कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

औकारादिः

॥ अथ औकारादिः ॥

औरथ ब्रह्मणि व्योम्निजलधौ जलदे जले ।और्नरे निःस्वने नारी-जार-विश्वम्भरास्वपि ॥ १ ॥
14.1 · p. 148
अनुष्टुप्
औः स्याच्चन्द्रकला-चन्द्रेचानन्ते सिद्धपुष्पके ।औः स्यात् सुखिनि सूक्ष्मे चस्कन्द-स्थूल-सुधासु च ॥ २ ॥
14.2 · p. 148
अनुष्टुप्
औः सिद्धे पीडने प्रश्नेपरमार्थे जनार्दने ।और्विमाने विशुद्धाङ्गेदुर्गायां मान-मायिनोः ॥ ३ ॥
14.3 · p. 149
अनुष्टुप्
औः स्याद्विशुद्धकार्ये चकुलीने कुक्कुरे कवौ ।औः शुद्धपुष्पके रत्या-मौषध्यौ-षधपानयोः ॥ ४ ॥
14.4 · p. 149
अनुष्टुप्
और्भवेद्भाषणे भावेभूपशूरे समीरितः ।औश्च भूपजये यज्ञ-पात्रेशे समुदाहृतः ॥ ५ ॥
14.5 · p. 149
अनुष्टुप्
औस्तरुणे तथा सिद्ध-विमाने प्रोच्यते बुधैः ।और्गणनायके सूक्तोव्यापिन्यामपि कीर्तितः ॥ ६ ॥
14.6 · p. 149
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 रु (wrong syllable); pāda 3, syllable 3 ण (wrong syllable)
अव्ययमौ तथाऽऽह्वान-संबुद्धि-निर्णयेष्वपि ।औ विरोधेऽव्ययः प्रोक्तऔँ शूद्रप्रणवेऽव्ययम् ॥ ७ ॥
14.7 · p. 149
अनुष्टुप्metre not read in every line