कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दैर्घ्य

dairghyaक्ली · neut.

In 12 kośas: 8 synonym verses, 12 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1431 · p. 54
दैर्घ्यमायाम आनाह आरोहस्तु समुच्छ्रयः ।उत्सेध उदयोच्छ्रायौ परिणाहो विशालता ॥ १४३१ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.114
दैर्घ्यमायाम आरोहः परिणाहो विशालता ॥ ११४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.30 · p. 136
दैर्घ्यमायाम आनाह आरोहस्तु समुच्छ्रयः ।उत्सेधोऽस्त्री समुच्छ्राय उदयस्तूच्छ्रयः * * ।अल्पारोहपरीणाहा वृक्षाद्याः स्युर्निघा इति ।दारु न स्त्री काष्ठमन्त्ये दलिरु(कं?) चाथ दीप्तिकृत् ॥ ३० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.82 · p. 20
द्राघीयः कथितं चापि द्राघिष्ठं च समार्थकम् ।द्राघिमा दीर्घता दैर्घ्यं क्रमाल्लिङ्गत्रये मताः ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.320 · p. 91
स्फारं विशङ्कटं चोरु विस्तीर्णविपुले महत् ।बृहत्ततं तथानाहो दैर्घ्यमायामसंज्ञकम् ॥ ३२० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.146 · p. 419
दैर्ध्यं प्रसिद्धमाऽऽयाम आनाहश्चापि मन्यते ।
अनुष्टुप्
genderक्लीneut.doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.363 · p. 106
दैर्घ्यमायाम आरोहः दीर्घतायामिदं त्रयम् ।ओसार इति विख्याते परिणाहो विशालता ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.5 · p. 192
दैर्घ्यमायाम आनाहः परिणाहो विशालता ।वैपरीत्यं विपर्यासो व्यत्ययश्च विपर्ययः ॥ ५ ॥
अनुष्टुप्
genderक्लीneut.

दैर्घ्य as a meaning in nānārtha verses