All kośas › Sundaraikākṣarakoṣa
सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa
800 verses · text only, tagging comes next
भकारादिः
॥ अथ भकारादिः ॥
अथ भः शङ्करे शुक्रेशुक्ले च शब्द-सिद्धयोः ।सूर्ये स्वीकृतभावे भःसमुद्र-सिद्धमन्त्रयोः ॥ १ ॥
40.1 · p. 178
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable); pāda 4, syllable 3 द्र (wrong syllable)
भ्रमरे भवने भावेभो भौमे भूपतौ भये ।भो भ्रकुट्यां भरद्वाजे-ऽतिभीते चार चन्द्रयोः ॥ २ ॥
40.2 · p. 178
अनुष्टुप्
दैवज्ञ-रश्म्य-लङ्कारआकाश आकुले च भः ।जयावहे प्रभावे भःशोभायां पर्वते वने ॥ ३ ॥
40.3 · p. 178
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
मेघ-मयूरयोः काव्येनिद्रा-नक्षत्रयोश्च भः ।भो भ्रान्तौ सूरिभिश्चोक्तस्-त्रिलिङ्गकोऽमले च भः ॥ ४ ॥
40.4 · p. 178
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable); pāda 4, syllable 3 ङ्ग (wrong syllable)
भं स्याद्भये भगे भोगेभरणे धरणे पुरे ।ब्रह्म- सुदर्शना-ऽऽकाश-तारा-पुण्ड्र-पयःसु भम् ॥ ५ ॥
40.5 · p. 178
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 सु (wrong syllable)
भं मन्त्र-चन्द्र-वक्त्रेषुनक्षत्र-क्षेत्र-रात्रिषु ।राशौ ग्रहे गृहे नाम्निपण्डितैर्भं समुच्यते ॥ ६ ॥
40.6 · p. 178
अनुष्टुप्
भा भव-भ्रातृ-भोगस्त्री-भास्कर-भास्वरेषु च ।भूमि-पितृ-पितृव्येषुभा स्थान-कान्ति-दीप्तिषु ॥ ७ ॥
40.7 · p. 178
metre not recognised
इन्दिरा-मदिरा-ऽऽशासुकिरणेऽलङ्कृतौ च भा ।भाः सान्तो भास्करे रश्मौदीप्ताविच्छ- प्रभावयोः ॥ ८ ॥
40.8 · p. 178
अनुष्टुप्
भिः पत्न्यां भिस्सटायां स्याद्भिद्भेदकृत्-प्रभेदयोः ।भीः स्त्रीलिङ्गो भये प्रोक्तःपुंलिङ्गो विहगे तथा ॥ ९ ॥
40.9 · p. 178
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
भुः सर्पे विद्भिराख्यातोभुश्च रतौ भवेदसौ ।भूः सत्ता-स्थानयोः पृथ्व्या-मुत्पत्तौ जात-जातयोः ॥ १० ॥
40.10 · p. 178
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
भूर्धने वेदनायुक्तेयज्ञाग्नौ परमेश्वरे ।देह उत्पद्यमाने चभूराकाशै-कसङ्ख्ययोः ॥ ११ ॥
40.11 · p. 178
अनुष्टुप्
भूर्व्यहृत्यन्तरेऽपि स्या-दव्ययं भू रसातले ।भेश्च कानतौ समाख्यातोभैर्भीरौ वरुणे यमे ॥ १२ ॥
40.12 · p. 179
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भैर्ब्रह्मणि प्रहारे, भो-कारः कंसे निगद्यते ।ओकारान्तोऽव्ययो भो चसम्बोधने समीरितः ॥ १३ ॥
40.13 · p. 179
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
भोः सान्तश्चाव्ययः प्रश्नेसम्बोधन-विषादयोः ।भौस्तु रमापतावुक्तोभ्यो भवेत् पुरुषेऽभये ॥ १४ ॥
40.14 · p. 179
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
भ्यं स्यात् क्लीबो भये रौद्रेभ्याऽभये पुरुषे तथा ।भ्रोऽभये भ्रमरे भारेभ्रष्ट-भ्रामक-भासुरे ॥ १५ ॥
40.15 · p. 179
अनुष्टुप्
ब्रह्मणि भीमसेने भ्रःप्रकरे धूसरेऽधरे ।भ्रं क्लीबो भ्रमणे भीतौभ्रामके भासुरा-ऽ भ्रयोः ॥ १६ ॥
40.16 · p. 179
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 णि (wrong syllable)
भ्रा स्रीलिङ्गो हिडम्बायांब्राह्मण्यां च द्युतावपि ।भ्रा पृथ्वी-भ्रष्टयोर्भ्रूर्ने-त्रोर्ध्वस्थरोमधोरणौ ॥ १७ ॥
40.17 · p. 179
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्थ (wrong syllable)
भ्वः पुंलिङ्गो भवे ख्यातोब्रह्मणि भरते स्मृतः ।भ्वं स्यान्निवेशने क्लीबोभ्वा पार्वत्यामुदीरितः ॥ १८ ॥
40.18 · p. 179
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ह्म (wrong syllable)