कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

ढकारादिः

॥ अथ ढकारादिः ॥

ढोऽथ विश्वेश्वरे सौम्येढक्कायामायुधे भये ।ढो रूढ-गूढ-मूढेषुमार्जारे मूक-मुग्धयोः ॥ १ ॥
30.1 · p. 165
अनुष्टुप्
श्वादे लास्ये पिशाचे ढःप्रहारे पात-पान्थयोः ।निर्गुणे निर्णये ढः स्याद्निर्धन-वाद्यभेदयोः ॥ २ ॥
30.2 · p. 165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
ढो ढक्के दुर्जने कालेकुक्कुरे राग-रोगयोः ।ढो गायके गतौ सर्पेस्वभावे सुभगे भगे ॥ ३ ॥
30.3 · p. 165
अनुष्टुप्
सव्या-ऽपसव्ययोः स्याड्ढःखरेऽधिके विमत्सरे ।ध्वनौ गुणेऽलसे मार्गेढः श्वापदे श्वलाङ्गुले ॥ ४ ॥
30.4 · p. 165
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 धि (wrong syllable); pāda 4, syllable 3 प (wrong syllable)
ढो नरे शङ्करे ख्यातोवर्तने विषमध्वनौ ।ढं क्लीबः पयसि श्रेष्ठेढं तूर्यमुख-तूर्ययोः ॥ ५ ॥
30.5 · p. 165
अनुष्टुप्
मूर्खे ज्ञाने तथा ढं स्याद्गोमुखेऽपि नपुंसकः ।ढा नाभौ निर्गुणे ढक्का-प्राभृते वन्दने ध्वनौ ॥ ६ ॥
30.6 · p. 165
अनुष्टुप्
ढिर्गुदे चाथ शिश्नेऽपिपक्षिभेदे तथोच्यते ।ढीरुत्कटा-ग्नि-धूमेषुशून्यां, ढुः स्याद्गुदानिले ॥ ७ ॥
30.7 · p. 165
अनुष्टुप्
ढुर्ध्वनौ शूकरे व्याले-ऽतिस्थूल-कर्णरोगयोः ।ढुः कूर्मे ढूः स्तने, ढेः स्यात्कुरङ्गजेऽथ ढैः स्मरे ॥ ८ ॥
30.8 · p. 165
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable); pāda 4, syllable 3 ङ्ग (wrong syllable)
ढोकारः सुखिनि श्रेष्ठेढौः पृथिव्यां समुच्यते ।ढ्य उत्करे शिशावाढ्येढ्यं क्लीबस्तु धने वने ॥ ९ ॥
30.9 · p. 165
अनुष्टुप्
ढ्या पृथ्व्यां ढ्रः पुमान् धृष्टेपितरि नर्मदाझषे ।ढ्रस्तथा विदुरे द्युम्नेढ्रं क्लीबः स्पन्दनाक्षमे ॥ १० ॥
30.10 · p. 165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रि (wrong syllable)
ढ्रं फल्गु-मरण-भ्रष्ट-सुभ्रूमुखेषु सम्मतः ।ढ्रा गान्धारी-स्वधा-स्वाहा-ऽऽज्ञा-सती-सरयूष्वपि ॥ ११ ॥
30.11 · p. 165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 मु (wrong syllable)
ढ्लः पुमान् गरुडे विष्णौढ्लः कल्पे हंससारथौ ।ढ्लं माल्ये मधुरे प्रोक्तोढ्ला पृथिव्यां समीरितः ॥ १२ ॥
30.12 · p. 165
अनुष्टुप्
ढ्लिर्भवेदमरावत्यांदेवेशेऽपि बुधैर्मतः ।ढ्वो ढेढे ढ्वं दधि-क्षीर-चोदने, ढ्वाऽशने स्मृतः ॥ १३ ॥
30.13 · p. 165
अनुष्टुप्