All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)
प्रथमः काण्डः · मङ्गलाचरणम्
वामनभट्टप्रणीतः शब्दरत्नाकरः
सोमाङ्गमुत्तंसयते वामाङ्गमवरुन्धते ।नमः परस्मै देवाय तेजोभिः पश्यते त्रिभिः ॥ १ ॥
1.1.1 · p. 1
अनुष्टुप्
वरदाग्निचितः पौत्रः पुत्रः कोवटियज्वनः ।जागर्ति वामनो बाणो वत्सवंशशिखामणिः ॥ २ ॥
1.1.2 · p. 1
अनुष्टुप्
तेन जिज्ञासमानानामुपकर्त्रा विधीयते ।शब्दरत्नाकरो नाम निख(!)ण्डुर्मान्द्यखण्डनः ॥ ३ ॥
1.1.3 · p. 1
अनुष्टुप्
नामलिङ्गप्रकाशैकदर्पणे प्राज्ञतर्पणे ।पूर्वशास्त्रकृतं लक्ष्म यत्तदत्र निबध्यते ॥ ४ ॥
1.1.4 · p. 1
अनुष्टुप्
पञ्चधा वर्तते शब्दो लिङ्गे स्त्रीपुंनपुंसके ।अव्यये लिङ्गसांकर्येऽप्येषामन्त्यं चतुर्विधम् ॥ ५ ॥
1.1.5 · p. 1
अनुष्टुप्
नृस्त्री नृषण्डः षण्डस्त्री त्रिलिङ्गव्यवहारतः ।प्रायोऽत्र रूपभेदेन साहचर्येण च क्वचित् ॥ ६ ॥
1.1.6 · p. 1
अनुष्टुप्
ज्ञेया त्रिलिङ्गीसंकीर्णलिङ्गव्यक्तिः पृथग्विधैः ।भिन्नलिङ्गपदश्लेषो नात्र द्वन्द्वैकशेषयोः ॥ ७ ॥
1.1.7 · p. 2
अनुष्टुप्
ना पुमानिति पुंल्लिङ्गे स्त्रीलिङ्गे स्त्रीति कथ्यते ।नपुंसकक्लीबषण्डपदं तल्लिङ्गवाचकम् ॥ ८ ॥
1.1.8 · p. 2
अनुष्टुप्
लिङ्गत्रये त्रिष्विति स्यात् स्त्रीपुंसोः स्याद्द्वयोरिति ।निषेधे शेषलिङ्गं स्यान्न त्वन्ताथादि पूर्वभाक् ॥ ९ ॥
1.1.9 · p. 2
अनुष्टुप्