भूषण
bhūṣaṇaक्ली · neut.In 16 kośas: 16 synonym verses, 1 as a nānārtha head word, 43 as a meaning of another word.
स्थासकस्तु हस्तबिम्बमलंकारस्तु भूषणम् ॥ ६४९ ॥परिष्काराभरणे च चूडामणिः शिरोमणिः ।
अनुष्टुप्metre not read in every line
genderक्लीneut.
विभ्राड्भ्राजिष्णुरोचिष्णू भूषणं स्यादलङ्क्रिया ।
अनुष्टुप्
genderक्लीneut.
आकल्पो मण्डनं वेषः प्रतिकर्म प्रसाधनम् ।भूषणं स्यादलङ्कारो नेपथ्याभरणे तथा ॥ ५३९ ॥
अनुष्टुप्
genderक्लीneut.
समालभनमिच्छन्ति चर्चां मार्ष्टिं च सूरयः ।स्थासकं हस्तविम्बं स्यात्परिष्कारश्च भूषणम् ॥ ५४० ॥
अनुष्टुप्
genderक्लीneut.
पुंस्याकल्पो वेषवेशावपि भूषणमस्त्रियाम् ।स्यान्नेपथ्यमपि क्लीबे प्रतिकर्म प्रसाधनम् ॥ २४९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
भूषणं चेन्द्रजालं च सुकुमारेण केनचित् ।कृता उपाया रूपादौ हस्तलाघवमित्यपि ॥ ५०५ ॥
अनुष्टुप्
genderक्लीneut.
दूषणस्वर्णवृषणव्रणानां भूषणस्य च ।भाणत्रवरचूणानां किणतोरणयोरपि ॥ १५७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
मण्डनाभरणे न स्त्री भूषणं तद्धिरण्मयम् ।हैमं च भेद्यवच्चूडामणिस्तु स्याच्छिरोमणिः ॥ ६७ ॥
अनुष्टुप्
genderक्लीneut.
कपिवल्ल्यां कोलवल्ली गण्डिनी हस्तिपिप्पली ।मरीचं च शिरावृत्ता भूषणं धर्मपत्तनम् ॥ २२१ ॥
अनुष्टुप्
genderक्लीneut.
भूषणाभरणं रुच्यं माल्यं मालागुणस्रजः ।मेखला रसना काञ्ची हेमपर्यायसूत्रकम् ॥ ११९ ॥
अनुष्टुप्
genderक्लीneut.
भूषणाभरणे तुल्ये परिष्कारमलंकृतिः ।स्थासको हस्तबिम्बं च चूडारत्ने शिरोमणिः ॥ ३०० ॥
अनुष्टुप्
genderक्लीneut.
पक्कणश्रवणद्रोणकङ्कणाः स्वर्णभूषणे ।दूषणश्चरणो भारणोऽपराह्णस्तृणतोरणौ ॥ १३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंक्लीm. n.
मण्डनं स्यादलंकारो भूषणाभरणे अपि ।शीर्षाभरणं शीर्षपुष्पं चूडामणिः शिरोमणिः ॥ ४४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
आभरणमलङ्कारः परिष्कारश्च भूषणम् ।ज्ञायतां भूषणं विश्वे विभिन्नभूषणं पुनः ॥ १०५२ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 4, syllable 3 न्न (wrong syllable)
genderक्लीneut.
अलङ्कारः परिष्कारः विभूषणमलङ्क्रिया ।मण्डणाभरणं भूषा त्वलङ्करणभूषणम् ॥
अनुष्टुप्
genderक्लीneut.
अलंकारस्त्वाभरणं भूषणं मण्डनं पुनः ।विभूषणं परिष्कारः कर्णिका कर्णभूषणम् ॥ १३३ ॥
अनुष्टुप्
genderक्लीneut.
