पृतना
pṛtanāस्त्री · fem.In 17 kośas: 25 synonym verses, 4 as a nānārtha head word, 2 as a meaning of another word.
वाहिनी पृतना सेना बलं सैन्यमनीकिनी ॥ ७४५ ॥कटकं ध्वजिनी तन्त्रं दण्डोऽनीकं पताकिनी ।वरूथिना चमूश्चक्रं स्कन्धवारोऽस्य तु स्थितिः ॥ ७४६ ॥शिबिरं रचना तु स्याद्व्यूहो दण्डादिको युधि ।
अनुष्टुप्
genderस्त्रीfem.
सेना सेनामुखं गुल्मो वाहिनी पृतना चमूः ॥ ७४८ ॥अनिकिनी च पत्तेः स्यादिभ्याद्यैस्त्रिगुणैः क्रमात् ।दशानिकिन्येऽक्षौहिणी सज्जनं तूपरक्षणम् ॥ ७४९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 कि (wrong syllable); pāda 3, syllable 6 क्षौ (wrong syllable)
genderस्त्रीfem.
ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः ।वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ॥ ७८ ॥
अनुष्टुप्
genderस्त्रीfem.
एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका ।पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ ८० ॥सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः ।अनीकिनी दशानीकिन्यक्षौहिण्यथ सम्पदि ॥ ८१ ॥सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ ।
अनुष्टुप्
genderस्त्रीfem.
पृतना सेना ध्वजिनी पताकिनी वाहिनी बलं सैन्यम् ।चक्रं चमूर्वरूथिन्यनीकिनी स्यादनीकं च ॥ ४५७ ॥
आर्या
genderस्त्रीfem.
भूपर्यायस्पृशो मर्त्त्या मानवा मनुजा विशः ।मनुष्याः पृतना मर्ताः क्षितयो मानुषा अपि ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
अथ सेना तु पृतना वाहिनी वाहना चमूः ।वरूथिनी च ध्वजिनी बलं सैन्यं च गुल्मिनी ॥ २४८ ॥
अनुष्टुप्
genderस्त्रीfem.
क्लीबे सेनामुखं गुल्मोऽस्त्रियामपि गणः पुमान् ।वाहिनी पृतना चापि चमूः पुनरनीकिनी ॥ २५१ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रघातोभ्यागमश्चापि नन्दनुः संप्रहारकः ।समर्यो भर आक्रन्दः पृतनाज्यौ स्त्रियां पुनः ॥ ३५० ॥
अनुष्टुप्
genderस्त्रीfem.
ध्वजिनी वाहिनी सेनानीकिनी च पताकिनी ।वरूथिनी च पृतना चमु-चम्वौ स्त्रियौ बलम् ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
सेनामुखं गुल्म-गणौ वाहिनी पृतना चमुः ।अनीकिनी दशानीकिन्यक्षौहिण्युच्यते बुधैः ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
एते शब्दाः नपुंसके भवन्ति । यथा इदं शवं मृतशरीरम् । पलकं नेत्ररोमविशेषः । तल्पं शयनीयम् । सद्म निवासः । बलिशं मत्स्यबन्धनम् । आमिशं गृहद्वारम् । निमित्तं कारणम् । पित्तं धातुविकारः । चित्तं मनः[नमः] । किल्बिषं पापम् । वृजिनं कुटिलम् । पीठमासनम् । पापं पातकम् ।बल्वजलाजासूनां पुंयोगः स्याद्बहुत्वं च ।स्थलशाद्वलशिबिराणां नपुंसकत्वं स्त्रियां पृतना ॥ ६० ॥
metre not recognised
genderस्त्रीfem.
सैन्यं चक्रं बलं सेना पृतना ध्वजिनी चमूः ।अनीकिनीपताकिन्यौ वाहिनी च वरूथिनी ॥ १६२ ॥
अनुष्टुप्
genderस्त्रीfem.
अक्षौहिणी बलानीकं वाहिनी साधनं चमूः ।ध्वजिनी पृतना सेना सैन्यं दण्डो वरूथिनी ॥ ८६ ॥
अनुष्टुप्
genderस्त्रीfem.
ध्वजिनी वाहिनी तन्त्रं चमूर्दण्डो वरूथिनी ।अनीकं चक्रसैन्ये च कटकं पृतना पुनः ॥ ३६५ ॥
अनुष्टुप्
genderस्त्रीfem.
