All kośas › Sundaraikākṣarakoṣa
सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa
800 verses · text only, tagging comes next
चकारादिः
॥ अथ चकारादिः ॥
अथ च ईश्वरे चन्द्रेचौरे चकोर-चापयोः ।चश्चुह्ल्यां चञ्चले चञ्चौचारणे चारुदर्शने ॥ १ ॥
22.1 · p. 157
अनुष्टुप्metre not read in every line
चश्चित्रधारि-चण्डेश-चतुष्पथेषु चेतने ।चः सूरि-सूर्य-सर्पेषुसमुद्रे समरे स्वरे ॥ २ ॥
22.2 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्प (wrong syllable)
चः कोपे कच्छपे कूर्मे-श्वरे किरण-सेवके ।निर्बीजे विरसे वृक्षेलक्ष्मी-शोभा-मुखेषु चः ॥ ३ ॥
22.3 · p. 157
अनुष्टुप्
हलिनि चो भवेद्दिव्येवै तारका-तुरुष्कयोः ।चो जीवे विमले चाथदुर्जने विद्भिरीरितः ॥ ४ ॥
22.4 · p. 157
अनुष्टुप्metre not read in every line
चं पयसि चरित्रे स्याद्रुधिरे सुख-दुःखयोः ।भ्रमणे चं तथा पापेपण्डितैः परिकीर्तितः ॥ ५ ॥
22.5 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
च विकल्पे समासार्थेसमस्तार्थे समुच्चये ।प्रसङ्ग-वाक्यविस्तार-पक्षान्तरा-ऽन्तरेषु च ॥ ७ ॥
22.7 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
अन्योन्यार्थे समाने चशेषे कोपेऽवधारणे ।च तुल्ययोगिता-ऽथार्थेवृतौ विद्भिरुदाहृतः ॥ ८ ॥
22.8 · p. 157
अनुष्टुप्
चा कन्यायां च शोभाया-मदितौ स्वर्ग-वृक्षयोः ।चिर्माष-ज्ञान-चारेषुचिः स्यात् सूर्या-ऽग्नि-बुद्धिषु ॥ ९ ॥
22.9 · p. 157
अनुष्टुप्
त्रिलिङ्गश्चित् स्मृतो ज्ञातृ-वह्नि-चयनकर्तृषु ।चित् स्यात् स्त्री चेतने बुद्धौज्ञा-चेतनयोश्च चित् ॥ १० ॥
22.10 · p. 157
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 ह्नि (wrong syllable)
अव्ययं चित् त्वसाकल्ये-ऽव्यक्तानुकरणे तथा ।अव्ययं चिद्दकारान्तःस्यादसाकल्य-निन्दयोः ॥ ११ ॥
22.11 · p. 157
अनुष्टुप्
चिद्भवेदुपमायां तुशब्दानुशासनेऽव्ययः ।चीर्हस्तिन्यां मषौ ख्यातश्-चुः संस्थाने चतुष्पथे ॥ १२ ॥
22.12 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नु (wrong syllable)
चकोर-कोक-कालेषुचुर्वज्रे भीरु-बाणयोः ।चूर्भवेन्मार्गणे सूर्येभूमिजराजि पक्षिणि ॥ १३ ॥
22.13 · p. 158
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable)
चेः स्यादिन्द्रे तथा सूर्येकृष्णेऽपि विद्भिरुच्यते ।अव्ययं चेत् प्रशंसायांपक्षान्तरे च कुत्सिते ॥ १४ ॥
22.14 · p. 158
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 4, syllable 3 न्त (wrong syllable)
चेत् साकल्ये समाख्यातोयद्यर्थेऽप्यव्ययः स्मृतः ।असन्देहेऽपि संदिग्ध-वचने चेत् तथाऽव्ययम् ॥ १५ ॥
22.15 · p. 158
अनुष्टुप्
चैश्चन्द्रे गरुडे स्याच्चो-कारः पाषण्डिनि स्मृतः ।चौरग्नौ वृषभे धेना-वुद्धते संप्रकीर्तितः ॥ १६ ॥
22.16 · p. 158
अनुष्टुप्
च्यश्चये च्यं च पैशाच्येयाच्ये शोच्ये निगद्यते ।च्या चातुर्यां च च्रश्चूतेचारणे चरमे चरे ॥ १७ ॥
22.17 · p. 158
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
च्रः श्लोके तु पुमान्, क्लीबश्-च्रं स्यान्मैथुनकेऽप्रजे ।च्रा स्त्रीलिङ्गो बुधैश्चञ्चू-चमू-चाटुषु सम्मतः ॥ १८ ॥
22.18 · p. 158
अनुष्टुप्