All kośas › Sundaraikākṣarakoṣa
सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa
800 verses · text only, tagging comes next
बकारादिः
॥ अथ बकारादिः ॥
अथ बः स्याद्गुरौ बिन्दौतथा बिम्ब-विकल्पयोः ।विमले विकले वायौबो वृन्दे वरुणे वरे ॥ १ ॥
39.1 · p. 177
अनुष्टुप्
वासे विभूतिकारे बोवक्षःस्थल-विसर्गयोः ।वपने विगतौ व्योम्निबो गर्भे शोषणे तथा ॥ २ ॥
39.2 · p. 177
अनुष्टुप्
बः कचे कलहे कुम्भआकर्षणे फले जले ।पुरुषे पर्वते बः स्यात्पद्म-प्रवेश-पर्वसु ॥ ३ ॥
39.3 · p. 177
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र्ष (wrong syllable); pāda 4, syllable 3 प्र (wrong syllable)
पक्षिगर्भो-डु-बाल्येषुभगे बाले-न्द्रयोश्च बः ।सूचने सुरसे सिन्धौबो मदे मेघ-मूर्खयोः ॥ ४ ॥
39.4 · p. 177
अनुष्टुप्
बन्धने तन्तुसन्तानेगत-गन्ध-गदासु बः ।बलाकृष्टविसृष्टौ बःस्यात् खगभेद-पक्षयोः ॥ ५ ॥
39.5 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
बं बले बहुले शम्भौजगज्-जल-सुवायुषु ।रक्षके बं प्रविख्यातोबा झज्झावात-मन्त्रयोः ॥ ६ ॥
39.6 · p. 177
अनुष्टुप्
वन्दने वेदनायां बावदन-वाद-वल्लिषु ।काहल्यां शृङ्खलायां बानर्मदा-गति-वासने ॥ ७ ॥
39.7 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
बिर्गमने तथाऽऽकाशेबिम्बत्व-पूर्ण-पक्षिषु ।पक्षिचञ्चौ बुधैः ख्यातोबिः प्रोक्तो मण्डलेऽपि बि ॥ ८ ॥
39.8 · p. 177
अनुष्टुप्metre not read in every line
फणभेदे तथा पुष्प-दन्तेऽपि बि निरीक्ष्यते ।ङ्यन्तो बी स्यात् समुद्रेऽथा--ऽङ्यन्तो बीर्बटु-पादयोः ॥ ९ ॥
39.9 · p. 177
अनुष्टुप्
प्रजने जनने कान्तौगतौ स्याद्बीर्बियौ बियः ।बेः साक्षिणि समुद्दिष्टोबैः शब्दितः कणे रणे ॥ १० ॥
39.10 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ब्दि (wrong syllable)
बोकारः प्राण आख्यातोबौर्गङ्गायां समाहृतः ।ब्यः पुमान् भास्करे, ब्यं स्यात्सुखे, ब्या स्त्री तु मातरि ॥ ११ ॥
39.11 · p. 177
अनुष्टुप्
ब्रो बाल-बुद्ध-बद्धेषुबहुव्रीहौ बृहस्पतौ ।ब्रोऽबले बाष्कले बाणेबहुदे बुद्बुदे बटौ ॥ १२ ॥
39.12 · p. 178
अनुष्टुप्
ब्रो मेघ-बधिरा-ऽम्बष्ठा-ऽऽचार्या-ऽम्बाजा-ऽम्बरावृते ।ब्रं बल-बहुलो-च्छ्रेष्ठेबट्वास्य-बाहुसारयोः ॥ १३ ॥
39.13 · p. 178
अनुष्टुप्metre not read in every line
ब्रं ब्रह्म-बधिराङ्गे स्याद्बधिरास्येऽम्बरेऽपि च ।ब्रा बद्धा-बधिरा-ऽम्बष्ठी-बाला-ऽम्बरेश्वरीषु च ॥ १४ ॥
39.14 · p. 178
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ऽम्ब (wrong syllable)
ब्रा बट्व्यां ब्लः शिशौ कंसे-ऽध्वा-ऽग्न्य-ज्ञेऽघासुरे यमे ।ब्लो मारे ब्लं बले, स्याद्ब्लावरट्यां क्वङ्गु-रक्तयोः ॥ १५ ॥
39.15 · p. 178
अनुष्टुप्
ब्वो ब्रह्मणि पुमानुक्तोगीष्पतावपि कीर्तितः ।ब्वं क्लीबो विद्विषे वाक्येमधुनि, ब्वाऽथ मातरि ॥ १६ ॥
39.16 · p. 178
अनुष्टुप्