All kośas › Sundaraikākṣarakoṣa
सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa
800 verses · text only, tagging comes next
छकारादिः
॥ अथ छकारादिः ॥
छः स्यादथ शिवे दानेभेदके छेदके तथा ।छेदना-ऽऽच्छादन-च्छागेछश्छन्दसि च पारदे ॥ १ ॥
23.1 · p. 158
अनुष्टुप्
छः सोमे सोमनैर्मल्येस्यात् सूते सूक्ष्म-सूर्ययोः ।संवृतौ सरणिस्थे छःसर्प-मलिनयोस्तथा ॥ २ ॥
23.2 · p. 158
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 र्प (wrong syllable)
छो मान-मेघयोर्ज्ञातृ-चारिणोश्चार-चौरयोः ।छो नित्ये निर्मले चाथतरले शक्तिधारके ॥ ३ ॥
23.3 · p. 158
अनुष्टुप्
श्लेष्म-मन्त्रप्रलापे छःशिरो-मुशलि-विद्युति ।छं स्वर्गे किरणे कूटेमुख-च्छेदनयोरपि ॥ ४ ॥
23.4 · p. 158
अनुष्टुप्
छं कमले कुले कूलेभूतले लाञ्छने गृहे ।छं तडित्-तरण-च्छन्दो-लिप्सास्वाच्छादने मतः ॥ ५ ॥
23.5 · p. 158
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
छा नदी-रोष-शैलेषु-च्छादने छेदने तथा ।छेदके पारदे छाऽना-बन्तश्छाः स्याच्च बालके ॥ ६ ॥
23.6 · p. 158
अनुष्टुप्
छिर्गर्हायां कुलाले स्याच्-छले, छिच्छेदके तथा ।छेदने, छीश्छवौ, छुश्चशुके, छु तरले भवेत् ॥ ७ ॥
23.7 · p. 158
अनुष्टुप्
छूः पृथिव्यां, भवेच्छेश्चपाशिनिच्छैः सुरालये ।छोकारोऽलङ्कृते पूर्णेवायौ, छौश्च परश्वधे ॥ ८ ॥
23.8 · p. 158
अनुष्टुप्
पर्वते पवने छागेछौः स्याद्धरिण-वृक्षयोः ।वानरे छौः पुमांल्लोह-धारायां स्त्री समीरितः ॥ ९ ॥
23.9 · p. 158
अनुष्टुप्
छ्यश्छागे विद्भिराख्यातश्-छ्या भारत्यामुदाहृतः ।छ्रो द्वेषिणि तथा खड्गेछ्रश्छुरके प्रकथ्यते ॥ १० ॥
23.10 · p. 159
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
छ्रं छले गमनेऽगारेछ्रा शुनी-विष्टयोस्तथा ।छ्रा वेश्यायामथच्छ्लस्तुच्-छले छलकृति स्मृतः ॥ ११ ॥
23.11 · p. 159
अनुष्टुप्
छ्लं स्याच्छिवालये, छ्ला स्या-दूर्ध्वायां नगरेऽपि च ।छ्वोऽजे छ्वं स्वच्छ-गोमूत्रो-च्छ्रेषुच्छ्वा स्याच्छवावपि ॥ १२ ॥
23.12 · p. 159
अनुष्टुप्