कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वीतिहोत्र

vītihotraपुं · masc.

In 14 kośas: 15 synonym verses, 1 as a nānārtha head word, 15 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य तेजस्कायः Abhidhānacintāmaṇi 4.3.1 · p. 43
वह्निर्बृहद्भानुहिरण्यरेतसौ धनंजयो हव्यहविर्हुताशनः ।कृपीटयोनिर्दमुना विरोचनाशुशुक्षणी छागरथस्तनूनपात् ॥ १०९७ ॥कृशानुवैश्वानरवीतिहोत्रा वृषाकपिः पावकचित्रभानू ।अप्पित्तधूमध्वजकृष्णवर्त्मार्चिष्मच्छमीगर्भतमोघ्नशुक्राः ॥ १०९८ ॥शोचिष्केशः शुचिहुतवहोषर्बुधाः सप्तमन्त्र-ज्वालाजिह्वो ज्वलनशिखिनौ जागृविर्जातवेदाः ।बर्हिःशुष्मानिलसखवसू रोहिताश्वाश्रयाशौबर्हिर्ज्योतिर्दहनबहुलौ हव्यवाहोऽनलोऽग्निः ॥ १०९९ ॥विभावसुः सप्तोदर्चिः स्वाहाग्नेयी प्रियास्य च ।
upajati 12
वह्निपुंबृहद्भानुपुंहिरण्यरेतस्पुंधनंजयपुंहव्यहविस्पुंहुताशनपुंकृपीटयोनिपुंदमुनस्पुंविरोचनपुंआशुशुक्षणिपुंछागरथपुंतनूनपात्पुंकृशानुपुंवैश्वानरपुंवीतिहोत्रपुंवृषाकपिपुंपावकपुंचित्रभानुपुंअप्पित्तपुंधूमध्वजपुंकृष्णवर्त्मन्पुंअर्चिष्मत्पुंशमीगर्भपुंतमोघ्नपुंशुक्रपुंशोचिष्केसपुंशुचिपुंहुतवहपुंउषर्बुधपुंसप्तमन्त्रज्वालाजिह्वपुंज्वलनपुंशिखिन्पुंजागृविपुंजातवेदस्पुंबर्हिःशुष्मन्पुंअनिलसखपुंवसुपुंरोहिताश्वपुंआश्रयाशपुंबर्हिस्पुंज्योतिस्क्लीदहनपुंबहुलपुंहव्यवाहपुंअनलपुंअग्निपुंविभावसुपुंसप्तोदर्चिस्पुंस्वाहास्त्रीआग्नेयीस्त्री
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.56
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः ।कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् ॥ ५३ ॥बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः ।आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥ ५४ ॥रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः ।हिरण्यरेता हुतभुग्दहनो हव्यवाहनः ॥ ५५ ॥सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः ।शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.64 · p. 9
वीतिहोत्रो बृहद्भानुराश्रयाशो धनञ्जयः ।हिरण्यरेतास्तमोघ्नो रोहिताश्वो हुताशनः ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर प्रथमोपदेशः Bālaprabodhikā 1.20 · p. 67
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः ।सर्वभुग्जलजो ज्वाली वाशिर्वातसखः शुचिः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.47 · p. 12
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः ।रोहिताश्वो बृहद्भानुर्दहनो हव्यवाहनः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव भूस्थदेवप्रकाण्डः Kalpadrukośa 2.2.1 · p. 376
धनंजयोऽग्निर्ज्वलनो वीतिहोत्रोऽञ्चतिः शिवः ।जुहुराणः शुष्म घासिर्हव्यवाड्दमुना वसुः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.11 · p. 437
वीतिहोत्रः कोकलोकाब्जिनी बन्ध्वर्थ इत्यपि ।सुग्रीवमनुकर्णानां यमयम्योः शनेः पिता ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.123 · p. 20
