कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

ककारादिः

॥ अथ ककारादिः ॥

अथ को वासुदेवे स्याद्वसुनि वह्नि-वक्त्रयोः ।वारिदे वारिधौ वारि-वसु-वायुषु को बले ॥ १ ॥
17.1 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
बुद्धौ ब्रह्मणि कः स्वर्णेसूर्ये स्मरे सुरालये ।शमन-शत्रु-शुद्धेषुकः शिरः-श्वेतवर्णयोः ॥ २ ॥
17.2 · p. 150
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्म (wrong syllable); pāda 3, syllable 3 न (wrong syllable)
को मयूरे कठोरे स्याद्मित्रे यमे सुखे दिने ।को दक्ष-कोपयोश्चित्र-चित्तयोश्चक्र-चक्रिणोः ॥ ३ ॥
17.3 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
आत्मनि कः समाख्यातःप्रकाशे पार्थिवेऽप्यथ ।पतत्त्रिणि च क्रोधीशेकलह-कालयोश्च कः ॥ ४ ॥
17.4 · p. 150
metre not recognised
सृष्ट्यां यज्ञविधौ देहेशब्द-पर्वतयोश्च कः ।कामग्रन्थौ तथा ग्रन्थौकेशे को गरुडध्वनौ ॥ ५ ॥
17.5 · p. 150
अनुष्टुप्
कश्चाऽनाहतशब्दे स्या-दुदात्त-पक्षिभेदयोः ।कं जले कन्दुके मौलौफले दुःखे सुखे मुखे ॥ ६ ॥
17.6 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्त (wrong syllable)
भय-ब्रह्म-पयः-प्रश्नेकं विषे केश-रोगयोः ।कं मांसे रुधिरे शुक्रेजन्तुविपत्ति-जीवयोः ॥ ७ ॥
17.7 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
मान्तः कं स्यात् सुखे शीर्षेजले कान्तौ मुखेऽव्ययः ।निन्दायामथ कं मान्तोवागलङ्कृति-मेघयोः ॥ ८ ॥
17.8 · p. 150
अनुष्टुप्
सुखकृन्-मङ्गले प्रोक्तःकं पादपूरणेऽव्ययः ।सुष्ठ्वर्थे चाथ कुत्सायांभोज्ये कामे च कं मतः ॥ ९ ॥
17.9 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
काऽऽमिष-रजकी-दुर्गा-पृथ्वी-शोभासु कीर्त्यते ।का शकलेऽथ कात् प्रोक्तस्-तिरस्कारेऽव्ययो बुधैः ॥ १० ॥
17.10 · p. 150
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ष (wrong syllable); pāda 3, syllable 3 क (wrong syllable)
कां युगपदि योगे-ऽश्व-गमने वारणेऽव्ययम् ।किः सूर्ये-न्द्रा-ऽग्नि-सुग्रीव-रमेश-व्याध-कर्षुके ॥ ११ ॥
17.11 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ग (wrong syllable)
किराकाशे तथा कीटेसमर्थितो बुधैरिह ।कि शब्द-ब्रह्मणी-प्रश्नेकुचाग्रे केकिनर्तने ॥ १२ ॥
17.12 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्थि (wrong syllable)
विधवाभगनिर्देशेक्यसिमुष्टी-भरेषणे ।किं क्रोधे तुच्छप्रश्ने स्यात्प्रश्ने विकल्प-कुत्सयोः ॥ १३ ॥
17.13 · p. 150
अनुष्टुप्metre not read in every line
निन्दा-ऽभ्युपगमा-ऽऽश्चर्य-पुनरर्थ-रजःसु किम् ।किमाक्षेपे वितर्के प्र-स्तावेऽत्यन्ते-षदर्थयोः ॥ १४ ॥
17.14 · p. 150
अनुष्टुप्
किं प्रकारे कियच्-छब्द-किलार्थ-करणेष्वपि ।कार्त्स्न्य-कुत्सित-सादृश्य-निषेध-निश्चयेषु किम् ॥ १५ ॥
17.15 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
जिज्ञासितेऽथ सन्देहेकिं विरामेऽव्ययो भवेत् ।कीः स्यात् पिपीलिका-पृथ्वी--भ-शत्रु-पाटले हये ॥ १६ ॥
17.16 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्रु (wrong syllable)
कीः स्यात् सर्पे तथा जारेजीवे लक्ष्म्यां च कीस्तथा ।कीर्धेनौ पुरुषे रोषेकी कुत्सायां तथाऽव्ययम् ॥ १७ ॥
