कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

अःकारादिः

॥ अथ अःकारादिः ॥

अः स्यादथ विसर्गस्तुजिनाद्ये-श्वर-विष्णुषु ।अः स्यात् सर्गे स्तुते सूर्येमहासेने च मस्तके ॥ १ ॥
16.1 · p. 149
अनुष्टुप्
अश्चक्रे चन्द्रबिम्बे स्याच्-छङ्कर-विष्णुभृत्ययोः ।अश्चित्रे चरणे चूडा-ऽनन्त-ब्रह्म-नया-ऽऽयुधे ॥ २ ॥
16.2 · p. 149
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
दाना-ऽऽदाना-ऽनिरुद्धे स्या-दः कन्यास्तनसंनिभे ।अः प्रभाते प्रदीप्तौ स्यात्सिद्धमन्त्रे रथार्वणि ॥ ३ ॥
16.3 · p. 149
अनुष्टुप्
अः षडास्ये तथेन्द्रे स्यात्कुक्कुटमूर्घ्नि संस्मृतः ।अः क्षेप-खेद-सत्तासुनिन्दका-ऽऽश्चर्ययोरपि ॥ ४ ॥
16.4 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)