कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रचलाक

pracalākaपुं · masc.

In 12 kośas: 10 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1320 · p. 50
पेशीकोशोऽण्डे कुलायो नीडे केकी तु सर्पभुक् ।मयूरबर्हिणौ नीलकण्ठो मेघसुहृच्छिखी ॥ १३१९ ॥शुक्लापाङ्गोऽस्य वाक्केका पिच्छं बर्हं शिखण्डकः ।प्रचलाकः कलापश्च मेचकश्चन्द्रकः समौ ॥ १३२० ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.242 · p. 30
वाणी केका शिखा चूडा चन्द्रको मेचकः स्मृतः ।प्रचलाकः शिखण्डश्च कलापो वर्ह उच्यते ॥ २४२ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्दशोपदेशः Bālaprabodhikā 14.304 · p. 93
शब्दस्य केका बर्हस्तु प्रचलापकलापकौ ।अलिर्द्विरेफो लम्बोभसवः पुष्पलोलुपः ॥ ३०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रे (syllables merged)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.107 · p. 329
प्रचलाकः शिखा चूडा मेचकः पुंसि तद्ध्वनौ ।केकाथापस्वरः क्रौञ्चः क्रुङ् स्यात्पङ्क्तिचरः पुनः ॥ १०७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.13 · p. 199
कलापः प्रचलाकश्च पिच्छं बर्हस्तु न स्त्रियाम् ।शिखा चूडा पक्षिभेदाः कोकवञ्जुलकादयः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.334 · p. 55
विषयेभ्यः समाहृत्यामिन्द्रियाणामथेह च ।पूर्ववत् स्यात् समासादि प्रचलाकः पुनः पुमान् ॥ ३३४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.222 · p. 79
नीलकण्ठः शिखी बर्ही शुक्लापाङ्गोऽस्य वाक्पुनः ।केका बर्हं तु पिच्छे स्यात्प्रचलाककलापकौ ॥ २२२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2390 · p. 385
कलापः प्रचलाकश्च केकिपिच्छस्य नाम वै ।मयूरपिच्छचन्द्रस्य नाम्नी चन्द्रकमेचकौ ॥ २३९० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.789 · p. 100
पिच्छबर्हे कलापश्च प्रचलाकः शिखण्डकः ।शिखाचूडे समे स्यातां समौ भासशकुन्तकौ ॥ ७८९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.39 · p. 29
शब्दोऽस्य केका बर्हस्तु प्रचलाककलापकौ ।शिखण्डः पिञ्छमप्यस्य मेचको बर्हचन्द्रकः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.60 · p. 14
पिप्पलकं स्तनवृन्ते तथा सीवनसूत्रके ।प्रचलाकं बर्हिचन्द्रे सर्प शराहतेऽपि च ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.335 · p. 55
मयूरस्य शिखण्डे स्यात् कृकलासान्तरे पुनः ।नानावर्णकरे द्वे स्याद् बिम्बाख्ये च प्रभञ्जनः ॥ ३३५ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पकारादयः Paramānandīyanāmamālā 5.19.321 · p. 202
प्रचलाको भुजंगेऽपि शराघातशिखण्डयोः ।चुचुके सेवने सूत्रे स्मृतं पिप्पलकं बुधैः ॥ ३२१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.178 · p. 187
निपुने क्षपणे हीने निर्ग्रन्थिक उदाहृतः ।शिखण्डे भुजगे बाणे प्रचलाकः समीरितः ॥
अनुष्टुप्