अस्त्री त्वाभरणे ज्ञेयं भूषणं भूषणा त्वना ।अलङ्कृतावथ स्त्री स्याच्चतुर्दश्यां तिथौ तथा ॥ १३०७ ॥
अनुष्टुप्
meaningsआभरण
भूषण as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् कलापकलापो भूषणे बर्हे तूणीरे संहतावपि । Amarakośa 3.3.244
- नामलिङ्गानुशासनम् अलम्अलं भूषणपर्याप्तिशक्तिवारणवाचकम् । Amarakośa 3.3.492
- धरणिकोश अङ्कअङ्कः क्रोडे च चिह्ने च चित्रयुद्धसमीपयोः । नाटकग्रन्थविच्छेदे स्थानभूषणयोः क्वचित् ॥ Dharaṇikośa 1.3.2
- धरणिकोश वेशकाशास्तृणविशेषे स्युः काशी वाराणसी पुरी । वेशो गृहे प्रवेशे च वेश्यावासे च भूषणे ॥ Dharaṇikośa 29.2.4
- धरणिकोश अलम्अलं भूषणपर्याप्तिवारणेषु स्मृत[मलम्] । एवं प्रकारोपमयोरङ्गीकारेऽवधारणे ॥ Dharaṇikośa 34.15.4
- कोषकल्पतरु मण्डयतेमण्डयते मण्डयति प्रसाधयत्यलति मङ्कते चात्र । मङ्घति भूषति लूषत्यलंकरोतीह रूषति स्याच्च ॥ १९ ॥ Koṣakalpataru 3.5.19
- कोषकल्पतरु मार्जतिमार्जति स्यान्मार्जयति भूषयत्यपि मण्डति । स्वनयत्युत्तंसयति वतंसयति च स्मृतम् । कर्णयोर्भूषणे तद्वच्छिख्याद्यजि च कीर्तितम् । मोदते माद्यति[182b]स्याच्च सभाजयति हृष्यति ॥ २० ॥ Koṣakalpataru 3.5.20
- कोषकल्पतरु आबन्धिप्रादविच्छेदनिर्माणेऽथाध्मानस्तम्भयोर्वितः । आङः संभ्रमबन्धार्थो गूढबन्धे च भूषणे ॥ १५ ॥ Koṣakalpataru 3.5.15
- कोषकल्पतरु परिकरोतिभूषणे वेष्टने व्याङः प्रकाशव्याख्ययोः पराः(?) । स्यान्निरासे निराङश्च प्रतेश्चाङः स आकृतौ ॥ ५९ ॥ Koṣakalpataru 3.5.59
- कोषकल्पतरु परिसर्वतोभवनभूषणपूजा- दोषवादपरिरम्भगदेषु । लक्षणादिषु च शोकनिवास- व्याप्तिवर्जनवधेषु परि स्यात् ॥ १६ ॥ Koṣakalpataru 5.1.16
- कोषकल्पतरु भाण्डत्रय्यां मुण्डित ओषधौ तु वनिता मत्ते तु शौण्डोऽन्यवत् स्याच्चव्याकणयोः स्त्रियामथ शरे नीरे तरुस्कन्धके । स्तम्बे चावसरे रहस्यपि मितौ वर्गे च काण्डोऽस्त्रियां निन्द्ये च त्रिषु भाण्डमत्र वणिजां मूले धने भूषणे ॥ ७९ ॥ Koṣakalpataru 6.12.79
- कोषकल्पतरु लङ्घनस्यात्कल्पनं कर्तनक्लृप्तिवाचि स्त्री सज्जनायामथ कर्तनं तु । छेदे वधूनामपि तूलसेवे- ऽथो लङ्घनं भूषणवाचकं च ॥ ५० ॥ Koṣakalpataru 6.21.50
- नानार्थार्णवसंक्षेप कम्बूकम्बूस्तु कुरुविन्दे स्याद् भूषणे च त्सरावपि । ककुबुष्णिग्विशेषे स्याद् भूभृतः शिखरे दिशि ॥ २२ ॥ Nānārthārṇavasaṃkṣepa 2.1.22
- नानार्थार्णवसंक्षेप कण्वओको गृहे जलौकायामाश्रये चाथ भूषणे । कण्वं पर्वणि किण्वं तु नग्नहूसंज्ञवस्तुनि ॥ १७ ॥ Nānārthārṇavasaṃkṣepa 2.3.17