17.17 · p. 151
अनुष्टुप्
कुः पृथ्व्यामुपसर्गे वि-गर्हित-शब्दयोस्तथा ।कुः कुचे कुङ्कुमे काकेपापीयसि निवारणे ॥ १८ ॥
17.18 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
कुः कूले कुत्सिते कुत्से-षदर्थ-हीनजातिषु ।कुः कलत्रे कु कुत्सायांपापे-षदर्थ-वारणे ॥ १९ ॥
17.19 · p. 151
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र्थ (wrong syllable); pāda 4, syllable 3 ष (wrong syllable)
कु निन्दायां तथा कूर्मेपीडायामव्ययो भवेत् ।कुं रोषे कुङ्कुमे पाकेप्रश्ने सम्बोधने घटे ॥ २० ॥
17.20 · p. 151
अनुष्टुप्
कूः कृत्यायां तथा पृथ्व्यांपिशाच्यां स्त्री भवेच्च कूः ।कृत् स्यात् प्रत्ययभेदे नाकर्तरि स्यात् त्रिलिङ्गकः ॥ २१ ॥
17.21 · p. 151
अनुष्टुप्
के स्यात् प्राणे मदे सारेसूर्ये तथा नपुंसके ।कैः शुचौ प्रणते चोक्तःकोकारः श्यान-शोकयोः ॥ २२ ॥
17.22 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
कोशब्दः कुक्कुरे श्यावेजनेऽथ, कौर्वृषे मतः ।क्णः कणे क्णं तु साधूक्तेवृक्णे स्यात्, क्णाऽवनौ भवेत् ॥ २३ ॥
17.23 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
क्णिर्बुद्धौ क्णुः सुते, क्णूस्त्व-ग्नौ, क्णौः कलापिनि स्मृतौ ।क्तः सिक्ते वरुणे ख्यातःक्तं वरे ज्योतिषि स्मृतः ॥ २४ ॥
17.24 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
क्ता मातृका-सरस्वत्योःपार्वत्यां, क्तिश्च भास्करे ।क्ती वह्नौ क्तुस्तु पुत्रे-न्द्वोःक्तौर्लक्ष्म्यां विबुधैर्मतः ॥ २५ ॥
17.25 · p. 151
अनुष्टुप्
क्थो गजे हरिणे सङ्घेक्थं दुःखे क्वथने धने ।क्थं दैन्ये क्था पृथिव्यां स्यात्सरमा-दुर्गयोरपि ॥ २६ ॥
17.26 · p. 151
अनुष्टुप्
क्थिर्वरे वरुणे विष्णौक्थी शिवे परिभाषितः ।क्थुः स्यात् सुते तथा तातेक्थूः शङ्खे गरुडे नरे ॥ २७ ॥
17.27 · p. 151
अनुष्टुप्
क्थेर्मारे वरुणे सूतेध्वनौ, क्थौः सरमासुते ।क्नः कर्ण उत्सवे, क्नं तुश्रोत्रे करण-भीमयोः ॥ २८ ॥
17.28 · p. 151
अनुष्टुप्
क्ना लक्ष्मी-पार्वती-पृथ्वी-भित्तिषु, क्निश्च सूकरे ।क्निः कृष्णे क्नुः शिवे सूर्येशूद्र-समुद्रयोः सुरे ॥ २९ ॥
17.29 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
क्नूः पत्यावात्मजायां स्यात्क्मः कामे कमलाहिते ।क्मं कर्मणि भवेत्, क्मा तुकामपत्न्यां रतौ तथा ॥ ३० ॥
17.30 · p. 151
अनुष्टुप्
क्मिः कामिनि समाख्यातःक्मी रतीशवति श्रुतः ।क्मुर्बभ्रौ क्मूः स्वभू-शङ्ख-शूकरेषु समीरितः ॥ ३१ ॥
17.31 · p. 152
अनुष्टुप्
क्मौर्मक्ष्म्यां क्यः पलाशेऽग्नौसूर्ये, क्यं कार्य उच्यते ।क्या रेणौ क्रः करे व्याघ्रेक्रो नाथे शरभे तथा ॥ ३२ ॥
17.32 · p. 152
अनुष्टुप्
क्रमिन्द्रिये क्रमाकाशेक्रा पृथ्व्यां सुरभावपि ।क्रा क्रान्तरि त्रिलिङ्गः स्यात्क्रीः क्रेतरि तथा वधे ॥ ३३ ॥
17.33 · p. 152
अनुष्टुप्
क्रीरग्नावपि संप्रोक्तआख्यातो रोदने क्रये ।क्रुङ् हंसे बकभेदेऽथक्रौञ्चपक्षिणि कीर्त्यते ॥ ३४ ॥
17.34 · p. 152
अनुष्टुप्
कुत् स्त्री क्रोधे भवेत्, क्रूश्चव्याधे क्रूरे तथाऽण्डजे ।क्लः कले क्लं कलेऽवर्येक्ला कलायां समुच्यते ॥ ३५ ॥
17.35 · p. 152
अनुष्टुप्