वह्निर्वैश्वानरो* ज्वलन-हुतभुजौ वीतिहोत्रोऽप्सुयोनिःशोचिष्केशः शिखावान्पवि-पचन-शुचि-ज्वाल-जिह्वानलाः स्युः ।सप्तार्च्चिः शुन्ध्यु-शुक्राद्यनि-वनि-दहनोदर्चिरर्चिष्मदग्नि-स्वाहानाथाश्रयाशानिलसख-शिखिनश्चित्रभानुः कृशानुः ॥ १२३ ॥
स्रग्धराmetre not read in every linenearly स्रग्धरा
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.5 · p. 52
ज्वलनो जागृविर्बर्हिः कृष्णवर्त्मानलौ शुचिः ।शुष्मदस्मौ तथा वीतिहोत्रानिलसखौ वसुः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.311 · p. 22
धनञ्जयो वीतिहोत्रो धूमकेतुर्विभावसुः ।हिरण्यरेता हुतभुक् ज्वलनो हव्यवाहनः ॥ ३११ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.168 · p. 18
आश्रयाशो वायुसखः पावको हुतभुक्शिखी ।वृषाकपिर्वीतिहोत्रः कृशानुश्छागवाहनः ॥ १६८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि तेजस्कायनामानि Suśīlanāmamālā 5.3.1921 · p. 315
तनूनपात् तमोघ्नश्च कृपीटयोनिरञ्चतिः ।उषर्बुधः पृथुः पुष्टः वीतिहोत्रश्च वञ्चतिः ॥ १९२१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.131 · p. 10
हवनायुर्जुहूवानः स्यात् शिखावानिशिवः शुचिः ।बर्हिःशुष्मा बर्हिःशुष्मा वीतिहोत्रो धनञ्जयः ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ब (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.98 · p. 13
रोहिताश्वो मन्त्रजिह्वः सप्तजिह्वस्तनूनपात् ।वीतिहोत्रो जातवेदाः कृष्णवर्त्मा विभावसुः ॥ ९८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.14 · p. 10
वह्निर्वैश्वानरो घासिः कृष्णवर्त्मा समन्तभुक् ।जातवेदा बृहद्भानुर्वीतिहोत्रस्तनूनपात् ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.31 · p. 335
पुंस्यग्निहोत्रो दहने द्वयोनंहविष्यथाग्नौ तरणौ च दिष्टः ।ज्ञैर्वीतिहोत्रोऽप्यथ वीरमान्येस्याद्वीरभद्रो हयमेधकाश्वे ॥ ३१ ॥
उपजातिः

वीतिहोत्र as a meaning in nānārtha verses

  • कोषकल्पतरु ज्योतिस्ज्योतिः पुमान्भास्वति वीतिहोत्रे दृष्टौ प्रकाशेऽप्युडुनि द्वयोनः ॥ ११ ॥ Koṣakalpataru 6.31.11
  • शब्दरत्नावली एधतुएधतुः स्याद्वीतिहोत्रे वर्द्धिते पुरुषे पुमान् । कलितं विदिते चाप्ते गणिते भेदितेऽपि च ॥ Śabdaratnāvalī 7.16.95
  • शब्दरत्नावली हिमारातिआहितेऽप्युक्तसिद्धान्ते समाधिस्थे शुचौ पुमान् । समाघातः शब्दभेदे वधे युद्धे भये पुमान् ॥ संख्यावान् पण्डिते पुंसि संख्यायुक्तेऽन्यलिङ्गकः । सुधासूतिः पुमान् यज्ञे पद्मे हिमकरेऽपि च ॥ सूर्यभक्तश्चार्कपणे बन्धुके च भवेत्पुमान् । सेनापतिः कुमारे स्यात्सैन्याधिकारिणि पुमान् ॥ हिमारातिर्वीतिहोत्रे पुमान् किरणमलिनि । हैमवती श्वेतवचास्वर्णक्षीर्यभयासु च ॥ Śabdaratnāvalī 7.16.176
  • शब्दरत्नावली अग्निअग्निश्चिताख्यकोषध्यां वीतिहोत्रे भवेत्पुमान् । अन्नं भक्ते च भुक्ते स्यादिनः सूर्ये नृपे प्रिये । उन्नञ्च सुरते क्लिन्ने कृत्स्नं सर्वाम्बुकुक्षिषु ॥ Śabdaratnāvalī 7.20.2
