All kośas › Sundaraikākṣarakoṣa
सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa
800 verses · text only, tagging comes next
षकारादिः
॥ अथ षकारादिः ॥
अथ ष ईश्वरे मोक्षेसदार-सूर्य-सारसे ।षः सानु-स्वर्गयोः स्तम्भेश्लेष्मणि विषये वृषे ॥ १ ॥
47.1 · p. 187
metre not recognised
षः खर्जूरे खरे खञ्जेखड्ग इष्टा-ऽतिरोषयोः ।उपसर्गाऽ-ग्नि-कीनाश-कच-कण-रणेषु षः ॥ २ ॥
47.2 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 च (wrong syllable)
षः स्याद्ब्रह्मणि गम्भीर-लोचने प्रक्षरे जने ।हृदये परिखायां षोविभव-शून्ययोः शुभे ॥ ३ ॥
47.3 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
गर्भविमोचने कीर्तौमज्जायां कार्तिके च षः ।षस्त्रिलिङ्गः परोक्षेऽथविज्ञे च श्रेष्ठ-सर्वयोः ॥ ४ ॥
47.4 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 वि (wrong syllable)
षं स्यात् सूर्ये सुखे सस्येनार्याश्लेषा-ऽवसानयोः ।भेषजे मर्षणे षं स्याद्धारणे पण्डिते तथा ॥ ५ ॥
47.5 · p. 187
अनुष्टुप्
मधुनि जालके प्रोक्तःषं तथा गर्भमोचने ।नित्राणने विवाहे षंषडूर्मिशून्य-पुष्पके ॥ ६ ॥
47.6 · p. 187
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 नि (wrong syllable); pāda 4, syllable 3 र्मि (wrong syllable)
षा पार्वत्यां तथा लक्ष्म्यांषा सत्यामुडु-शावयोः ।आकाशे षा तथा खर्यांवृषस्यन्त्यां समीरितः ॥ ७ ॥
47.7 · p. 187
अनुष्टुप्
षा भवेन्मदिरायां चो-पसर्गेऽपि भवेदसौ ।षाट् स्यादव्ययमाह्वानेषिः शङ्खे वर्तुले तथा ॥ ८ ॥
47.8 · p. 187
अनुष्टुप्
षीः पुत्रे षुरनित्ये स्यात्खुरे पुरे नृपोत्तमे ।गर्भविमोचने षुः, षू-र्म्लेच्छ-चन्द्र-प्रसूतिषु ॥ ९ ॥
47.9 · p. 187
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पु (wrong syllable); pāda 3, syllable 3 वि (wrong syllable)
षेः सार्थे षैः खरे पारेषोकारो मलिने जने ।देहेऽथ, षौर्मतौ खट्वा-पृथ्वी-दुःखे सुखे समे ॥ १० ॥
47.10 · p. 187
अनुष्टुप्
ष्टः पुमानमरेऽगारे-ऽनुस्वरेऽघासुरेऽगरे ।गोविन्दे गरुडे गण्डेष्टोऽङ्गारे घास-षष्ठयोः ॥ ११ ॥
47.11 · p. 187
अनुष्टुप्
ष्टोऽसुरसत्तमे, क्लीबःष्टं श्रेष्ठे शरणे तथा ।ष्टं साधु-मधुनोश्चाथगदने वदनेऽपि च ॥ १२ ॥
47.12 · p. 188
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
ष्टा गाल्यां सूर्यपत्न्यां स्याद्गृहिणी-घुष्टयोस्तथा ।ष्टा तु जलालयायां चष्टिर्वरुणस्त्रियां भवेद् ॥ १३ ॥
47.13 · p. 188
अनुष्टुप्metre not read in every line
ष्टिरावृत्तौ समाख्यातआवृष्टि-विष्टि-यष्टिषु ।ष्टी भ्रमिरासुरी-भ्रष्टा-भ्रामका-सरमास्वथ ॥ १४ ॥
47.14 · p. 188
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ष्टि (wrong syllable); pāda 3, syllable 3 मि (wrong syllable)
ष्टी यष्ट्यां ष्ट्रः पुमान् भ्रष्टेव्रात्ये वरुण-विप्रयोः ।शकट आसवे ष्ट्रोऽथष्ट्रुः सुष्ठु-भ्रष्ट-भासुरे ॥ १५ ॥
47.15 · p. 188
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ट (wrong syllable)
ष्ट्रुर्भक्ते शरणे प्रोक्तःष्योऽथ प्रेष्ये पुमान् मतः ।ष्या भवेन्मदिरायां स्त्रीशुद्धायामपि गद्यते ॥ १६ ॥
47.16 · p. 188
अनुष्टुप्
ष्रः पुमानदितीशे-न्द्र-विष्णुष्वर्केऽरुणेऽर्णवे ।ष्रं क्लीबः करुणे कष्टेष्रं काष्टे कोमलेतरे ॥ १७ ॥
47.17 · p. 188
अनुष्टुप्
ष्रमुज्ज्वले भवेत् क्लीबःष्रा स्री गौर्यां समुच्यते ।ष्राऽमरी-सारवत्पत्नी-परमा-पारणासु च ॥ १८ ॥
47.18 · p. 188
अनुष्टुप्