कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निःस्व

niḥsvaवि · adj.

In 10 kośas: 6 synonym verses, 9 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.26 · p. 18
दरिद्रो दुर्विधो दुःस्थो दुर्गतो निःस्वकीकटौ ।अकिंचनोऽधिपस्त्वीशो नेता परिवृढोऽधिभूः ॥ ३५८ ॥पतीन्द्रस्वामिनाथार्याः प्रभुर्भर्तेश्वरो विभुः ।ईशितेनो नायकश्च नियोज्यः परिचारकः ॥ ३५९ ॥डिङ्गरः किंकरो भृत्यश्चेटो गोप्यः पराचितः ।दासः प्रेष्यः परिस्कन्दो भुजिष्यपरिकर्मिणौ ॥ ३६० ॥परान्नः परिपिण्डादः परजातः परैधितः ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.90
निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः ।
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.24 · p. 3
उदीर्णः स्यादुदात्तोऽपि महेच्छोदारकोद्भटाः ।निःस्वस्तु दुर्विधो दीनो दुःस्थाकिंचन-कीकटाः ॥ २४ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.24 · p. 104
दरिद्रोऽकिंचनो निःस्वो निर्धनः कीकटश्च सः ।दुर्गतो दुर्विधो दुःस्थो नायकोऽथाधिभूः प्रभुः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति विड्वर्गः Śāradīyākhyanāmamālā 3.3.49 · p. 39
आपद्विप[द्विप]त्तिश्च दारिद्रं निःस्वनिर्धनौ ।कदर्यः कृपणो लोभी बद्धमुष्टिर्मितंपचः ॥ ४९ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.530 · p. 67
स्याद्दरिद्रस्तथा दुःस्थः क्षुद्रो दुर्विधदुर्गतौ ।कीकटोऽकिञ्चनो निःस्वो दीनो नीचोऽपि कथ्यते ॥ ५३० ॥
अनुष्टुप्
genderविadj.

निःस्व as a meaning in nānārtha verses

  • धरणिकोश निर्ग्रन्थनिर्ग्रन्थः क्षपणे निःस्वे क्षवथुः क्षुतकासयोः । मन्मथौ स्मरकपित्थौ सिद्धार्थौ बुद्धसर्षपौ । गोग्रन्थिः करवीरे तु षड्ग्रन्था तु शटी वचा ॥ Dharaṇikośa 16.1.3
  • कोषकल्पतरु क्षुल्लकतक्षक उक्तो नागे स्थपतावल्पे तु निःस्वे च । नीचे कनीयसि स्या- त्परलिङ्गः क्षु[250a]ल्लकस्तद्वत् ॥ ३८ ॥ Koṣakalpataru 6.1.38
  • कोषकल्पतरु काकरूकनदीप्रभेदेऽपि च वर्तरूकं स्यात्काकनीडे च जलावटे च । दम्भे पुनः स्त्रीजितनिःस्वयोश्च । स्यात्काकरूकश्चकिते च भीरौ ॥ ५२ ॥ Koṣakalpataru 6.1.52
  • कोषकल्पतरु दुर्गतिभवेत्स्रवन्त्यौषधिसिन्धुभेदे वाते त्वमात्ये वहतिर्वृषे ना स्त्री दुर्गतिः स्यान्निरये च निःस्वे । डिम्बे गदे स्याद्विकृतिर्विकारे शठे तु शाठ्ये निकृतिर्निकारे ॥ ३६ ॥ Koṣakalpataru 6.16.36
  • कोषकल्पतरु उपस्थअश्वत्थ उक्तोऽपि च पौर्णमास्यां नपुंसके त्वम्भसि संप्रदिष्टः । उपस्थ उत्सङ्ग वराङ्गपायु- मेढ्रेषु निःस्वे त्वपि नग्नकेन्द्रे ॥ ११ ॥ Koṣakalpataru 6.18.11
  • शब्दरत्नावली दुर्गतिदुर्गतिर्नरके निःस्वे द्विजातिर्विप्रपक्षिणोः । दुर्जातं व्यसने क्लीबमसज्जातेऽभिधेयवत् ॥ Śabdaratnāvalī 7.16.107
  • शब्दरत्नावली निर्ग्रन्थदमथुर्ना दमे दन्ते निशीथो रात्रितद्भिदोः । निर्ग्रन्थो नग्नके निःस्वे मूर्खेऽपि निःसहायके ॥ प्रमथा स्त्री तु पथ्यायां तुरङ्गे पार्षदे पुमान् । वरूथो रथगुप्तौ ना क्लीबन्तु गेहचर्मणोः ॥ मन्मथः कामदेवे स्यात्कामचिन्ताकपित्थयोः । भवेद्वयस्था सूक्ष्मैलाकाकल्यामलकीषु च ॥ Śabdaratnāvalī 7.17.13
  • शब्दरत्नाकर निर्गन्धनालिका विवरे वेणुभाजने चुल्लिरन्ध्रके । निर्गन्धः श्रमणे निःस्वे निर्वृतिः सौख्यनाशयोः ॥ २११३ ॥ Śabdaratnākara 4.1.2113
  • त्रिकाण्डशेष कीकटसुरायां स्त्री कीकटुस्तु निःस्वे देशे मितम्पचे । खेटः सिङ्घाणके हीने गृष्टिर्धेन्वौषधीभिदोः ॥ ९५ ॥ Trikāṇḍaśeṣa 3.3.95