कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

सकारादिः

॥ अथ सकारादिः ॥

अथ स ईश्वरे सूर्येसदानन्दे सनातने ।समये सफले सिंहेसः सोम-सोमपानयोः ॥ १ ॥
48.1 · p. 188
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable); pāda 4, syllable 3 म (wrong syllable)
सर्प-साकार-सत्कारेसः सत्यवति सङ्गतौ ।सः शकटपथे श्रेष्ठ-सद्धर्मशून्य-शूलिषु ॥ २ ॥
48.2 · p. 188
अनुष्टुप्metre not read in every line
सः श्वेत-श्रुत-शुक्रेषुशङ्कायां काम-कोपयोः ।सो धर्मे धनुषि ध्यानेजले भृगौ च दुर्जने ॥ ३ ॥
48.3 · p. 188
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भृ (wrong syllable)
वरणे वारणे सः स्याद्वारुणे वायु-वाजिनोः ।वृषे वृक्षे परोक्षे सःपक्षिणि तापसे हिते ॥ ४ ॥
48.4 · p. 188
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 णि (wrong syllable)
सो विष्णौ पार्वतीपुत्रेलक्ष्म्यां हंस-निवासयोः ।सो भ्रमरसमूहे स्या-दविचले स ईरितः ॥ ५ ॥
48.5 · p. 188
अनुष्टुप्metre not read in every line
अन्धौ देहकलायां सोदेहभासि प्रकीर्तितः ।सं सुखे स्यन्दने श्रेष्ठेसरणे शरणे वने ॥ ६ ॥
48.6 · p. 188
अनुष्टुप्
सद्धर्मे च धने सं स्याज्-ज्ञाने ध्याने च यौवने ।समुपसर्जने कार्येवस्तुवृन्द-विकल्पयोः ॥ ७ ॥
48.7 · p. 188
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
नक्षत्र- मार्गयोः शङ्कौसं प्रधाने निवारणे ।तकारान्तस्त्रिलिङ्गः सन्सत्ये साधु-प्रशस्तयोः ॥ ८ ॥
48.8 · p. 188
अनुष्टुप्
सन् धीरे पूजिते मान्येविद्यमाने च धार्मिके ।नक्षत्रे शोभने शान्ता-ऽऽकाश-नित्य-बुधेषु सन् ॥ ९ ॥
48.9 · p. 189
अनुष्टुप्
अथ सत् क्लीबलिङ्गश्चनक्षत्रे ब्रह्म-सत्ययोः ।सदास्थायिनि नीरे सत्सत् तान्त आदरेऽव्ययः ॥ १० ॥
48.10 · p. 189
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
अव्ययः सं मकारान्तःप्रकृष्टार्थ-समार्थयोः ।शोभने सम्यगर्थे संसङ्गत्यर्थे समुच्चये ॥ ११ ॥
48.11 · p. 189
अनुष्टुप्
सं भवेत् सर्वतोभावेस्यादभेदे तथा सुखे ।सा सीतायां सरस्वत्यांपार्वती-स्मृति-शक्तिषु ॥ १२ ॥
48.12 · p. 189
अनुष्टुप्
सा लक्ष्मी-शुक्र-चन्द्रेषुदेहकान्तौ च शङ्करे ।सा रामायां प्रभायां स्याद्देव्यां, साद्ब्रह्मणि स्मृतः ॥ १३ ॥
48.13 · p. 189
अनुष्टुप्
सिर्भवेदमरे मित्रेपरोक्षेऽपि प्रकीर्त्यते ।चकारान्तश्च सिग्वस्त्रेजाले सेचनकारके ॥ १४ ॥
48.14 · p. 189
अनुष्टुप्
सीः सुखिन्यथ सुः सूर्येकुठारे गर्भमोचने ।सुर्भवेत् सेवने भृत्येपूजने पण्डितैः स्मृतः ॥ १५ ॥
48.15 · p. 189
अनुष्टुप्
अव्ययं सु समृद्धौ स्यात्कृच्छ्रेऽनायास-पूजयोः ।निर्भरिऽतिशये स्यात् सुह्यनुमतौ च शोभने ॥ १६ ॥
48.16 · p. 189
अनुष्टुप्metre not read in every line
सूर्मातृ-सोमसू-नारी-प्रेरण-गर्भमोचने ।सूः पृथ्व्यां प्रसवार्तायांगर्भिणी-क्षेपयोस्तथा ॥ १७ ॥
48.17 · p. 189
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
सूः स्याद्रथपथे ज्ञानेसन्धाने विनिवारणे ।सृक् सृष्टिकृति सेः सारेसेवने सेवके रतौ ॥ १८ ॥
48.18 · p. 189
अनुष्टुप्
सैः श्वादे च शुके प्रोक्तःसोकारोऽच्युत-दुर्गयोः ।सोकारश्च तथा चन्द्रेसौराख्यातः सहोदरे ॥ १९ ॥
48.19 · p. 189
अनुष्टुप्
