All kośas › Sundaraikākṣarakoṣa
सुन्दरैकाक्षरकोष Sundaraikākṣarakoṣa
800 verses · text only, tagging comes next
ओकारादिः
॥ अथ ओकारादिः ॥
ओकारोऽथ विरञ्चौ स्या-ज्जलदे जलजे जले ।इन्द्राविन्द्रे च योनावो-कारः कुबेर-कुड्ययोः ॥ १ ॥
13.1 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable)
ओकारः स्यात् सुधा-साधु-सूत्र-सुज्ञा-ऽसुरा-ऽसिषु ।सद्योजे सङ्ग ओशब्दःशङ्करे शक्ति-शेषयोः ॥ २ ॥
13.2 · p. 148
अनुष्टुप्
ओशब्दो वासुदेवे स्याद्रक्षण-काणयोः शरे ।ओकारो जन-जम्बालेजवे जीवे परासरे ॥ ३ ॥
13.3 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
ओशब्दो ब्राह्मणे ख्यातःप्रणवे श्रवणे ध्रुवे ।ओकारः स्यादगे केत्व-गस्त्य-कुट्य-क्षया-ऽऽखुषु ॥ ४ ॥
13.4 · p. 148
अनुष्टुप्
आप्यायन्यां च खत्वायांगरुडे समुदीरितः ।स्वसदने च मार्जारओकारो नागसंज्ञके ॥ ५ ॥
13.5 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable)
ओ स्यादथाव्ययोऽनन्तेसम्बोधनेऽनुकम्पने ।ओ स्मरणे तथाऽऽह्वनेविद्वद्भिः समुदाहृतः ॥ ६ ॥
13.6 · p. 148
metre not recognised
ओमथ ब्रह्मणो नाम-विशेषे स्यान्नपुंसकः ।ओमथाऽव्यय आरम्भेमङ्गले प्रणवे शुभे ॥ ७ ॥
13.7 · p. 148
अनुष्टुप्
ओमपाकृति-स्वीकारा-ऽस्वीकारा-ऽनुमतिष्वपि ।ओमाह्वाने तथा दीप्तौयाचने परमेश्वरे ॥ ८ ॥
13.8 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ति (wrong syllable)