कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

त्रिधामन्

tridhāmanपुं · masc.

In 6 kośas: 6 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.30 · p. 3
नारायणे तीर्थपादः पुण्यश्लोको वलिंदमः ।उरुक्रमोरुगायौ च तमोघ्नः श्रवणोऽपि च ॥ ६३ ॥उदारथिर्लतापर्णः समुद्रः पांसुजालिकः ।चतुर्व्यूहो नवव्यूहो नवशक्तिः प्रगण्डजित् ॥ ६४ ॥द्वादशमूलः शतको दशावतार एकदृक् ।हिरण्यकेशः सोमोऽहिस्त्रिधामा त्रिककुन्त्रिपात् ॥ ६५ ॥मानंजरः पराविद्धः पृश्निगर्भोऽपराजितः ।हिरण्यनाभः श्रीगर्भो वृषोत्साहः सहस्रजित् ॥ ६६ ॥उर्ध्वकर्मा यज्ञधरो धर्मनेमिरसंयुतः ।पुरुषो योगनिद्रालुः खण्डास्यः शलकाजितौ ॥ ६७ ॥कालकुण्ठो वरारोहः श्रीकरो वायुवाहनः ।वर्धमानश्चतुर्दंष्ट्रो नृसिंहवपुरव्ययः ॥ ६८ ॥कपिलो भद्रकपिलः सुषेणः समितिंजयः ।क्रतुधामा वासुभद्रो बहुरूपो महाक्रमः ॥ ६९ ॥विधाताधार एकाङ्गो वृषाक्षः सुवृषोऽक्षजः ।रन्तिदेवः सिन्धुवृषो जितमन्युर्वृकोदरः ॥ ७० ॥बहुशृङ्गो रत्नबाहुः पुष्पहासो महातपाः ।लोकनाभः सूक्ष्मनाभो धर्मनाभः पराक्रमः ॥ ७१ ॥पद्महासो महाहंसः पद्मगर्भः सुरोत्तमः ।शतवीरो महामायो ब्रह्मनाभः सरीसृपः ॥ ७२ ॥वृन्दाङ्कोऽधोमुखो धन्वी सुधन्वा विश्वभुक्स्थिरः ।शतानन्दश्चरुश्चापि यवनारिप्रमर्दनः ॥ ७३ ॥यज्ञनेमिर्लोहिताक्ष एकपाद्द्विपदः कपिः ।एकशृङ्गो यमकील आसन्दः शिवकीर्तनः ॥ ७४ ॥शद्रुर्वंशः श्रीवराहः सदायोगी सुयामुनः ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 सि (wrong syllable)nearly अनुष्टुप्: pāda 3, syllable 6 म (wrong syllable)
तीर्थपादपुंपुण्यश्लोकपुंवलिंदमपुंउरुक्रमपुंउरुगायपुंतमोघ्नपुंश्रवणपुंउदारथिपुंलतापर्णपुंसमुद्रपुंपांसुजालिकपुंचतुर्व्यूहपुंनवव्यूहपुंनवशक्तिपुंप्रगण्डजित्पुंद्वादशमूलपुंशतकपुंदशावतारपुंएकदृश्पुंहिरण्यकेशपुंसोमपुंअहिपुंत्रिधामन्पुंत्रिककुद्पुंत्रिपाद्पुंमानंजरपुंपराविद्धपुंपृश्निगर्भपुंअपराजितपुंहिरण्यनाभपुंश्रीगर्भपुंवृषोत्साहपुंसहस्रजित्पुंऊर्ध्वकर्मन्पुंयज्ञधरपुंधर्मनेमिपुंअसंयुतपुंपुरुषपुंयोगनिद्रालुपुंखण्डास्यपुंशलकपुंअजितपुंकालकुण्ठपुंवरारोहपुंश्रीकरपुंवायुवाहनपुंवर्धमानपुंचतुर्दंष्ट्रपुंनृसिंहवपुस्पुंअव्ययपुंकपिलपुंभद्रकपिलपुंसुषेणपुंसमितिंजयपुंक्रतुधामन्पुंवासुभद्रपुंबहुरूपपुंमहाक्रमपुंविधातृपुंआधारपुंएकाङ्गपुंवृषाक्षपुंसुवृषपुंअक्षजपुंरन्तिदेवपुंसिन्धुवृषपुंजितमन्युपुंवृकोदरपुंबहुशृङ्गपुंरत्नबाहुपुंपुष्पहासपुंमहातपस्पुंलोकनाभपुंसूक्ष्मनाभपुंधर्मनाभपुंपराक्रमपुंपद्महासपुंमहाहंसपुंपद्मगर्भपुंसुरोत्तमपुंशतवीरपुंमहामायपुंब्रह्मनाभपुंसरीसृपपुंवृन्दाङ्कपुंअधोमुखपुंधन्विन्पुंसुधन्वन्पुंविश्वभुज्पुंस्थिरपुंशतानन्दपुंचरुपुंयवनारिप्रमर्दनपुंयज्ञनेमिपुंलोहिताक्षपुंएकपाद्पुंद्विपदपुंकपिपुंएकशृङ्गपुंयमकीलपुंआसन्दपुंशिवकीर्तनपुंशद्रुपुंवंशपुंश्रीवराहपुंसदायोगिन्पुंसुयामुनपुं
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.85 · p. 12
दवो द वो वसुर्दक्ष उदर्चिर्भास्करोऽपि च ।त्रिधामा च वदान्यश्च विष्करो वेसुरिस्तथा ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.289 · p. 38
माधवो वासुदेवश्च मुञ्जकेशी कुमोदकः ।तमोघ्नश्च चतुर्दष्ट्रः त्रिधामाऽपि त्रिविक्रमः ॥ २८९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.21 · p. 3
पद्मनाभः स्वभूरादिपुरुषो यज्ञपूरुषः ।जनार्दनो वासुदेवस्त्रिधामा विष्टरश्रवाः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.96 · p. 13
अग्निर्हव्यवहः कृशानुरनलो वैश्वानरः पावकःशोचिष्केश उषर्बुधो हुतवहः स्वाहासहायः शुचिः ।सप्तार्चिर्दहनः समीरणसखो वह्निस्त्रिधामा शिखीशुक्रः शुष्मकृपीडयोनिहुतभुग्बर्हिर्बृहद्भानवः ॥ ९६ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.15 · p. 10
दहनो ज्वलनः शुष्मा रोहिताश्व उषर्बुधः ।शोचिष्केशस्त्रिधामाग्निरुदर्चिः पावकोऽनलः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.95 · p. 19
त्रिककुत् तु त्रिकूटाख्यपर्वतेऽपि च शार्ङ्गिणि ।त्रिधामा वासुदेवेऽग्नौ दलवस्तु दलान्तरे ॥ ९५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.874 · p. 123
त्रिधामा तु पुमान् विष्णावग्नौ चाथाभिधेयवत् ।बहुव्रीहौ वैश्रवणे पुनर्ना त्रिशिरा अयम् ॥ ८७४ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2097 · p. 254
त्रिधामा दहने विष्णौ त्रिशङ्कुरुडुतार्क्ष्ययोः ।एरण्डे यूनि तरुणस्तरुणी युवतिः सहा ॥ २०९७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.29 · p. 241
तपनो भास्करे ग्रीष्मे त्रिदिवो व्योम्नि दिव्यपि ।त्रिशंकू तार्क्ष्यमार्जारौ त्रिधामा केशवेऽनले ॥ २९ ॥
अनुष्टुप्