चत्वारिंशत्त्रयो नागाः द्विशतं च रथास्तथा ।पृतना सा सतशतिर्हयानां विंशतिर्नव ॥ ३५१ ॥
अनुष्टुप्
genderस्त्रीfem.
चमूरनीकिनी सेना पृतना वाहिनी बलम् ॥ २१८ ॥
genderस्त्रीfem.
वाहिनी ध्वजिनी सेना पृतना च वरूथिनी ।अनीकिन्यक्षौहिणी च स्कन्धावारः पताकिनी ।हस्त्यश्वरथपद्भिश्च चतुरङ्गं बलं स्मृतम् ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
वरूथिनी चमूश्चक्रं पृतना च पताकिनी ।शिबिरो ध्वजिनी दण्डः स्कन्धावारश्च वाहिनी ॥ १२१७ ॥
अनुष्टुप्
genderस्त्रीfem.
सेना सेनामुखं गुल्मो वाहिनी पृतना चमूः ।अनीकिनी च पत्तेः स्याद् कराद्यैस्त्रिगुणैः क्रमात् ॥ १२२१ ॥
अनुष्टुप्
genderस्त्रीfem.
रणे साधुः सांयुगीनः काण्डष्पृष्टादयस्त्रिषु ।पृतनानीकिनी सेनाध्वजिनी वाहिनी चमूः ॥
अनुष्टुप्
genderस्त्रीfem.
सेनामुखे त्रिगुणिते गुल्मस्तत् त्रिगुणे गणः ।गणस्त्रिभिर्वाहिनी स्यात् पृतना वाहिनी त्रयम् ॥
अनुष्टुप्
genderस्त्रीfem.
ऊर्ध्वाधोलम्बिनौ स्यातामुच्चचूडावचूडकौ ।ध्वजिनी पृतना सेनानीकिनी वाहिनी चमूः ॥ १३५५ ॥
अनुष्टुप्
genderस्त्रीfem.
सैन्यं चक्रं बलं सेना चमूर्वाहिन्यनीकिनी ।पताकिनी च पृतना ध्वजिनी च वरूथिनी ॥ ५५ ॥
अनुष्टुप्
genderस्त्रीfem.
सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः ।अनीकिनीत्यनीकिन्यः पुनरक्षौहिणी दश ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
ईर्ष्यायां कुहना च दम्भचरणेऽथो पूतना राक्षसी-भेदे किं च हरीतकीभिदि विदि त्वाहुः स्त्रियां चेतनाम् ।वाच्ये[20a]प्राणिनि सा मताथ पृतना स्यात्सैन्यमात्रे चमू-भेदे चाथ वराङ्गनासु ललना जिह्वाशिराभेदयोः ।स्त्रियां प्रसन्ना मदिरासु वाच्येप्रसादयुक्तेऽथ फणिज्जमल्ल्योः ।कम्पिल्लके च प्रमदासलिङ्गंश्लेष्मघ्नमुक्तं कफहृत्सुभेद्ये ॥ १ ॥
शार्दूलविक्रीडितम्two metres in one verse
तेषां तुर्यशते ये स्यू रश्मयः पृतना पुनः ।सेनाभेदे च वाहिन्यास्त्रिगुणात्मनि सा तथा ॥ ६० ॥
अनुष्टुप्
सेनायामपि युद्धे च पृथिवी तु महीखयोः ।पृथ्वीका पुनरेलायां स्यात् तथा कृष्णजीरके ॥ ६१ ॥
अनुष्टुप्
doubtful
क्लीबलिङ्गं पुमानयं भवेदाम्रातके मतः ।पूतना दानवीपथ्यारोगभेदेषु च स्त्रियाम् ॥पृतना तु स्त्रियां सेनामात्रे सेनाविशेषके ।प्रेमाऽस्त्री नर्मणि स्नेहे प्रेमा ना रतिशक्रयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 न (wrong syllable)
पृतना as a meaning in nānārtha verses
- वैजयन्ती दृश्यादृश्या स्यात् पृतना दृश्यं दर्शनीये विभूषणे । धर्मोऽस्त्री सुकृते साम्ये स्वभावे ना तु सोमपे ॥ ४२ ॥ Vaijayantī 6.5.42
- वैजयन्ती पार्ष्णिपुमांस्तु पृतनाकट्यां पापं म्यात् क्रूरपाप्मनोः । पुण्यं धर्मे जले हेम्नि पुष्पे क्ली सुंदरेऽर्थवत् ॥ ५० ॥ Vaijayantī 6.5.50