स्कः पुंलिङ्गः स्मृतः शुष्केस्कन्धशूरे स्क उच्यते ।स्कं क्लीबः शरणे शुक्रेवृत्त-वादित्रयोर्मतः ॥ २० ॥
48.20 · p. 189
अनुष्टुप्
स्कं स्यात् सुखे मुखे, स्का स्त्रीसुरायां स्कन्दमातरि ।स्तः पुंलिङ्गः सुतेऽथ, स्तंक्लीबः शस्ते तथोद्धते ॥ २१ ॥
48.21 · p. 189
अनुष्टुप्
शरणे गगने ख्यातोराजगृहे स्तमीरितः ।स्ता शदा-पक्षिपत्न्योः स्त्रीपाटलगो- प्रशस्तयोः ॥ २२ ॥
48.22 · p. 189
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 गृ (wrong syllable); pāda 4, syllable 3 ल (wrong syllable)
स्तिः सुतायां सुरे शङ्खेसारसयोषिति स्मृतः ।स्तुः सारस्त्रूण आचार्येस्तुर्लक्षे स्तूश्च तोरणे ॥ २३ ॥
48.23 · p. 189
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
स्त्री नार्यां वम्रिके ख्यातःस्थः स्थल-स्थितिशीलयोः ।स्नस्तु सारे पुमान्, क्लीबःस्नं स्नाने मधुवारणे ॥ २४ ॥
48.24 · p. 189
अनुष्टुप्
स्नुर्गिरिसमभूभागेतथा स्नायौ समाहृतः ।हान्तः स्नुक् स्त्री स्नुहीवृक्षेस्फो झञ्झानिल-वारणे ॥ २५ ॥
48.25 · p. 190
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable)
स्फः फूत्कारे तथाऽऽस्फोटेस्फा वृद्धौ फेरवे पुमान् ।स्फिक् चान्तः स्त्री कटिप्रोथेरोगभेदे समुच्यते ॥ २६ ॥
48.26 · p. 190
अनुष्टुप्
स्फुट् पादस्फोटके स्यात्, स्फू-र्भाषायां स्फुट-फूल्लयोः ।स्फ्यं खड्गाकारयज्ञार्थ-काष्ठभेदे प्रकीर्तितः ॥ २७ ॥
48.27 · p. 190
अनुष्टुप्
अव्ययं स्म प्रसिद्धे स्या-दतीते पादपूरणे ।स्यः स्पर्शे च प्रहारे स्यात्स्यः स्यात् कालेऽवखण्डने ॥ २८ ॥
48.28 · p. 190
अनुष्टुप्
स्यः स्यादिन्द्रे प्रशस्येऽथस्यं क्लीबः सस्य-कांस्ययोः ।स्या स्त्रीलिङ्गः कृषावुक्तःकृषिदैवे तथेरितः ॥ २९ ॥
48.29 · p. 190
अनुष्टुप्
स्रः पुंलिङ्गः शरे भक्तेभासुरेऽभासुरे भवेत् ।स्रो देवकुक्कुरीनाथेस्रं क्लीबो वरुणासने ॥ ३० ॥
48.30 · p. 190
अनुष्टुप्
वदने वस्तुनि श्रेष्ठेसारदे स्रं नपुंसकः ।जान्तः स्रक् स्त्री भवेन्माल्येस्रा शिवा-भक्तयोरथ ॥ ३१ ॥
48.31 · p. 190
अनुष्टुप्
ब्रह्मजा-ऽभयपत्र्योः स्रास्राक् तथा त्वरितेऽव्ययम् ।स्रुः स्रवे निर्झरेऽथ, स्रुग्जटायां पूरणे गतौ ॥ ३२ ॥
48.32 · p. 190
अनुष्टुप्
यज्ञपात्रविशेषे चखादिरे स्रुक् च शोषणे ।स्रूर्यज्ञपात्रभेदे स्याद्निर्झरे च स्रवे तथा ॥ ३३ ॥
48.33 · p. 190
अनुष्टुप्
स्लः पुमान् गरुडे बाणेस्लो भ्रमरे नरेऽमरे ।अरुणे राक्षसे स्लः स्याद्दैत्येऽपि स्लो बुधैर्मतः ॥ ३४ ॥
48.34 · p. 190
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
स्लं तु शूलेऽसुखे, स्ला स्रीसरमायां समीरितः ।स्वो धन आत्मनि ज्ञाता-वात्मीय-भक्त-भासुरे ॥ ३५ ॥
48.35 · p. 190
अनुष्टुप्metre not read in every line
स्वो भगवति विष्णौ स्यात्स्वर्गे सुहृदि गद्यते ।स्वं क्लीबो गृह आयुष्येपुण्ये पापे गतौ सुखे ॥ ३६ ॥
48.36 · p. 190
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ग (wrong syllable)
रान्तः स्वरव्ययः स्वर्गेभद्र-दुःखादिभिन्नयोः ।शोभने सुखसन्तानेस्वर्व्योम-परलोकयोः ॥ ३७ ॥
48.37 · p. 190
अनुष्टुप्
स्वा स्वीया-पार्वती-योषिच्-छक्ति-परेश्चरीषु च ।अव्ययं स्वित् तथा प्रश्नेवितर्के पादपूरणे ॥ ३८ ॥
48.38 · p. 190
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)