कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

झकारादिः

॥ अथ झकारादिः ॥

अथ झः शङ्कर-ब्रह्म-बृहस्पतिषु बन्धने ।विनष्टे विवरे वाञ्छा-व्यूहिने विषये च झः ॥ १ ॥
25.1 · p. 160
अनुष्टुप्
अङ्गे सङ्गे च झः सूर्येस्वपने हंस-हस्तयोः ।भ्रमणे भ्रमरे भद्र-भैरव-गायनेषु झः ॥ २ ॥
25.2 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
झः प्रतापे ध्वनौ वायौनेपथ्ये पद्मभू-मदे ।झः स्यात् पद्मासने भीम-घर्घरध्वनि-दातृषु ॥ ३ ॥
25.3 · p. 160
अनुष्टुप्
खरध्वनौ च झो लेपउपाये पाशिनि श्रुतः ।झश्चार-चोरयोः शून्येझञ्झानिलो-र्ध्वक्षेपणे ॥ ४ ॥
25.4 · p. 160
अनुष्टुप्metre not read in every line
रुचौ मञ्जुलवायौ झ-श्चारुवाग्-दैत्यराजयोः ।झः शीर्ष-मत्स्ययोर्नक्तंझः प्रचण्डानिले-न्द्रयोः ॥ ५ ॥
25.5 · p. 161
अनुष्टुप्
झः स्वस्तिके स्थितौ स्थाणौझण्टीशे जलवर्षणे ।झो गूढरूपके चारु-वाद्य-रुचिरचारयोः ॥ ६ ॥
25.6 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 द्य (wrong syllable)
झं वने भुवनै-कान्त-सङ्गते मैथुने तथा ।झं भय-पद्मयोर्भद्रेझा विद्युति मरुन्-मदे ॥ ७ ॥
25.7 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
झा योनौ झिः कपौ चाथकलायां, झीर्गजे तथा ।झुर्भृगु-शोकयोः, स्याज्झूःसङ्घे सुरे ध्रुवेऽरुणे ॥ ८ ॥
25.8 · p. 161
अनुष्टुप्metre not read in every line
झेः सोम-रोम-रामेषुचर्मकारे भवे च झेः ।झैर्गुरावथ, झोकारःकर्णे, झौश्च सुरालये ॥ ९ ॥
25.9 · p. 161
अनुष्टुप्
झ्यो नदे स्यात् पुमान्, क्लीबो-ऽथ झ्यं स्याज्झषनाशने ।झ्या स्त्रीलिङ्गस्तु नद्यां स्याज्-झ्रो दार-जरठे नदे ॥ १० ॥
25.10 · p. 161
अनुष्टुप्
झ्रं जुष्ट-घुष्ट-पुष्टेषुसृष्टे भृङ्गे गृहे कजे ।झ्रा हानौ च जरायां स्या-दीश्वर्यां झ्रा प्रकथ्यते ॥ ११ ॥
25.11 · p. 161
अनुष्टुप्
झ्वः समुद्रे पुमानुक्तोझ्वं क्लीबो दधि-दुग्धयोः ।झ्वा तु वशिष्ठवध्वां स्त्री-लिङ्गः शब्दानुशासने ॥ १२ ॥
25.12 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)