कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

गकारादिः

॥ अथ गकारादिः ॥

गोऽथ मातरि सूर्ये स्यात्सङ्गीत-सिंहयोः स्मृतौ ।गः प्रीते परमार्थेऽपिशब्द-कृष्ण-भवा-ऽग्निषु ॥ १ ॥
19.1 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
गश्च गातरि गन्धर्वेगीते गति-गणेशयोः ।गो गोमुखे च गाथायांगान्धार-गजकुम्भयोः ॥ २ ॥
19.2 · p. 154
अनुष्टुप्
ग आक्षेपे महीपुत्रेवाचा-गजमुखो-त्तमे ।वस्तुनि यातरि स्याद्गोगरुड-गुरुवर्णयोः ॥ ३ ॥
19.3 · p. 154
अनुष्टुप्metre not read in every line
सुरसिद्धौ च गः स्याद्, गंवादित्रे शरणे तथा ।वर-संगीत-गात्रेषुगं गिरा-गाथयोर्गतौ ॥ ४ ॥
19.4 · p. 154
अनुष्टुप्
शास्त्रगातरि भार्यायांगीते गं गाऽवनौ गतौ ।गा गाथायामुमायां स्याद्गा लक्ष्मी-सुरशय्ययोः ॥ ५ ॥
19.5 · p. 154
अनुष्टुप्
गाः प्रोच्यते ह्यनाबन्तोगाथक-गति-धेनुषु ।गिर्बुद्धावथ संप्रोक्तोरकारान्तश्च गीः स्तुतौ ॥ ६ ॥
19.6 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 थ (wrong syllable)
स्त्री भाषायां सरस्वत्यांवाक्ये योषिति गीर्मतः ।गीर्गिरौ बुद्धिमच्-श्रीमत्-पत्नी-सुरा-सुधास्वपि ॥ ७ ॥
19.7 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable)
दिशा-वाण्योः सरस्वत्यांगीर्दुर्गायां निगद्यते ।गुः काम आसवे कान्तौप्राणे भीरौ समाहृतः ॥ ८ ॥
19.8 · p. 154
अनुष्टुप्
गूः स्यान्मले गुदे सूर्येगुरौ श्वाद-पुरीषयोः ।गूश्च मित्रे तथा सेतौप्रयत्ने विद्भिरीरितः ॥ ९ ॥
19.9 · p. 154
अनुष्टुप्
गेर्जनवञ्चके पाप-युक्ते गैरग्नि-सूर्ययोः ।गैः पलाशे च शब्दे स्या-दशोक-गीतयोरपि ॥ १० ॥
19.10 · p. 154
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable); pāda 4, syllable 3 क (wrong syllable)
गोशब्दोऽथ गणेशेऽस्त्रेस्वर्गे सुरभि-सत्ययोः ।सैन्ये सौख्ये च गोकारोनार्यां श्रवण-बाणयोः ॥ ११ ॥
19.11 · p. 155
अनुष्टुप्
गोकारो मुनिभेदे स्यात्किरणे करणेऽर्जुने ।गोशब्दः पर्वते भूम्निद्विपदे सूर्य-चन्द्रयोः ॥ १२ ॥
19.12 · p. 155
अनुष्टुप्
गोकारो वह्नि-वस्त्रे स्याद्वज्र-वरा-वृषेष्वपि ।गोशब्दो मूषके मातृ-मृगे मदे मुखे जले ॥ १३ ॥
19.13 · p. 155
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable); pāda 4, syllable 3 म (wrong syllable)
गोकारः क्रतुभेदे स्यान्-नाग-नयन-धेनुषु ।गोशब्दः स्यात् पशौ पृथ्व्यांखण्ड-चारि-दिशास्वथ ॥ १४ ॥
19.14 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ग (wrong syllable)
गोकारश्च सरस्वत्या-माकाशे लोमनि स्मृतः ।गौः प्रभायां गुरौ वज्र-वाचा-वृषभ-वारिषु ॥ १५ ॥
19.15 · p. 155
अनुष्टुप्
गौर्लज्जायामुमायां स्यात्स्वर्गे पृथ्व्यामथेन्द्रिये ।गौर्दिशायां तथा लक्ष्म्यांनयन-च्छाग-धेनुषु ॥ १६ ॥
19.16 · p. 155
अनुष्टुप्
ग्धिः स्त्री स्याद्भक्षणे, ग्ना स्त्रीस्त्रीमात्रे, ग्माऽवनौ स्मृतः ।ग्यो गर्गे ब्रह्मणि प्रोक्तोग्यं स्मृतो गगने गते ॥ १७ ॥
19.17 · p. 155
अनुष्टुप्
ग्या स्त्रीलिङ्गस्तु योनौ स्याद्ग्र आसारे गदे गुदे ।क्लीबो ग्रं स्याद्गृहे शुक्रआकाश-ग्रहचक्रयोः ॥ १८ ॥
19.18 · p. 155
अनुष्टुप्
ग्रा राज्ञ्यां सूर्यपत्न्यां, ग्लोगुडे, ग्लं गलने गले ।ग्लं नद्यां, ग्ला जनन्यां स्त्रीग्लौर्ग्लानि-देहयोस्तथा ॥ १९ ॥
19.19 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
ग्लौः पृथ्वी-चन्द्र-कर्पूर-कृष्णपक्ष-शनिष्वपि ।ग्वो धेनौ गरुडे, ग्वं तुगुह्ये, ग्वा सुरभौ स्मृतः ॥ २० ॥
19.20 · p. 155
अनुष्टुप्