कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

लिङ्गसंग्रहाध्यायः · नृषण्डलिङ्गप्रकरणम्

इति त्रिलिङ्गप्रकरणम् ।

अर्धर्चादिगणे प्रोक्तं सर्वं नृक्लीबलिङ्गकम् ।तद्दैवतादिकं सर्वं पूर्वत्रै[व] प्रदर्शितम् ॥ २३२९ ॥
7.5.2329 · p. 284
अनुष्टुप्
तत्र केचिद्घृतादीनां पुंस्त्वं वैदिकमूचिरे ।पिशा[चा]दिषु भूतोऽस्त्री तिलकं च विशेषकम् ॥ २३३० ॥
7.5.2330 · p. 284
अनुष्टुप्
कमण्डलुः कालकूटो मधुः सानुर्हलाहलः ।इत्यादि सर्वं तद्रूपं तत्र तत्र प्रदर्शितम् ॥ २३३१ ॥
7.5.2331 · p. 284
अनुष्टुप्