- नानार्थार्णवसंक्षेप दिष्टना क्ली संवदने दैवे कृतान्तेऽपि धनञ्जयः । दैवाद्भेदेन पठति दानभूषणयोरपि ॥ ५९८ ॥ Nānārthārṇavasaṃkṣepa 2.5.598
- नानार्थार्णवसंक्षेप दृश्यदर्शनीये भूषणे क्ली दृष्टं तु त्रिषु वीक्षिते । ज्ञाते क्लीबं तु भूपानां भये स्वपरचक्रजे ॥ ६१४ ॥ Nānārthārṇavasaṃkṣepa 2.5.614
- नानार्थार्णवसंक्षेप भाण्डभृतिं गृहीत्वा वसति तत्र भर्तुश्च योगिनि । भाण्डं क्लीबममत्रेऽश्वभूषणे भूषणे तथा ॥ ९०१ ॥ Nānārthārṇavasaṃkṣepa 2.5.901
- नानार्थार्णवसंक्षेप रन्ध्रविवरे चापराधे च भूषणे त्वपरे विदुः । लग्नादप्यष्टमे राशौ विदुः सांवत्सरा इदम् ॥ १०९३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1093
- नानार्थार्णवसंक्षेप रुच्यपाणिग्राहे रुचिकरे पुन(स्त्री?स्त्रि)रथ भूषणे । विलेपने च शण्डोऽथ रुम्रो ना सूर्यसारथौ ॥ १११२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1112
- नानार्थार्णवसंक्षेप कर्णिकाकरिहस्ताङ्गुलौ पद्मबीजकोश्या च भूषणे । कर्णस्य मध्यमाङ्गुल्यामपि कश्चिदभाषत ॥ १६ ॥ Nānārthārṇavasaṃkṣepa 3.1.16
- नानार्थार्णवसंक्षेप कलापक्वचिदाङ्गिरसे मत्ये कलापस्तु पुमानयम् । काञ्चीतूणीसमूहेषु भूषणे बर्हिबर्हके ॥ ३०४ ॥ Nānārthārṇavasaṃkṣepa 4.304
- नानार्थार्णवसंक्षेप कङ्कणस्त्रियां स्यात् करकेऽथ क्ली कङ्कणं करभूषणे । तथा भूषणमात्रे च सूत्रे त्वजय उक्तवान् ॥ ३२६ ॥ Nānārthārṇavasaṃkṣepa 4.326
- नानार्थार्णवसंक्षेप चलनभवेच्चलनशीले क्ली पुनर्भूषणकम्पयोः । गमने वस्त्रभेदे च चलना तु स्त्रियामियम् ॥ ७२० ॥ Nānārthārṇavasaṃkṣepa 4.720
- नानार्थार्णवसंक्षेप ललामललामस्त्वस्त्रियां ज्ञेयः प्रभावे पुरुषे नृपे । ध्वजे चिह्ने च पुच्छे च पशुशृङ्गे च भूषणे ॥ १५४६ ॥ Nānārthārṇavasaṃkṣepa 4.1546
- नानार्थार्णवसंक्षेप नगभूषणव्यवहारप्रवृत्तानां लेख्यभेदेऽप्यथो भवेत् । नगभूषणमित्येतन्नगानां भूषणेऽपि च ॥ १३ ॥ Nānārthārṇavasaṃkṣepa 7.13
- नानार्थार्णवसंक्षेप मुखभूषणमुखभूषणमित्येतत् स्याल्लोहे वङ्गसंज्ञके । मुखस्य भूषणे चाथ रसकेसरमित्यदः ॥ १८ ॥ Nānārthārṇavasaṃkṣepa 7.18
- परमानन्दीयनाममाला अन्दूअहिः सर्पे रवौ वप्रवृत्रयोः केतुपान्थयोः । अद्रिः शैले रवावन्दूर्निगडे भूषणेऽपि च ॥ १२ ॥ Paramānandīyanāmamālā 5.1.12
- परमानन्दीयनाममाला अलम्अलं भूषणसामर्थ्यनिषेधेष्वथ मङ्गले । प्रारम्भकार्त्स्न्ययोः प्रश्नेऽनन्तार्थेऽप्यथो तथा ॥ १५ ॥ Paramānandīyanāmamālā 5.1.15
- शब्दरत्नावली अङ्कअर्क्कः स्फटिकसूर्यार्कपर्णतार्म्रेन्द्रसूरिषु । अङ्कः परिच्छेदे रेखाचित्राजिभूषणेष्वपि ॥ Śabdaratnāvalī 7.1.2
