All kośas › Sundaraikākṣarakoṣa
सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa
800 verses · text only, tagging comes next
थकारादिः
॥ अथ थकारादिः ॥
अथ थः केशवे कल्पेकल्लोले काल-कामयोः ।थः शुक्ल-श्याम-शोकेषुशब्दे शैल-विरामयोः ॥ १ ॥
33.1 · p. 168
अनुष्टुप्
थः क्षुद्र-श्रान्त-सूर्येषुज्यायां चन्द्रे भरे पृथौ ।थो मिथ्यावाचके केशेगणेशे गरुडे गजे ॥ २ ॥
33.2 · p. 168
अनुष्टुप्
दण्डीशा-ऽऽकाश-भारेषुथो भङ्गे भयरक्षणे ।सत्वरार्थे गृहे थः स्याद्वरदे परिमार्जने ॥ ३ ॥
33.3 · p. 168
अनुष्टुप्
भयाङ्क-भक्षण-व्याधि-भेदेष्वास्फालनेऽपि थः ।थं कर्म-रक्षयोः स्तोकेबहुल-सूक्ष्म-मङ्गले ॥ ४ ॥
33.4 · p. 168
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
मरुदेशप्रदेशे थंभये च भयवारणे ।थं विषे थ प्रभा-गङ्गा-ऽवन्यु-पचारणीषु च ॥ ५ ॥
33.5 · p. 168
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
था निमग्नेऽतिगम्भीरेकषाया-ऽऽरब्धवस्तुनोः ।स्थूलस्त्री-देवकूटे थासरिता--स्वामिनोर्दृढे ॥ ६ ॥
33.6 · p. 168
अनुष्टुप्
थिर्गोदायां च कालिन्द्यांथी भूमौ भाजने तथा ।थीः सिन्धु-व्रण-रेवासुथीस्ताडवविकारके ॥ ७ ॥
33.7 · p. 168
अनुष्टुप्
थुः पर्वते व्रणे द्रोणेबले निष्ठीवने पुमान् ।निन्दित-भूतयोः ख्यातःसाक्षिणि थुरिति श्रुतिः ॥ ८ ॥
33.8 · p. 168
अनुष्टुप्metre not read in every line
थूः स्यात् परासरे, थेश्चव्यासेऽथ, थैः शुके मतः ।थोकारो गाधिपुत्रे स्याद्धर्मे, थौर्वारिजे स्मृतः ॥ ९ ॥
33.9 · p. 168
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
थ्यो नाथे थ्यं भवेत् पथ्येथ्या कथायां समुच्यते ।थ्रस्तीर्थवासकारे स्यात्थ्रोऽम्बिकापुत्र-जारयोः ॥ १० ॥
33.10 · p. 168
अनुष्टुप्
थ्रः स्यात् पूते तथा पुष्टेक्लीबस्थ्रं मरणे सुखे ।थ्रं मध्वरिमुखे तीर्थआयुक्तेऽपाठि पण्डितैः ॥ ११ ॥
33.11 · p. 169
अनुष्टुप्
थ्रा रजकात्मजा-रात्री-राज्ञी-रमा-स्थितास्वपि ।थ्वोऽरुणेऽर्थेऽक्षरे, थ्वं तुमैथुने, थ्वाऽथ योषिति ॥ १२ ॥
33.12 · p. 169
अनुष्टुप्metre not read in every line