All kośas › Sundaraikākṣarakoṣa
सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa
800 verses · text only, tagging comes next
खकारादिः
॥ अथ खकारादिः ॥
खोऽथ मोक्षे सुखे स्वर्गेसामान्य-सूर्यायोरपि ।खः स्याच्शान्तरसे शून्येक्षेप-संहारयोश्च खः ॥ १ ॥
18.1 · p. 153
अनुष्टुप्metre not read in every line
खः कृशे कुञ्जरे कामेकुणौ दीने नभोगतौ ।खः खग-खेट-खड्गेषुस्यान्निन्दा-खगराजयोः ॥ २ ॥
18.2 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ग (wrong syllable)
खः परब्रह्मणि प्रश्नेस्यादाकाशा-ऽवसानयोः ।वितर्के वेदने वारि-जठराग्नी-न्द्रियेषु खः ॥ ३ ॥
18.3 · p. 153
अनुष्टुप्
निश्चये नृपतौ खोऽथशिवे कृष्णे निगद्यते ।खं स्वर्ग-सुख-संवेदेसंवेश-सूर्ययोस्तथा ॥ ४ ॥
18.4 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
खं सैन्य-सत्य-शून्येषुखं क्षेत्रे क्षेत्रपालने ।इन्दिया-ऽऽकाशयोर्बिन्दौकर्म-कुशा-कृपासु खम् ॥ ५ ॥
18.5 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable)
खं सर्प-नृत्य-गुह्येषुपृथिव्यां रङ्क-रन्ध्रयोः ।खं राजनि पुरे खड्ग-खण्डयोरग्नि-सम्पदोः ॥ ६ ॥
18.6 · p. 153
अनुष्टुप्
खं चन्द्रमण्डले बाला-स्तने च दन्तधावने ।खं श्रोता-वर्ण-नक्षत्र--फलक-ब्रह्म-बुद्धिषु ॥ ७ ॥
18.7 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
खं भवेदभ्रके गेहेदीप्तौ हलफले तथा ।गरुडे कुणिसंभेदेतन्द्र्यां शान्तरसे च खम् ॥ ८ ॥
18.8 · p. 153
अनुष्टुप्
खा पृथ्व्यां नखरे तीक्ष्णेब्राह्मी-लक्ष्मी-नदीषु खा ।खिः स्यात् कामेऽथ खीर्ब्रह्म-गदयोः खुस्तथानले ॥ ९ ॥
18.9 · p. 154
अनुष्टुप्
खूः स्याद्बृहस्पतौ चाथखेः प्राणे परिकथ्यते ।खैर्भ्रातरि भवे पुत्रेखोकारः खञ्ज उच्यते ॥ १० ॥
18.10 · p. 154
अनुष्टुप्
खौरीशे-न्द्रा-ऽग्नि-सूर्येषुख्योऽग्नौ खरे ख्यमम्बरे ।ख्यं सख्ये ख्या भवेत् ख्यातौखर्यां प्रकथने तथा ॥ ११ ॥
18.11 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ख (wrong syllable)
ख्रः खले रासभे सूर्येख्रं मरणे च मैथुने ।ख्रं दुष्टहृदये खड्गेख्रा कैकय्यां क्षितावपि ॥ १२ ॥
18.12 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
ताडका-पूतना-सूर्प-णखासु ख्रा समुच्यते ।ख्लः खले ख्ला सुरा-क्षुद्रा-ऽब्जलोचनाबलासु च ॥ १३ ॥
18.13 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)