क्वो जनके कवौ काव्येक्वं स्यात् कमल-काव्ययोः ।क्व कुत्रार्थेऽव्ययः, क्वाऽथपृथिव्यां स्त्री समीरितः ॥ ३६ ॥
17.36 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
क्षः परमात्मनि क्षान्तेक्षय-क्षेपविशेषयोः ।क्षः क्षमा-क्षमयोः क्षेमेक्षः क्षेत्र-क्षेत्रपालयोः ॥ ३७ ॥
17.37 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
रक्षसि वक्षसि क्षः स्याद्गृहे दण्डधरे तटे ।भक्ष्य-भार्गव-भद्रासुक्षः संरोध-विरोधयोः ॥ ३८ ॥
17.38 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 सि (wrong syllable)
वपुषि वज्रकाये क्षोविशेषे विग्रहेऽनिले ।विद्युद्-दुर्विषये क्षः स्या-दनन्त-कालकूटयोः ॥ ३९ ॥
17.39 · p. 152
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 षि (wrong syllable); pāda 4, syllable 3 न्त (wrong syllable)
क्षः स्यात् तापस-संवर्त-स्थलेषु मसृणे धने ।क्षो नरे नरसिंहे चनैरृत्ये निर्भये नृपे ॥ ४० ॥
17.40 · p. 152
अनुष्टुप्
क्षो दुःस्वप्ने बुधैरुक्तोदुःखप्रिय-परोक्षयोः ।अथ स्यात् क्षं क्षये क्षेत्रेक्षिप्रे दक्षे च रक्षसि ॥ ४१ ॥
17.41 · p. 152
अनुष्टुप्
गृहे पयसि वृक्षे क्षंमधु-निर्भर्त्सने तथा ।क्षत् स्त्रीलिङ्गो भवेत् तान्तोहनने च विदारणे ॥ ४२ ॥
17.42 · p. 152
अनुष्टुप्
क्षत् पीडायां, तथा क्षप् स्त्रीपान्तो रात्रौ समीरितः ।क्षा क्षमायाञ्च निद्रायांपृथिवी-सीतयोरथ ॥ ४३ ॥
17.43 · p. 152
अनुष्टुप्
क्षिः स्यात् क्षये क्षणे क्षेत्रेक्षिः क्षिप्र-क्षत्ररक्षयोः ।नरसिंहे निवासे क्षि-र्ज्योतिषि च गतौ तथा ॥ ४४ ॥
17.44 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ति (wrong syllable)
क्षिप् स्त्री पान्तोऽङ्गुलौ, क्षीः स्या-दग्नौ, क्षुः क्षुद्र-वासवे ।क्षुः स्यात् सूर्ये च सिंहे स्या-दन्न-स्तवादिशब्दयोः ॥ ४५ ॥
17.45 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
क्षुत् स्त्री तान्तः क्षुते ख्यातोधिक्कायां क्षुत् क्षबेऽपि च ।क्षुद्धकारान्तकः प्रोक्तःस्त्री बुभुक्षा-ऽन्नयोरिति ॥ ४६ ॥
17.46 · p. 152
अनुष्टुप्
क्षूः स्यात् प्रणाशने चाथपापिष्ठे, क्षेश्च कर्षुके ।क्षैर्मूर्ख-जारयोरुक्तःक्षोशब्दः क्षुरके व्रणे ॥ ४७ ॥
17.47 · p. 153
अनुष्टुप्
क्षौर्धर्तृ-खञ्जयोः पृथ्व्यांक्ष्मा पृथिव्ये-कसङ्ख्ययोः ।क्ष्मा पुस्तके च शूचौ स्या-दनिन्दा-प्रत्यवाययोः ॥ ४८ ॥
17.48 · p. 153
अनुष्टुप्
नवोढाया भगे क्ष्मा चसरितायां समीरितः ।नपुंसकः क्ष्यमुत्क्षारेक्षेत्रे क्षीरे क्ष्यमीरितः ॥ ४९ ॥
17.49 · p. 153
अनुष्टुप्
क्ष्या पृथ्व्यां जगदीश्वर्यांक्षः क्षारे क्षरणे क्षरे ।स्यात् क्षोऽक्षराक्षरेऽक्षोडेक्ष्रं क्षारे क्षोदने खरे ॥ ५० ॥
17.50 · p. 153
अनुष्टुप्
क्षरणे क्षयिनि क्ष्रं स्यात्क्ष्रा लक्ष्म्यां कीर्त्यते बुधैः ।क्ष्लः क्षुद्रवदने श्लोकेक्ष्लं क्लीबः क्षुद्र-वस्तुनोः ॥ ५१ ॥
17.51 · p. 153
अनुष्टुप्
शरणे मरणे क्ष्लं स्यात्क्ष्लं वने भवने तथा ।स्त्रीलिङ्गः क्ष्ला भवेत् क्षोण्या-मक्षौहिण्यां तथा भवेत् ॥ ५२ ॥
17.52 · p. 153
अनुष्टुप्
क्ष्वः क्षोदे स्यात् पुमान्, क्ष्वं तुपालने पितृतारणे ।क्ष्वं क्षीवे क्षरणे क्षीरेक्ष्वा गङ्गायामुदाहृतः ॥ ५३ ॥
17.53 · p. 153
अनुष्टुप्