All kośas › Sundaraikākṣarakoṣa
सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa
800 verses · text only, tagging comes next
फकारादिः
॥ अथ फकारादिः ॥
फोऽथ ज्ञाने तथाऽपार-दर्शने यज्ञसाधने ।स्थास्नौ चन्द्रकलायां फःप्रकट-प्रतिकारयोः ॥ १ ॥
38.1 · p. 176
अनुष्टुप्
प्रभवे पवने फः स्यात्फूत्कारे फल-फेनयोः ।कलेवरे कलायां फःकेकायां कफ-कोपयोः ॥ २ ॥
38.2 · p. 176
अनुष्टुप्
फः स्यात् स्थूले समुद्रे चशस्त्राग्रे शिखि-शाखिनोः ।कृष्णे कुट्यां रणे न्यायेफः पलितेऽध्व-देवयोः ॥ ३ ॥
38.3 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 लि (wrong syllable)
फो झज्झावात आस्वादआह्वाने भयरक्षणे ।जल्प-निष्फलयोः फः स्याद्वारणे वासनेऽक्षरे ॥ ४ ॥
38.4 · p. 176
अनुष्टुप्
फो लोहे पुष्करेऽपाच्या-मविहतगतावपि ।फो वर्द्धके फलप्राप्तोतथा निष्फलभाषणे ॥ ५ ॥
38.5 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 वि (wrong syllable)
फो यक्षसाधने स्फान-जृम्भाविष्कारयोर्भवेत् ।फस्त्रिलिङ्गो भवेत् स्फारेपरोक्षेऽपि प्रकीर्त्यते ॥ ६ ॥
38.6 · p. 176
अनुष्टुप्
फं फले निष्फले फेनेफण-फूत्कार-फल्गुषु ।फं सूर्य मूर्ति-माहेन्द्रेजालके लाभ-लोभयोः ॥ ७ ॥
38.7 · p. 176
अनुष्टुप्
फं वाते सुन्दरे बीजआयतने विपर्यये ।निष्फलभाषणे फं स्याद्रूक्षोक्तौ डयने ध्वनौ ॥ ८ ॥
38.8 · p. 176
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable); pāda 3, syllable 3 ल (wrong syllable)
फा फणायां फले फेनेमृगे पवन-पिण्डयोः ।फा केकायां कुटी-केशेफा केली-कलयोरपि ॥ ९ ॥
38.9 · p. 176
अनुष्टुप्
मारीचे निष्ठुरोक्तौ फाधनुषि विबुधैर्मतः ।फा स्यात् फूत्कारवत्यां चचक्रवर्तिनि फा भवेत् ॥ १० ॥
38.10 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 नु (wrong syllable)
फा विषायां समाख्यातःसूरिभिः शब्दशासने ।फाः पुं वर्धक-सन्तापेवृद्धौ निष्फलभाषणे ॥ ११ ॥
38.11 · p. 176
अनुष्टुप्
फिः पुंलिड्गो भवेत् कोपेपाप-निष्फलवाक्ययोः ।फी सगर्भस्त्रियामुक्तःफुश्च कार्तिक-मन्त्रयोः ॥ १२ ॥
38.12 · p. 176
अनुष्टुप्
फुः फूत्कारे फणायां चतुच्छवाक्येऽपि फुर्मतः ।अव्ययं फुत् तथैवानु-करणनिःस्वने भवेत् ॥ १३ ॥
38.13 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
फूः स्याद्रुषाकुले सर्पइन्द्रे निष्फलभाषणे ।फूः फूत्कारे तथा शोकेवातूले शरणागते ॥ १४ ॥
38.14 · p. 176
अनुष्टुप्
फूः कर्पूरे तथा फूक्केफूत्त्वनुकरणध्वनौ ।फेः प्राज्ञैरुच्यते सङ्ख्येफाल्गुने च पशुध्वनौ ॥ १५ ॥
38.15 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त्त्व (wrong syllable)
फैः सद्भिर्गदितः शङ्खेफोकारः काल ईरितः ।फौः स्यात् फणीश्वरे गर्गेस्याद्रणे द्रोण-बाणयोः ॥ १६ ॥
38.16 · p. 176
अनुष्टुप्
फ्यः फेने फ्यं तु मृत्यौ स्यात्पयसि रजसि श्रुतः ।फ्या फणायां तथा, फ्रः स्यात्फूत्कारे स्वन-फेनयोः ॥ १७ ॥
38.17 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 य (wrong syllable)
फ्रो भवेदम्बरे स्पष्टेफ्रः स्फुरति चरे तथा ।क्लीबः फ्रमुद्धृते यन्त्रेस्फुरति स्फेटितेऽपि च ॥ १८ ॥
38.18 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 स्फु (wrong syllable)
फ्रं धरण-धृत-ध्वस्त-गगन-प्राकृतेषु च ।फ्रं जुष्टे वसने क्लीबःफ्रा लक्ष्मी-सुरयोरथ ॥ १९ ॥
38.19 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
खर्य-लीरकलत्रे फ्राक्षारनद्यां तथा भवेत् ।फ्लं फले सकले देहेबाणपूरे मुखे मतः ॥ २० ॥
38.20 · p. 177
अनुष्टुप्