प्रचुर
pracuraवि · adj.In 13 kośas: 11 synonym verses, 5 as a meaning of another word.
परःशताद्यास्ते येषां परा संख्या शतादिकात् ।प्राज्यं प्रभूतं प्रचुरं बहुलं बहु पुष्कले ॥ १४२५ ॥भूयिष्ठं पुरुहं भूयो भूर्यदभ्रं पुरु स्फिरम् ।
अनुष्टुप्
genderविadj.
प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु ।पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च ॥ ६३ ॥
अनुष्टुप्
genderविadj.
प्राज्यं भूरि प्रभूतं च प्रचुरं बहुलं बहु ।पुरुजं पुष्कलं पुष्टमदभ्रमभिधीयते ॥ ७०१ ॥
अनुष्टुप्
genderविadj.
प्रभूतं प्रचुरं प्राज्यमदभ्रं पुरुहुः पुरुः ।भूयो भूरि स्फिरं गाढं निविडं विरलं पुनः ॥ ११९ ॥
अनुष्टुप्
genderविadj.
तलिनं चाथ मोघं स्यादन्तर्गडु निरर्थकम् ।निष्प्रयोजन-वन्ध्ये च निष्फलं च मुधाव्ययम् ।प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु ॥ ७५ ॥
अनुष्टुप्
genderविadj.
अदभ्रं भूरि भूयिष्ठं बंहिष्ठं बहुलं बहु ।प्रचुरं नैकमानन्त्यं प्राज्यं प्राभूतपुष्कलम् ॥ १९१ ॥
अनुष्टुप्
genderविadj.
प्रभूतं प्रचुरं भूरि पुरुहं बहुलं बहु ।अदभ्रपुष्कले भूयः स्फिरं भूयिष्टमित्यपि ॥ ३१५ ॥
अनुष्टुप्
genderविadj.
अणु सूक्ष्मं लघु श्लक्ष्णं क्षामः क्षीणः कृशस्तनु ।बंहिष्ठं प्रचुरं प्राज्यं पुष्कलं बहुलं बहु ॥ ९० ॥
अनुष्टुप्
genderविadj.
प्रभूतं प्रचुरं प्राज्यं पुष्कलं पुरहं पुरु ।पुरुहं पुरुहूश्चैव भूयिष्ठं बहुलं बहु ॥ २५९२ ॥
अनुष्टुप्
genderविadj.
धूपायितो गुण्डितस्तु रूषितो रुषितः सरुट् ।बहुलं प्रचुरं प्राज्यं भूयिष्ठं पुरुजं पुरु ॥ १६७४ ॥
अनुष्टुप्
genderविadj.
क्षीणं क्षामं विलिष्टं स्यात् स्थूलं तु बहलं दृढम् ।प्रभूतं प्रचुरं प्राज्यं बहलं बहुलं बहु ॥ ८४ ॥
अनुष्टुप्
genderविadj.
प्रचुर as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप भूरिनृशण्डो मातरि त्वस्य भूता स्त्री भूरिवाक् पुनः । प्रचुरे त्रिषु हेम्न्यस्त्री भूर्णिस्तु स्त्री भृतौ तथा ॥ ९१५ ॥ Nānārthārṇavasaṃkṣepa 2.5.915
- परमानन्दीयनाममाला अनन्त[13] अनन्तं प्रचुरे व्योम्नि जलेऽनन्ता मही स्मृता । दूर्वामृतप्यथाङ्कूरमङ्कूरं च नवोद्गते ॥ २२ ॥ Paramānandīyanāmamālā 5.1.22
- परमानन्दीयनाममाला पुरुगुग्गुलेऽपि पुरः प्रोक्तः पुरुः स्वाद्रागपूरयोः । स्वर्लोके प्रचुरे चाथ पारी पूरपरागयोः ॥ २९२ ॥ Paramānandīyanāmamālā 5.19.292
- शब्दरत्नावली पुरुपुरुः पुमान् देवलोकपरागनृपभित्सु च । प्रचुरे वाच्यलिङ्गं स्यान्नदीभेदेऽपि च स्त्रियाम् । रसभेदे पुमानेव स्याद्भटातुरयोस्त्रिषु ॥ Śabdaratnāvalī 7.27.24
- शब्दरत्नावली भूरिकट्फलायामनन्तायां तथा तिथिभिदि स्त्रियाम् । त्रिषु साधुश्रेष्ठयोः स्यान्नपुंसि करणान्तरे ॥ भारी हरौ वीवधे स्यात्पलानां द्विसहस्रके । भीरुस्त्रिलिङ्ग आगर्ते स्यात् स्त्रियां मेववस्त्रिषु (?) ॥ भूरि क्लीबं काञ्चने स्यात्प्रचुरेऽपि च वाच्यवत् । पुमान् विष्णौ महादेवे परमेष्ठिनि वासवे ॥ Śabdaratnāvalī 7.27.27