कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

टकारादिः

॥ अथ टकारादिः ॥

अथ टः शङ्करे पृथ्व्या-मर्धचन्द्रे ध्वनौ जले ।शून्य-टङ्कार-तापेषुटो धनुस्-त्रास-ताडने ॥ १ ॥
27.1 · p. 162
अनुष्टुप्
टः पाद-पुत्रयोः प्लीह-पिप्पल-धूम-राजसु ।वायु-वामन-विश्वास-विषयेषु स्थरेऽपि टः ॥ २ ॥
27.2 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
ट आवर्ते करङ्के स्यात्करटे करके कटे ।कटके टः कवाटेऽश्वेसूर्यांशु-मूत्रकृच्छ्रयोः ॥ ३ ॥
27.3 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शु (wrong syllable)
टं करङ्के कुलालास्त्रेकरटे कायकीकसे ।प्रहारे पटहे पात्रेपृथ्व्यां टं धेनु-मेघयोः ॥ ४ ॥
27.4 · p. 162
अनुष्टुप्
टं श्रुति-मृति-नेत्रेषुचकोरे भ्रमणे भवेत् ।टा सूपायां च मृज्यायांपृथ्वी-फटा-जटासु टा ॥ ५ ॥
27.5 · p. 162
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable); pāda 4, syllable 3 फ (wrong syllable)
व्यावृत्तौ घटिकायां टाकथ्यते पण्डितैरिह ।टिः स्याद्देवशुनी-पृथ्वी-पारस्त्रैण-करेणुषु ॥ ६ ॥
27.6 · p. 162
अनुष्टुप्
टि पक्षिण्यथ टी नारी-मुद्रो-र्मिष्वथ टीर्गिरौ ।टुर्भूषा-मणि-मेण्ढ्रेषुकवाट-चूड-कङ्कणे ॥ ७ ॥
27.7 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)
टुर्भ्रष्टे चाथ टूर्भीतौटूः स्वसरि ननान्दरि ।टेः स्यात् काणेऽथ टैरन्धेप्रोते रिपौ हये तथा ॥ ८ ॥
27.8 · p. 162
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 स्व (wrong syllable); pāda 4, syllable 3 रि (wrong syllable)
टोकारः पण्डितैः प्रोक्तःपरेते गुरु-शिष्ययोः ।टौर्विनीते समाख्यातोदवे वृषेऽपि कीर्तितः ॥ ९ ॥
27.9 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वृ (wrong syllable)
ट्यः कुटे ट्यं भवेत् स्फेट्येट्या सुरायां क्षितौ तथा ।ट्रः पीठे ट्रं च कासारेट्रं घोटकमुखे भवेत् ॥ १० ॥
27.10 · p. 162
अनुष्टुप्
ट्रा पूपायां विजानीयाट्-ट्वो मनु-रामतातयोः ।ट्वस्त्वत्रौ ट्वं भवेत् पुष्टेट्वा खट्वायामुदीरितः ॥ ११ ॥
27.11 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नु (wrong syllable)