All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)
लिङ्गसंग्रहाध्यायः · नपुंसकलिङ्गप्रकरणम्
इति पुंलिङ्गप्रकरणम् ।
भावे ल्युडन्तनिष्ठान्ते शिरोबिन्दु(!) नपुंसकम् ।समूहे काकबाकादि फले त्वाश्वत्थमुख्यकम् ॥ २३२१ ॥
7.2.2321 · p. 283
अनुष्टुप्
द्वन्द्वैकत्वाव्ययीभावौ पथः संख्याव्ययात्परः ।दृढादि ब्राह्मणाद्यं च ष्यञन्तं भावकर्मणोः ॥ २३२२ ॥
7.2.2322 · p. 283
अनुष्टुप्
त्वान्तं षष्ठ्यां बहुत्वार्थे छाया सान्तं च नोपधम् ।प्रायशस्त्रोपधं यान्तं लोपधं युक्तधो(सो?)पधम् ॥ २३२३ ॥
7.2.2323 · p. 283
अनुष्टुप्
नामानि काञ्चनाब्जामपो हित्वा जलाभिधाः ।रक्षःसभं नृपसभं तथा दासीसभादि च ॥ २३२४ ॥
7.2.2324 · p. 283
अनुष्टुप्metre not read in every linenearly अनुष्टुप्