विकल्पे वितर्के स्यात्समुच्चये प्रकीर्त्यते ।स्यादवधारणेऽतीतेविस्रम्भे वाऽव्ययो मतः ॥ १० ॥
45.10 · p. 184
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च्च (wrong syllable); pāda 3, syllable 3 व (wrong syllable)
वाक् स्त्री चान्तः सरस्वत्यांवचन-जिह्वयोः श्रुतः ।वाः स्याद्रान्तो जले प्रोक्तोविश्चक्षुः-पक्षि-वायुषु ॥ ११ ॥
45.11 · p. 184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
विश्चन्द्र-सिन्धु-सूर्येषुव्योमनि परमात्मनि ।विर्गरुडे तथा वारेगन्तरि विद्भिरीरितः ॥ १२ ॥
45.12 · p. 184
metre not recognised
अव्ययं वि विशेषे स्याद्विनियोग-व्यवाययोः ।विलये वैपरीत्ये विविकल्पे विहृतौ गतौ ॥ १३ ॥
45.13 · p. 184
अनुष्टुप्
वि तु निग्रह-नानार्थ-नियोग-निश्चयेष्वपि ।शुद्धौ समुच्चये श्रेष्ठा-ऽसहना-ऽऽलम्बनेषु वि ॥ १४ ॥
45.14 · p. 184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
उपमाने पदार्थे विपृथग्भावे-षदर्थयोः ।हेतौ परिभवेऽतीतेवि ज्ञाना-ऽऽलस्य-पालने ॥ १५ ॥
45.15 · p. 184
अनुष्टुप्
विश्राणने विरुद्धे विह्यव्याप्तौ पादपूरणे ।वित् स्याद्बुधग्रहे चाथपण्डित-ज्ञानयोस्तथा ॥ १६ ॥
45.16 · p. 185
अनुष्टुप्
शान्तो विट् स्यान्नरे वैश्येपरदाररते कटौ ।विट् प्रवेशे प्रदेशे स्यात्कुण्डल-काक- वर्चसि ॥ १७ ॥
45.17 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
विट् कन्या-विष्ठयोः षान्तःस्त्री, विड्व्याप्ते त्रिलिङ्गकः ।वी विज्ञाने विवादे स्याद्वीर्विष्णौ गमने भवेत् ॥ १८ ॥
45.18 · p. 185
अनुष्टुप्
वुः पद्गे वूर्गजे सङ्घेवृत् त्रिरतीत-वृत्तयोः ।वेर्भवेत् पारिजातेऽथवैः सारे सूरिभिः स्मृतः ॥ १९ ॥
45.19 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
अव्ययं वै प्रसिद्धौ स्यात्तथा च पादपूरणे ।वै स्यात् सम्बोधने हेतौस्मरणार्थ-विशेषयोः ॥ २० ॥
45.20 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
निश्चयेऽनुनये सत्ये-वाक्यारम्भेऽव्ययं च वै ।वोकारः काल उद्दिष्टोवौश्च सुखावहे स्मृतः ॥ २१ ॥
45.21 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable)
व्यः पुमान् वयसि व्यालेवायौ पक्षि-समुद्रयोः ।ईशाने कूबरे व्यो, व्यंवियति मुख-वस्त्रयोः ॥ २२ ॥
45.22 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 य (wrong syllable)
व्या सुधा-वडवा-भव्या-स्वोन्तो व्यो लोह-बीजयोः ।व्रोऽवरे वासरे वार्धौवाडव-वास्त्रयोरथ ॥ २३ ॥
45.23 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
व्रं क्लीबो भासुरे श्रेष्ठेलुलायमुख- भीमयोः ।व्रा श्रेष्ठायां तथा लक्ष्म्यांसरितायामपि स्मृतः ॥ २४ ॥
45.24 · p. 185
अनुष्टुप्