कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Sundaraikākṣarakoṣa

सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa

800 verses · text only, tagging comes next

तकारादिः

॥ अथ तकारादिः ॥

अथ तः सुगते सातेहरौ गर्भ-सुवेषयोः ।तः संभोगे च संयोगेनिश्चये निष्फलेऽमृते ॥ १ ॥
32.1 · p. 166
अनुष्टुप्
पालने पालके प्रेतेतस्तापे तीव्र-तत्त्वयोः ।तो नीले तरले ख्यातःशठे च चौर-चारयोः ॥ २ ॥
32.2 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
युद्ध-बद्ध-महाबुद्ध-म्लेच्छेषु तः परिश्रमे ।तो रत्न-पुच्छयोः क्रोडेकरुणा-क्रोडपुच्छयोः ॥ ३ ॥
32.3 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)
तः क्रोधे वितरे वाद्येवियोगा-ऽमर्षयोर्मतः ।तः स्याद्योधे तथाऽऽषाढ्यांधातुवादविधावपि ॥ ४ ॥
32.4 · p. 166
अनुष्टुप्
क्लीबस्तमविलम्बे स्यात्तं तृण-तूणयोर्जले ।अपुमांस्तरणे पुण्येतत् स्याद्विस्तारके तथा ॥ ५ ॥
32.5 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
तत् तु स्यात् प्रकृतार्थोक्तौत्रिलिङ्गक उदाहृतः ।अव्ययस्तद्भवेद्धेतौपश्चादर्थ-विपक्षयोः ॥ ६ ॥
32.6 · p. 167
अनुष्टुप्
ता स्त्रीलिङ्गः पृथिव्यां स्यात्सटायां पूजने तथा ।ता राग-रङ्ग-नार्य-र्क-लक्ष्मी-वाराङ्गनासु च ॥ ७ ॥
32.7 · p. 167
अनुष्टुप्
सत्सङ्ग्रामे तुलादण्डेता कृपा-तूर्यनादयोः ।तिः शम्भु-तोक-पूजासुमनोमाने महाघने ॥ ८ ॥
32.8 · p. 167
अनुष्टुप्
तिराखौ तीतिशब्दार्थेतीश्च नदी-समुद्रयोः ।तीस्तीव्रे विषमे शोकेतीः प्राणिगमने श्रुतः ॥ ९ ॥
32.9 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
तुः कृष्णे हरिणे प्रोक्तःक्रीडके क्रीडने स्मृतौ ।अव्ययं तु समाहारेसाकल्ये च समुच्चये ॥ १० ॥
32.10 · p. 167
अनुष्टुप्
स्मृतौ ध्याने नियोगे तुकारणे पादपूरणे ।तु स्यात् पक्षान्तरे प्रश्नेपौनःपुन्य-प्रशंसयोः ॥ ११ ॥
32.11 · p. 167
अनुष्टुप्
विलक्षणे विकल्पे तुकरणे च विनिग्रहे ।तु स्याद्विलेखने भेदेतु विशेषेऽवधारणे ॥ १२ ॥
32.12 · p. 167
अनुष्टुप्
तु कुत्सने तथा पूर्व-निवृत्तावपि गद्यते ।तुगपत्ये पुमान्, मान्तो-ऽव्ययस्तुं प्रश्न-रोषयोः ॥ १३ ॥
32.13 · p. 167
अनुष्टुप्
अङ्गीकृतौ समाख्यातःख्यातोऽवधारणे च तुम् ।तूर्म्लेच्छेऽथाऽव्ययं तू स्यात्पृच्छायां ध्यान-भेदयोः ॥ १४ ॥
32.14 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
त्रिस्तूर्वेगिनि वेगे, तृट्षान्तो लोभे तृषे-च्छयोः ।कान्तायां कामकन्यायांतृट् कान्तौ लाङ्गलीतरौ ॥ १५ ॥
32.15 · p. 167
अनुष्टुप्
तेर्नक्रे चाभिधेये स्यात्क्रीडने क्रीडके गजे ।तैरसुरे मयूरे चवसाने स्याद्वयत्यपि ॥ १६ ॥
32.16 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 सु (wrong syllable)
तोकारः स्वामिनि प्रोक्तःसूर्ये च विघ्नकर्तरि ।तौः स्वर्ग-गरयोः पृथ्व्या-माचार्य-यजमानयोः ॥ १७ ॥
32.17 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
त्माऽऽत्मनि त्यो गुरौ कृष्णे-ऽन्त्यजे, क्लीबस्त्यमन्तिमे ।क्लीबस्त्यत् पवने व्योम्नित्या नद्यामवनावपि ॥ १८ ॥
32.18 · p. 167
अनुष्टुप्
त्रो गरुडेऽब्जजे चेन्द्रेशङ्करे पातरि स्मृतः ।त्रं घृष्ट-जुष्ट-पुष्टेषुत्रं त्रुटिते पदे परे ॥ १९ ॥
32.19 · p. 167
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 रु (wrong syllable); pāda 4, syllable 3 टि (wrong syllable)
द्रौपद्यां वचने कर्णेत्रं गन्धारीमुखे तथा ।त्रा देवकुक्कुरी-पात्री-पार्वती-गरदास्वपि ॥ २० ॥
32.20 · p. 168
अनुष्टुप्
त्रा तारण्यां च नौकायांरक्षणे त्रा समीरितः ।त्वः पुमान् शङ्करेऽश्वेऽर्थेत्वो भिन्ने स्यात्त्रिलिङ्गकः ॥ २१ ॥
32.21 · p. 168
अनुष्टुप्
त्वं तुल्ये तरणे, त्वक् स्त्रीगुडत्वक्-वल्क-चर्मसु ।लवङ्गवल्कले त्वक्, स्त्रीत्वा गौर्य-श्वकलत्रयोः ॥ २२ ॥
32.22 · p. 168
अनुष्टुप्
अव्ययस्त्वा विशेषे स्याद्वितर्केऽप्यव्ययो मतः ।त्विट् स्त्री कान्तौ च कुत्सायांजिगीषा-ज्वालयोर्गिरौ ॥ २३ ॥
32.23 · p. 168
अनुष्टुप्
रुचौ महे गिरायां त्विड्व्यवसाये च धन्वनि ।त्वे-त्वै प्रोक्तौ वितर्के चविशेषे ह्यव्ययावथ ॥ २४ ॥
32.24 · p. 168
अनुष्टुप्