विष्ठा
viṣṭhāस्त्री · fem.In 15 kośas: 17 synonym verses, 14 as a meaning of another word.
पुष्पिका तु लिङ्गमलं विड्विष्ठावस्करः शकृत् ।गूथं पुरीषं शमलोच्चारौ वर्चस्कवर्चसी ॥ ६३४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् ॥ ६७ ॥पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ ।
अनुष्टुप्
genderस्त्रीfem.
उच्यते वर्च उच्चारो वर्चस्कोऽवस्करः शकृत् ।गूथं कीटं च विट् विष्ठा पुरीषं शमलं मलम् ॥ ६३७ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रस्रावः प्रस्रवोऽपि स्याद्विड्विष्ठे च स्त्रियामुभे ।शकृत् क्लीबे मलोप्यस्त्री पुंस्युच्चारोऽप्यवस्करः ॥ २४७ ॥
अनुष्टुप्
genderस्त्रीfem.
उल्बमस्त्री च कललं शुक्रार्तवघनेऽस्त्रियाम् ।मूत्रं वस्तिमलं किट्टोत्थ (?) मनुष्यजलं स्रवः ॥प्रस्रावश्च भवेन्मेहोऽथोच्चारावस्करौ समौ ।वर्चः पुरीषं लेण्डं च शकृच्छमलमन्तिमे ॥विष्ठा न स्त्री गूथ-मल-वर्चस्का विड्विषौ न ना ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
काष्ठा विष्ठा पाठा मञ्जिष्ठा चुण्ठिवद्गोष्ठी ।शुण्डी शुण्डा जडापि स्याच्चण्डा वेडा तथा पण्डा ॥ ४७ ॥
metre not recognised
genderस्त्रीfem.
विष्ठा गूथपुरीषे च वर्चस्कं वर्चसा सह ।विट् शकृच्छमलोच्चारौ [75] परिकर्म त्वलंकृतिः ॥ २८९ ॥
अनुष्टुप्
genderस्त्रीfem.
पोटा घोण्टा जडा बेडा काष्ठा विष्ठा वितण्डया ।मञ्जिष्ठा तु छटा घण्टा शुण्डा पाठावलीढया ॥ ४८ ॥
अनुष्टुप्
genderस्त्रीfem.
वर्चस्कं गूथमुच्चारो विष्ठा विट् चापि कथ्यते ।कपाले कर्परोऽथास्थ्नि कुल्यं शल्यं च कीकसम् ॥ १३७ ॥
अनुष्टुप्
genderस्त्रीfem.
मूत्रं लिङ्गोदकोद्गारौ शकृद्विष्ठा पुरीषका ।कलेवरं वपुर्वर्ष्म प्रतीको देहविग्रहौ ॥ ९७ ॥
अनुष्टुप्
genderस्त्रीfem.
उच्चारोऽवस्करो वर्चो वर्चस्कं शमलं शकृत् ।विट् विष्ठाऽशुचि गूथं वै पुरीषं चेति मन्यते ॥ १०२५ ॥
अनुष्टुप्
genderस्त्रीfem.
अथ मूत्रन्तु प्रसावः स्त्रियौ विष्ठा विषौ शकृत् ।अमेध्यं शामलं दूर्यं गूथं वर्चस्कमस्त्रियाम् ॥
अनुष्टुप्
genderस्त्रीfem.
सृणीका सृणिका गूथो विड्-विषौ शान्त-षान्तगौ ।वर्चस्क-वर्चसी तुल्ये विष्ठा वर्गद्वितीयभाक् ॥ १९६ ॥
अनुष्टुप्
genderस्त्रीfem.
पुरीषं शमलं वर्चः शकृद्विष्ठाविशौ स्त्रियौ ।गूथवर्चस्कमस्त्री स्यादुच्चारावस्करौ समौ ॥ १११८ ॥
अनुष्टुप्
genderस्त्रीfem.
विपघ्न्यां भञ्जिका भाञ्जी विष्ठा ब्राह्मणयष्टिका ।ब्रह्मदण्डी च पद्मा च सारपर्ण्यां स्थिरा ध्रुवा ॥ १०० ॥
अनुष्टुप्
genderस्त्रीfem.
पुच्छोऽस्त्री लूम लांगूलं बालहस्तश्च वालधिः ।खुरः शफः शको विष्ठा घासस्तु यवसः शरिः ।रोमन्थनन्तु रोमन्थो रोमोर्णोर्णास्तुकोऽपि च ॥ ७४.५ ॥
अनुष्टुप्
genderस्त्रीfem.
उच्चारो विण्न ना गूथो वर्चस्को मलमस्त्रियाम् ।विष्ठा चाप्यथ लण्डोऽस्त्री विष्ठा राजियुता दृढा ॥ ११९ ॥
अनुष्टुप्
genderस्त्रीfem.
