कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

उकारादिः

॥ अथ उकारादिः ॥

उः स्यादथेश्वरे सूर्येहरमौलौ हरौ हरे ।उः काले क्षत्रिये नेत्रेजलधावनिले जले ॥ १ ॥
5.1 · p. 144
अनुष्टुप्
तपः-क्षेत्रप-चन्द्राभउः स्याद नारद-भावयोः ।लक्षणे भूषणे मोक्षेरावण उः परायणे ॥ २ ॥
5.2 · p. 144
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ण (wrong syllable)
अप्रकाशे गिरेर्मौला-वुः स्याद्गौर्यां तथा गिरौ ।उर्गौरीहृदयेऽपि स्या-दुग्र उश्च गजाङ्कुशे ॥ ३ ॥
5.3 · p. 144
अनुष्टुप्
उर्ब्रह्मणि शुचौ ख्यातःशुक्ल उः शशिरोचिषि ।उः शाखिशिखरे प्रोक्तःशोके शक्तौ शतक्रतौ ॥ ४ ॥
5.4 · p. 144
अनुष्टुप्
उः स्यात् पक्षेऽत्रपे ह्यूर्ध्वउर्मार्कण्डेय-पाशिनोः ।उः सेतौ दक्षकर्णे स्याद्नाथे विजयिनि स्मृतः ॥ ५ ॥
5.5 · p. 144
अनुष्टुप्
उ स्यादथाव्ययं लोभेसम्बोधना-ऽवसानयोः ।नियोग उ वितर्के चशेषफूत्कार-बन्धने ॥ ६ ॥
5.6 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
उ विस्मये तथा पाद-पूरणे रोषभाषणे ।वचनावसरे प्रश्नउ विभागा-ऽनुकम्पयोः ॥ ७ ॥
5.7 · p. 144
अनुष्टुप्
उ मात्रा-मन्त्रणे षण्ढेह्यङ्गीकार-विषादयोः ।उञव्ययं सतर्के स्यात्सम्बोधने च पूरणे ॥ ८ ॥
5.8 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
उत् तथाऽव्ययमत्यर्थऊर्ध्वे प्रश्न-वितर्कयोः ।भृशार्थे संशयेऽप्यर्थे-ऽव्ययमुत् त्रिरथोदिते ॥ ९ ॥
5.9 · p. 144
अनुष्टुप्
उद्भवेदव्ययः शक्तौक्रोध-भावो-र्ध्वकर्मसु ।उद्विभागे प्रकाशे चप्राबल्ये लाभ-लोभयोः ॥ १० ॥
5.10 · p. 144
अनुष्टुप्
उदाश्चर्ये तथोर्ध्वे स्यात्प्राकट्यो-त्कर्षयोरपि ।नैकट्ये प्रोच्यते विद्भि-रुन्मोक्षे बन्धने तथा ॥ ११ ॥
5.11 · p. 144
अनुष्टुप्
प्राधान्या-ऽस्वास्थ्ययोः स्यादु-दभावे परिकीर्तितः ।उमङ्गीकृति-रोषोक्ति-प्रश्नेषु रक्षणेऽव्ययम् ॥ १२ ॥
5.12 · p. 145
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)