कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

घास

ghāsaपुं · masc.

In 12 kośas: 12 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.132 · p. 46
काशस्त्विषीका घासस्तु यवसं तृणमर्जुनम् ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.167
शष्पं बालतृणं घासो यवसं तृणमर्जुनम् ॥ १६७ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.191 · p. 24
घासस्तु यवसः प्रोक्तो बर्हिर्दर्भः कुथः कुशः ।उलपो वल्वजः प्रोक्त इषीका काश उच्यते ।हरिताली भवेद्दूर्वा शरो मुञ्ज इति स्मृतः ॥ १९१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.21 · p. 186
शष्पं बालतृणं घासस्तृणता त्रिणता [62a]समे ।तृण्या स्त्री यावससंघे नड्मा तु नडसंहतिः ॥ २१ ॥
metre not recognised
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र तृणकाण्डः Nighaṇṭuśeṣa 5.378 · p. 203
तृणे स्यादर्जुनं घासे यवसं चारिरित्यपि ।दूर्वायां तु शतपर्वा भार्गवी विजया जया ॥ ३७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.114 · p. 66
घासोऽथ -----------विषः क्ष्वेडो हलाहलः ।कालकूटं वत्सनागो ब्रह्मपुत्रोऽपि दारदः ॥ ११४ ॥
metre not recognised
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.212 · p. 15
घासः शष्पं बालतृणं यवसं गिरिवालकम् ।नीलत्वक् नीलरुक्कोषः पिस्ताकः पिच्छिलद्रुमः ॥ २१२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.278 · p. 354
यवसं चापि घासः स्यात् तृणमऽर्जूनमेव च ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.313 · p. 80
अथ घासो यवासन्तु यवसं जवसं तथा ।गवादिभक्ष्ययोग्येषु तृणेष्वेतत् चतुष्टयम् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.666 · p. 85
तस्मिन् काण्डेक्षुकाशेक्षू अपि चामरपुष्पकः ।शादस्तु घासो यवसं तृणं हरितमर्जुनम् ॥ ६६६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 126 · p. 538
अथास्त्री यवसो घासः ॥ १२६ ॥
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.74 · p. 71
पुच्छोऽस्त्री लूम लांगूलं बालहस्तश्च वालधिः ।खुरः शफः शको विष्ठा घासस्तु यवसः शरिः ।रोमन्थनन्तु रोमन्थो रोमोर्णोर्णास्तुकोऽपि च ॥ ७४.५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1916 · p. 233
अदने हरिते घासो घृणिर्ज्वालांशुवीचिषु ।चन्द्रः शशिनि कर्पूरे तरौ हेम्नि नपुंसके ॥ १९१६ ॥
अनुष्टुप्