विष्ठा as a meaning in nānārtha verses
- धरणिकोश विट्विट् च व्याप्तिस्तथा विष्ठा त्विट् च शोभा [102] तथा प्रभा । ऋषिर्वेदे मुनौ रश्मौ शुषिः शोषः शुषिर्बिलम् ॥ Dharaṇikośa 30.1.1
- नानार्थार्णवसंक्षेप वर्चस्पदार्थमात्रेऽप्यस्यार्थं पण्डितः शाकटायनः । सदित्याह स्म वर्चस्तु विष्ठायामन्नतेजसोः ॥ ५७ ॥ Nānārthārṇavasaṃkṣepa 2.3.57
- नानार्थार्णवसंक्षेप शकृत्शक्ष्यं जले सुखे चाथ शकृद्गोमयविष्ठयोः । जले च शर्म तु सुखे गृहे चाथ श्वयो बले ॥ ६२ ॥ Nānārthārṇavasaṃkṣepa 2.3.62
- नानार्थार्णवसंक्षेप कल्कदम्भे पापाशये पापे स्याद्विष्ठौषधपिष्टयोः । किट्टेऽप्यथ पलोन्मानचतुर्भागे नृशण्डयोः ॥ १४१ ॥ Nānārthārṇavasaṃkṣepa 2.5.141
- नानार्थार्णवसंक्षेप दरद्न्यग्रोधीसंज्ञकस्तम्बे दरत् तु स्त्री भये हृदि । नद्यां प्रपाते चेत्येके विष्ठायामिति कश्चन ॥ ५८२ ॥ Nānārthārṇavasaṃkṣepa 2.5.582
- नानार्थार्णवसंक्षेप भसद्ऋषिभेदे भवन्ती तु स्त्रीलिङ्गा लट्श्रुतौ स्मृता । भसत् तु स्त्री दकारान्ता विष्ठायां गुह्यकोष्ठयोः ॥ ८९१ ॥ Nānārthārṇavasaṃkṣepa 2.5.891
- नानार्थार्णवसंक्षेप मलप्रक्षेपणे च द्वे तूष्ट्रे तथाश्वेऽथो मलोऽस्त्रियाम् । स्यात् पापकिट्टविष्ठासु वातादिषु च नप् पुनः ॥ ९३८ ॥ Nānārthārṇavasaṃkṣepa 2.5.938
- नानार्थार्णवसंक्षेप कश्मलधूमयोनिन्यथ ज्ञेयं कश्मलं मोहविष्ठयोः । अथ स्यात् कत्तृणं कुट्यां तृणभेदेऽथ काननम् ॥ २२ ॥ Nānārthārṇavasaṃkṣepa 3.3.22
- नानार्थार्णवसंक्षेप पुरीषपीयूषं त्वमृते दुग्धे नवसूतगवीभवे । पुरीषं मृत्तिकाचूर्णे विष्ठायां सलिलेऽपि च ॥ ५७ ॥ Nānārthārṇavasaṃkṣepa 3.3.57
- नानार्थार्णवसंक्षेप शमलतिर्यक्क्षिप्ते पुष्पमाल्ये तथा प्रावरणेऽपि च । शमलं तु भवेत् पापे विष्ठायां च प्रकीर्तितम् ॥ ७७ ॥ Nānārthārṇavasaṃkṣepa 3.3.77
- नानार्थार्णवसंक्षेप किम्मीरत्रि तु तद्वर्णयुक्ते स्याद् विष्ठायां तु नपुंसकम् । किल्बिषं क्ली पापरुजोर्वेश्यायां किल्बिषी स्त्रियाम् ॥ ४७९ ॥ Nānārthārṇavasaṃkṣepa 4.479
- नानार्थार्णवसंक्षेप अवस्करअवस्करस्तु विष्ठायां गुह्ये चाथो धनञ्जयः । रहस्य इत्यभाषिष्ट वयं तु ब्रूमहे परम् ॥ २० ॥ Nānārthārṇavasaṃkṣepa 6.20
- शब्दरत्नावली विष्वर्षोऽस्त्री भारताद्यब्दजम्बुद्वीपेषु वर्षणे । केचित्क्लीवमिति प्राहुर्बहुत्वे प्रावृषि स्त्रियाम् ॥ विट् व्याप्तिविष्ठयोः स्त्री स्याद्विषञ्च गरलाम्बुनोः । भवेदतिविषायां स्त्री विषो दन्तः क्वचिद्भवेत् ॥ Śabdaratnāvalī 7.31.14
- शब्दरत्नावली वर्चस्वर्चस्तेजोरूपविष्ठास्वपि क्लीबं बुधे पुमान् । बर्हिः पुमान् वीतिहोत्रे भवेद्दर्भेऽपि न स्त्रियाम् । वाहसोऽजगरे नीरनिर्याणे सुनिषण्णके ॥ Śabdaratnāvalī 7.32.32