कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

पकारादिः

॥ अथ पकारादिः ॥

अथ पः पावने पानेपवने पपि-पापिनोः ।पः पद्मेशे प्रसन्ने स्यात्प्राप्ये च पथि-पत्रयोः ॥ १ ॥
37.1 · p. 174
अनुष्टुप्
पूरणे पः परित्राणेपयःपान-प्रकाशयोः ।पः पातृ-पर्वते प्रौढेपाताले पङ्कसङ्कुले ॥ २ ॥
37.2 · p. 174
अनुष्टुप्
पुत्र-पश्चिम-पीयूष-पाथिव-प्रकटेषु पः ।लोहिते कलभोर्वां स्यात्पस्तीक्ष्णेऽग्नौ चये वने ॥ ३ ॥
37.3 · p. 174
अनुष्टुप्
वृषणे वरुणे प्रोक्तःपः कोस्तुभ-कुबेरयोः ।पो वासे वारिधारायांवर्णक-क्षणयोः क्षमे ॥ ४ ॥
37.4 · p. 174
अनुष्टुप्
क्षेत्रे पः शुभलग्नेऽपिशूरे शोषण-शास्त्रयोः ।पं स्यादृणे सुवर्णे चजलो-च्चदेशयोस्तथा ॥ ५ ॥
37.5 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च्च (wrong syllable)
पं प्रीणने स्थले प्रोक्तःपत् पादे किरणे श्रुतः ।पा स्याल्लक्ष्म्यामपर्णायांयातरि पातरि स्तुतौ ॥ ६ ॥
37.6 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रि (wrong syllable)
रक्षणे सङ्गतौ पात्रेपाने पूते श्रुते च पा ।पूरिते पाऽथ पाः प्रोक्तःसुधा-सुनृपयोः श्रुते ॥ ७ ॥
37.7 · p. 174
अनुष्टुप्
पालक-पातृ-पापे पाःपाने पार्थ-प्रयत्नयोः ।सम्मतो वारिधारायांवस्त्रे लक्ष्म्यां च पास्तथा ॥ ८ ॥
37.8 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)
अव्ययं पाट् च संबुद्धौपात् पुमांश्वरणे भवेत् ।पिः पीडितध्वनौ सिन्धौपिर्दर-सादरा-ऽग्निषु ॥ ९ ॥
37.9 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
पिः पवित्रेऽथ पी लक्ष्म्यांपीर्हीनाङ्ग्यामपि स्मृतः ।पुः पुरुषोत्तमे पुत्रेपटहे पण्डिते पुमान् ॥ १० ॥
37.10 · p. 175
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रु (wrong syllable)
पुस्त्रिरार्ते प्रपन्ने स्यात्पुं नरे परमात्मनि ।पुमान्नरा-ऽऽत्म-भद्रेषुपूः पुर-देह-पूर्तिषु ॥ ११ ॥
37.11 · p. 175
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
बुद्धौ पूः, पूश्च पृथ्व्यां स्त्रीपूः पवित्रे च धातुवत् ।पृत् सेनायां च पेः पेश्यांपैर्भवेद्गालवे तथा ॥ १२ ॥
37.12 · p. 175
अनुष्टुप्
पोकारः प्रोच्यते पोत्रेत्रिः शुद्धे शोधके भवेत् ।पौः पृथ्व्यां पुरुषे, प्योऽथक्षीरे, प्यं कुप्य-पात्रयोः ॥ १३ ॥
37.13 · p. 175
अनुष्टुप्
प्या स्याद्रुचौ कृपायां स्त्रीप्याट् सम्बुद्धौ तथाऽव्ययम् ।प्रस्त्वराति-मुरारात्य-न्धकाराति-ध्रुवेऽमरे ॥ १४ ॥
37.14 · p. 175
अनुष्टुप्
अरुणेऽरुणताते प्रःप्रकृष्टे पङ्कजोद्भवे ।अगस्त्य-कामयोः प्रः, प्रंपयसि पाथसि श्रुतः ॥ १५ ॥
37.15 · p. 175
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सि (wrong syllable)
पेये पारपरे प्रं स्याद्गङ्गातीरे धरान्तरे ।प्रं सरे ब्रह्मणि व्योम्निप्रं भूरि-भ्रमराङ्गयोः ॥ १६ ॥
37.16 · p. 175
अनुष्टुप्
अव्ययं प्र गतौ ख्यातौप्राथम्य-व्यवहारयोः ।प्रोत्पत्ति-सर्वतोभावा-ऽऽरम्भ-शुद्धिषु सम्भवे ॥ १७ ॥
37.17 · p. 175
अनुष्टुप्
प्र प्रकर्षा-ऽग्रयोर्दीर्घेभृशे-श-शान्ति-शक्तिषु ।प्र वियोगे-च्छयोस्तृप्तौपूजा-दर्शनयोरपि ॥ १८ ॥
37.18 · p. 175
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
प्रा प्रकृष्ट-महालक्ष्मी-जननी-मथुरास्वथ ।प्रा क्षामनासिका-पृथ्वी-महादेवी-क्षमास्वपि ॥ १९ ॥
37.19 · p. 175
अनुष्टुप्
प्रा स्याद्रजोद्भवा-मर्म-मारयोः शब्दशासने ।अव्ययं प्राक् क्रमप्राप्ता-वतीतेऽनन्तरा-ऽग्रयोः ॥ २० ॥
37.20 · p. 175
अनुष्टुप्
प्राग्दिशा-देश-कालेषुतथा पूर्व-प्रभातयोः ।प्राङ् त्रिः पूर्वदिशा-देश-कालसम्बन्धिषु स्मृतः ॥ २१ ॥
37.21 · p. 175
अनुष्टुप्
प्राण् प्राणे च पुमान् शान्तःप्राट् प्रश्ने प्रश्नकर्तरि ।प्रीः स्त्री प्रीतौ भवेत्, प्लस्तुशूरे प्लव-प्लवङ्गयोः ॥ २२ ॥
37.22 · p. 175
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्ल (wrong syllable)
प्लं पूर्तौ प्लवने मांसेप्लं मद्ये धरणीतले ।प्ला परमेश्वरी-पाट्योःप्वः पवने पुमान् भवेत् ॥ २३ ॥
37.23 · p. 175
अनुष्टुप्metre not read in every line
प्वं गिरिपतने पुण्येप्वा धूलौ परिकथ्यते ।प्सा भक्षणे भवेत् स्त्री चप्सुः स्याद्रूपे तथा पुमान् ॥ २४ ॥
37.24 · p. 175
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable)