छेक
chekaवि · adj.In 17 kośas: 21 synonym verses, 8 as a nānārtha head word, 4 as a meaning of another word.
छेको विदग्धे प्रौढस्तु प्रगल्भः प्रतिभामुखः ॥ ३४३ ॥कुशाग्रीयमतिः सूक्ष्मदर्शी तत्कालधीः पुनः ।प्रत्युत्पन्नमतिर्दूराद्यः पश्येद्दीर्घदर्श्यसौ ॥ ३४४ ॥
अनुष्टुप्
genderपुंmasc.
छेका गृह्याश्च ते गेहासक्ता ये मृगपक्षिणः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 थु (wrong syllable)
genderविadj.
कापोतशौकमायूरतैत्तिरादीनि तद्गणे ।गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते ॥ ४३ ॥
अनुष्टुप्
genderविadj.
सरलो दक्षिणो ज्ञेयो विदग्धश्छेक उच्यते ।उत्पश्यमुन्मुखं विद्यान्न्युब्जं विद्यादधोमुखम् ॥ ३८५ ॥
अनुष्टुप्
genderविadj.
छेको विदग्धो विदुरो निष्णातः कृतधीरपि ।निर्द्दिष्टो निपुणो बोद्धा सुमतिः कुशलोऽपि च ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
छेकश्छइल्लश्छेकालो विदग्धश्छेकलोऽपि च ।तद्वत्स्यात्कृतकर्मापि छेको दक्षो लघुक्रियः ॥ ५ ॥
अनुष्टुप्
genderविadj.
पशूनां समजोन्येषां समाजः स्यात्सधर्मिणाम् ।ये विश्वस्ताः पक्षिमृगास्ते छेका गृह्यकास्त्रिषु ॥ २०४ ॥
अनुष्टुप्
genderविadj.
गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च तौ ।मृगा महामृगा मत्स्याः प्रतुदा विष्किरास्तथा ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
प्रवीणो निपुणोऽभिज्ञो विज्ञो वैज्ञानिकः पटुः ।छेको विदग्धो निष्णातः कुशलश्चतुरः कृती ॥ ६ ॥
अनुष्टुप्
genderविadj.
कुर्कटः कुम्भकारः स्यात्कुकुभः कुहकध्वनिः ।दीपकच्छेकमुख्यास्तु गृहासक्ता मृगाण्डजाः ॥ २४० ॥
अनुष्टुप्
genderविadj.
संख्यावान्कृतकर्मापि प्रवीणोऽपि विशारदः ।प्रगल्भः प्रतिभायुक्तो विदग्धः छेक इत्यपि ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते ।वने तु कदलाः स्थूलाः कलपाः परिवालकाः ॥ ७५ ॥
अनुष्टुप्
genderविadj.
genderपुंmasc.
निष्णातो निपुणो दक्षो लब्धलक्षः सुशिक्षितः ।छेको नागरिकः सुज्ञो वाग्मी व्युत्पन्न एव च ॥ ११६ ॥
अनुष्टुप्
genderपुंmasc.
छेकालश्चापि छेको वै प्रौढस्तु प्रतिभान्वितः ।प्रगल्भः सूक्ष्मदर्शी तु कुशाग्रीयमतिस्तथा ॥ ५०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
genderविadj.
छेका गृह्याश्च ते प्रोक्ताः ये भवन्ति गृहस्थिताः ।पञ्चेन्द्रियाः पक्षिभेदाः सर्वे इमे तु खेचराः ॥ २४३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 इ (wrong syllable)
genderविadj.
शुकादीनां गुणेष्वेवमूहनीयं प्रयोगतः ।च्छेका गृह्या गृह्यकास्तु गृहपक्षिमृगेष्वपि ॥
अनुष्टुप्
genderविadj.
कृती कृतार्थश्च विज्ञोऽभिज्ञो वैज्ञानिकोऽपि च ।विदग्धे छेक-च्छेकालौ छेकिलश्च कलाविदि ॥ ७ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 क (wrong syllable)
genderपुंmasc.
घोण्टाथ मशकास्तेनाः परोष्णी तैलपायिका ।गृहेष्ववस्थिताः पक्षिमृगाश्छेकाश्च गृह्यकाः ॥ ८२२ ॥
अनुष्टुप्
genderपुंmasc.
गृह्याश्छेकाश्च गेहेषु संसक्ता मृगपक्षिणः ।हंसो मरालो नीलाक्षश्चक्रपक्षः सितच्छदः ॥ ५ ॥
अनुष्टुप्
genderविadj.
अग्राम्ये सरलोदारविदग्धच्छेकदक्षिणाः ।गर्विते स्तब्ध उद्ग्रीवो बाहो धीरस्स इत्यापि ॥ २० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्या (wrong syllable)
genderविadj.
छेको विदग्धश्छेकाः स्युर्गृहासक्तमृगाण्डजाः ।अर्कः स्यात्स्फटिके सूर्ये अर्कपर्णे च वासवे ॥
अनुष्टुप्
गृहासक्तेषु वैदग्ध्ययुक्ते तु त्रिषु स स्मृतः ।जयस्तु पीतमुद्गे ना नान्दीवृक्षे पुरन्दरे ॥ ४४७ ॥
अनुष्टुप्
doubtful
किष्कुर्हस्ते वितस्तौ च मानभेदेऽपि च द्वयोः ।छेकः स्यान्नागरे वेश्मसंस्थयोर्मृगपक्षिणोः ॥
अनुष्टुप्
छेक as a meaning in nānārtha verses
- कोषकल्पतरु गृह्यछेकेषु शाखानगरे पुनः स्त्री योग्यः प्रवीणे त्रिषु योगकार्हे । शक्तेऽथ ऋद्ध्यौषधिवाचकः स्त्री व्यासार्कदाराभ्यसनेषु तद्वत् ॥ १८ ॥ Koṣakalpataru 6.26.18
- परमानन्दीयनाममाला धन्विन्धन्वी धनुर्धरे छेके ध्रुवः कीलकशर्वयोः । धवः प्रिये तरौ भीरौ धीदा कन्यामनीषयोः ॥ २५६ ॥ Paramānandīyanāmamālā 5.17.256
- शब्दरत्नावली क्षेत्रज्ञकृतज्ञः कुक्कुरे ना तु मर्यादिन्यपि वाच्यवत् । क्षेत्रज्ञ आत्मनि छेके विदग्धे कृषकेऽपि च ॥ Śabdaratnāvalī 7.10.4
- त्रिकाण्डशेष गुह्यकगान्धिको लेखकेऽपि स्याद्गुह्यकश्छेकनिघ्नयोः । वेश्यायूथ्योश्च गणिका चषकं सरकेऽपि च ॥ १९ ॥ Trikāṇḍaśeṣa 3.3.19