- शब्दरत्नावली ललामन्ललाम स्याद्ध्वजे शृङ्गे प्रभावे च तुरङ्गमे । प्रधाने लाञ्छने पुण्ड्रे वालधौ भूषणेऽपि च । लाङ्गली रेवती कान्ते नारिकेलद्रुमे पुमान् । …वञ्चकव्याघ्रगन्धमार्जारकेषु च । वर्द्धमानः पशुविष्णुशरावैरण्डसूरिषु । विस्मापनः स्मरे पूर्यां गन्धर्वे कुहनेऽपि च ॥ विसर्जनं परित्यागदानसंप्रेरणेषु च । विरोचनोऽग्निसूर्येन्दुप्रह्लादतनयेषु च ॥ विहेठनं मर्दने स्याद् हिंसायाञ्च विडम्बने ॥ Śabdaratnāvalī 7.20.121
- शब्दरत्नावली कलापकच्छपीवल्लकीभेदक्षुद्ररोगडुलीष्वपि । कलापो भूषणे तूणे काञ्च्यां बर्हे च संहतौ ॥ कशिपु क्लीबमेकोक्त्या मिलिते चान्नवाससी । पृथक्कृतेऽन्ने वस्त्रे च कशिपुः पुंसि दृश्यते ॥ Śabdaratnāvalī 7.21.16
- शब्दरत्नावली ललामललामं भूषणे शृङ्गे प्रधाने लाञ्छने ध्वजे । हयवालधिपुण्ड्रेषु प्रभावेऽपि च न द्वयोः ॥ Śabdaratnāvalī 7.25.40
- शब्दरत्नावली रन्ध्ररन्घ्रं छिद्रे भूषणे च रुरुर्ना मृगदैत्ययोः । रेत्रसूतकपीयूषपटवासेषु तेजसि ॥ Śabdaratnāvalī 7.27.40
- शब्दरत्नावली अलम्किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50
- शब्दरत्नाकर कलापकलापो भूषणे काञ्च्यां समूहे बर्हतूणयोः । कमण्डलौ च दाडिम्यां करको भूम्नि तु स्त्रियाम् ॥ २०६२ ॥ Śabdaratnākara 4.1.2062
- शब्दरत्नाकर रुचकनक्षत्रे कटुरोहिण्यां कन्यायां गवि रोहिणी । रुचको मातुलुङ्गे स्याद्भूषणे रदने मणौ ॥ २१५६ ॥ Śabdaratnākara 4.1.2156
- शब्दरत्नाकर वर्धमानवनस्पतिर्वृक्षमात्रेऽप्यपुष्पात् फलवद्द्रुमे । स्याद्वर्धमान एरण्डे शरावे भूषणेऽपि च ॥ २२२७ ॥ Śabdaratnākara 4.1.2227
- शब्दरत्नाकर अलम्अलं तु शक्तौ पर्याप्तौ भूषणे विनिवारणे । अपि संभावनाप्रश्नगर्हाशङ्कासमुच्चये ॥ २२६० ॥ Śabdaratnākara 5.2.2260
- तन्त्राभिधान भभः क्लिन्ना भ्रमरो भीमो विश्वमूर्तिर्निशाह्वयः । द्विरण्डो भूषणं मूले यज्ञसूत्रस्य वाचकः ॥ १३२ ॥ Tantrābhidhāna 2.41.132
- वैजयन्ती कलापकञ्चुकः सर्पनिर्मोके कवचे वारवाणके । कलापो भूषणे कांच्यां संघाते बर्हतूणयोः ॥ १५ ॥ Vaijayantī 7.1.15
- वैजयन्ती रुचकरुचको भूषणे दन्ते रुवथः कुक्कुटे ध्वनौ । वञ्चथः कोकिले काले वर्तकोऽश्वखुरे खगे ॥ ६४ ॥ Vaijayantī 7.1.64
- वैजयन्ती वर्धमानवर्धमानः शरावे स्यादेरण्डे भूषणेऽपि च । शंकुकर्णौ गर्दभोष्ट्रावलिबाणौ शिलीमुखौ ॥ ४४ ॥ Vaijayantī 8.1.44
- वैजयन्ती अलम्पीडेर्ष्यानुमतिष्वस्तु स्यादध्यधिक ईश्वरे । अलं तु भूषणे शक्तौ पर्याप्तौ विनिवारणे ॥ १३ ॥ Vaijayantī 8.7.13