  • शब्दरत्नावली जगन्नुजननी स्त्री दयामात्रोर्जननं जन्मवंशयोः । जगन्नुस्तु पुमान् जन्तौ वीतिहोत्रे च कीर्त्त्यते ॥ जयनं स्याद्घोटकादिसन्नाहे च जयेऽपि च । जघनं योषितां श्रोणिपुरोभागे कटावपि ॥ ज्ञानी स्याद्गणके पुंसि ज्ञानयुक्तेऽभिधेयवत् । जीवनं वर्त्तने प्राणधारणे सलिलेऽपि च ॥ जीवनी स्यात्तु जीवन्त्यां जीवनापि च मोदके । तपनो भास्करेऽपि स्यान्नरकेऽरुस्करेऽपि च ॥ तलुनो मारुते यूनि युवत्यां तलुनी स्त्रियाम् । तलिनं तरलस्तोकस्वच्छेषु वाच्यलिङ्गकः ॥ तमोघ्नो विष्णुसूर्येन्दुबुद्धमहेशवह्निषु । त्यागी दातरि शूरे च विवेकिनि भवुत्पुमान् ॥ तेवनं केलिविपिने क्रीडायाञ्च नपुंसकम् । तेमनं व्यञ्जने क्लीबं तथार्द्रीकरणेऽपि च ॥ तेजनी तृणपूले स्यात्तेजनो वंशमात्रके ॥ Śabdaratnāvalī 7.20.56
  • शब्दरत्नावली चित्रभानुचित्रभानुर्वीतिहोत्रभैरवे भास्करे पुमान् । चोलकी नागरङ्गे ना करीरे किष्कुपर्वणि ॥ जलाटनन्तु कङ्के स्याज्जलौकायां जलाटनी । तपस्विनी जटामांसीरोहिन्योस्तापसु त्रिषु ॥ Śabdaratnāvalī 7.20.109
  • शब्दरत्नावली विश्वप्सन्विश्वप्सा पुंसि मिहिरे वीतिहात्रे सुधाकरे । वृक्षादनी स्त्री वृन्दायां विदरीकन्दकेऽपि च ॥ Śabdaratnāvalī 7.20.124
  • शब्दरत्नावली वृषाकपिबीजपुष्पञ्च मदने क्लीबं मरुवकेऽपि च । वृषाकपिः पुंसि कृष्यो वीतिहोत्रे शिवेऽपि च ॥ हेमपुष्पं जवापुष्पेऽप्यशोके च नपुंसकम् । Śabdaratnāvalī 7.21.23
  • शब्दरत्नावली होमिहोमिः पुमान् वीतिहोत्रे घृते च सलिलेऽपि च । Śabdaratnāvalī 7.25.30
  • शब्दरत्नावली जन्युजया जयन्त्यां पार्वत्यां तत्सख्यां तिथिवृक्षयोः । पुमान् जयन्ते विजयेऽप्यग्निमन्थे युधिष्ठिरे ॥ जन्यं युद्धे परीवादे हहेऽपि च नपुंसकम् । जन्या स्त्री मातृसख्याञ्च जनके तु भवेत्पुमान् ॥ वरस्निग्धोत्पाद्यभृत्य नवीदाज्ञातिषु त्रिषु । जन्युः पुमान् वीतिहोत्रे शरीरिणि विधातरि ॥ तार्क्ष्ये शालेह्ये स्वर्णे गरुडे गरुडाग्रजे । पुमान् रसाञ्जने क्लीबं तार्क्ष्यी वनलतादिषु ॥ तिष्यो ना कलिनक्षत्रे तिष्योधात्र्यामपि स्त्रियाम् । द्रव्यं लेपे च पृथ्यादौ क्लीबं पित्तलवित्तयोः ॥ Śabdaratnāvalī 7.26.17
  • शब्दरत्नावली अशिरअशिरो राक्षसे सूर्ये वीतिहोत्रे भवेत्पुमान् । अत्तीरं शक्तपुंसोर्ना वरं छदकपाटयोः(?) ॥ आकरः श्रेष्ठसन्दोहस्थानोत्पत्तिषु पुंस्ययम् । ओधारोऽम्बुधारणेऽधिकरणे त्वालबालके ॥ Śabdaratnāvalī 7.27.56
  • शब्दरत्नावली बर्हिस्वर्चस्तेजोरूपविष्ठास्वपि क्लीबं बुधे पुमान् । बर्हिः पुमान् वीतिहोत्रे भवेद्दर्भेऽपि न स्त्रियाम् । वाहसोऽजगरे नीरनिर्याणे सुनिषण्णके ॥ Śabdaratnāvalī 7.32.32
  • शब्दरत्नावली उदर्चिस्अगौकाः शरभे पुंसि कण्ठीरवविहङ्गयोः । उदर्चिर्वीतिहोत्रे स्यादुत्प्रगे हरकामयोः ॥ Śabdaratnāvalī 7.32.42
  • शब्दरत्नावली सप्तार्चिस्भवेत्सर्वरसो वीणाभेदे धूनकसूरिणोः । सप्तार्चिः क्रूरनेत्रे स्याद्वीतिहोत्रे खलेऽपि च ॥ Śabdaratnāvalī 7.32.54
  • शब्दरत्नावली हिरण्यरेतस्दिव्यचक्षुः सुनेत्रेऽन्धसुगन्धभेदयोरपि । स्यान्नभश्चमसश्चन्द्रे चित्रापूपेन्द्रजालयोः ॥ कथ्यते हिङ्गुनिर्यासो निम्बे हिङ्गुरसेऽपि च । हिरण्यरेता मिहिरे वीतिहोत्रे हरेऽपि च ॥ Śabdaratnāvalī 7.32.57