कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शष्प

śaṣpaक्ली · neut.

In 17 kośas: 17 synonym verses, 4 as a nānārtha head word, 9 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.126 · p. 46
तृणं नडादि नीवारादि च शष्पं तु तन्नवम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.167
शष्पं बालतृणं घासो यवसं तृणमर्जुनम् ॥ १६७ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.190 · p. 24
उलपस्तम्बगुल्माश्च वीरुधो विटपाः स्मृताः ।शष्पं बालतृणं प्रोक्तं सर्वं च तृणमर्जुनम् ॥ १९० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.363 · p. 289
अस्त्री शष्पं बालतृणां यवसं तृणमर्जुनम् ।तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः ॥ ३६३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.169 · p. 480
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.21 · p. 186
शष्पं बालतृणं घासस्तृणता त्रिणता [62a]समे ।तृण्या स्त्री यावससंघे नड्मा तु नडसंहतिः ॥ २१ ॥
metre not recognised
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.54 · p. 113
genderपुंक्लीm. n.
एते शब्दाः सदा पुंसि भवन्ति । यथा पाषाणः प्रस्तरः । उपलः शिला पाषाण एव । शृङ्गारो विदग्धता । प्रस्थः परिमाणम् । भृङ्गारः सुवर्णमयः कलशः । मस्तकः शिरः । स्तबकः पुष्पोत्करः । शब्दो ध्वनिः । रसो माधुर्यादिः । स्पर्शो मृदुकर्कशादिः । गन्धो नासिकाग्राह्यः कुसुमादेः । रूपं मुक्त्वा रूपं विहाय ।रूपं नपुंसके भवति । इदं रूपं चक्षुर्ग्राह्यम् ।शेखरयूपपुरोडाशकूपसूपलवशष्पाः ।धर्ममयवासोदशादाराः पुंसि बहुत्वं चैषाम् ॥ ५५ ॥
metre not recognised
genderपुंmasc.
एते शब्दाः पुंसि भवन्ति । अयं शेखरः पुष्पसङ्घातः उत्तुङ्गो वा । यूपो यज्ञभाण्डम् । पुरोडाशो यज्ञपिण्डकिः । कूपोऽवटः । सूपो व्यञ्जनम् । लवो लेशः । शष्पो बालतृणम् । धर्म उपवासादिः । मयो वेश्म । वासांसि वस्त्राणि तेषां दशाः । दाराः स्त्रियश्च पुंसि भवन्ति बहुत्वं चैषां सदा भवति । इमे वासोदशाः वस्त्रान्तसूत्रम् । इमे दाराः स्त्रियः । वास इति किम् । दशा अवस्था ।मांसविवराभिधानं नपुंसके विद्धि तीर्थतुण्डे च ।यवमाषाद्या व्रीहयः पुंसि प्रियङ्गवश्च स्त्रियामेव ॥ ५६ ॥
metre not recognised
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र तृणकाण्डः Nighaṇṭuśeṣa 5.377 · p. 202
मुञ्जस्तु यज्ञियो मेध्यो दृढत्वग्ब्रह्ममेखलः ।अथ बालतृणे शष्पं शुकं शालिकमङ्गुलम् ॥ ३७७ ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.69 · p. 16
दूर्वा सहस्रवीर्या तु शतवीर्या तु सा सिता ।शष्पं बालतृणं शादः सर्वं तु तृणमर्जुनम् ॥ ६९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.147 · p. 229
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.212 · p. 15
घासः शष्पं बालतृणं यवसं गिरिवालकम् ।नीलत्वक् नीलरुक्कोषः पिस्ताकः पिच्छिलद्रुमः ॥ २१२ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2150 · p. 353
तृणं नडादि नीवारादिकं शष्पं तु तन्नवम् ।कत्तृणं रौहिषं पौरं देवजग्धं सौगन्धिकम् ॥ २१५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 सौ (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.312 · p. 80
अथ मालातृणकर्णभूस्तृणं गन्धखेडके ।शष्पं बालतृणञ्चेति नवीनतृणके द्वयम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.667 · p. 85
तृण्या तु तृणसंघाते शाद्वलं तु तृणाङ्कुरे ।पुञ्जीलस्तु तृणस्तम्बः शष्पं बालतृणं समे ॥ ६६७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.235 · p. 64
पुञ्जीलस्तु तृणस्तंब इषीका तूलिका समे ।शष्पं बालतृणं शादः सर्वं तु तृणमर्जुनम् ॥ २३५ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास पार्धश्लोकः Dharaṇikośa 20.2.5 · p. 133
शष्पं बालतृणं प्रोक्तं शष्पं स्यात्प्रतिभाक्षयः ।कलापः संहतौ बर्हे काञ्चितूणीरयोरपि ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पान्ताः Koṣakalpataru 6.22.7 · p. 272
बाष्पोऽस्त्रियामूष्मणि नेत्रतोयेचुपो लये मन्दगतौ पराभः ।स्त्रियां न बाले यवसेऽस्ति शष्पंपुंसि त्विदं स्यात्प्रतिभावहानौ ॥ ७ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1315 · p. 155
शवस्तु कुणपे न स्त्री जले तु क्ली गतौ तु ना ।शष्पं बालतृणे क्लीबं रूपे च भगवांस्त्वमुम् ॥ १३१५ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पान्ताः Śabdaratnāvalī 7.21.12 · p. 248
लेपः स्याद्भोजने लिप्तौ वयाच्छिद्रे च मेदसि ।वाष्पो ना स्रेऽप्युष्मयुते शष्पं ह्रासे तृणेऽपि च ॥
अनुष्टुप्

शष्प as a meaning in nānārtha verses