भोगवती
bhogavatīस्त्री · fem.In 11 kośas: 9 synonym verses, 6 as a nānārtha head word, 1 as a meaning of another word.
परुषः पाण्डखर्जूरे तस्मिन् खर्जूरिकाऽल्पके ।केतक्यां क्रकचच्छत्रा पुष्पे भोगवतीति च ॥ २५६ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्री वधूटी वधू रामा मत्तकाशिनितम्बिनी ।वरारोहा भोगवती कामिनी वामलोचना ॥ ३४९ ॥
अनुष्टुप्
genderस्त्रीfem.
पुरी भोगवती चैषां भोगिन्यो नागकन्यकाः ।कल्पद्रौ केशवकृते फलिते नामसत्फलैः ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.
साकर्षणी भोगवती बर्बरा त्वजगन्धिका ।करवी कारवी तुङ्गी कवरी हिङ्गुपत्रिका ॥ ६३ ॥
अनुष्टुप्
genderस्त्रीfem.
काद्रवेयाः पुनर्नागास्तेषां भोगवती पुरी ।शेषो नागाधिपोऽनन्त-आलुकौ द्विसहस्रदृक् ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
नदी पुरी च नागानां भोगवत्यथ कर्दमः ।पुमान्निषद्वरः शादो जम्बालः पङ्कमस्त्रियाम् ॥ ३१४ ॥
अनुष्टुप्
genderस्त्रीfem.
तद्बन्धवस्तु कुमुदकम्बलाश्वतरादयः ।पुरी भोगवती चैषां भोगिन्यो नागकन्यकाः ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
नागा बहुफणाः सर्पास्तेषां भोगवती पुरी ।सर्पो द्विरसनो व्यालो दन्दशूकः सरीसृपः ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
धर्मद्रवी त्रिमार्गा च पाताले भोगवत्यसौ ।यमस्वसा तु यमुना कालिन्द्यर्कात्मजा यमी ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती तु पातालगङ्गायामित्यभाषत ।भौरिकः कनकाध्यक्षे त्रि पुम्भूम्नि तु भौरिका ॥ १३१५ ॥
अनुष्टुप्
meaningsपातालगङ्गा
doubtful
भारतं तु पुराणे स्याद् द्वीपभेदेऽपि सम्मतम् ।भागधेयं करे भाग्ये भोगवत्यपि सर्पपूः ॥ ३३७ ॥
अनुष्टुप्
meaningsसर्पपुर्
पारावती नदीगोपगीत्योश्च लवलीफले ।पारावतः कलरवे पुमान् मर्कटतिन्दुके ॥पुष्पदन्तो भवेद्विद्याधरे दिग्वारणान्तरे ।भगवान् त्रिषु पूज्ये स्याद् गौर्यां स्त्री तु जिने पुमान् ॥स्त्रियां भोगवती गङ्गा सर्पपुर्योरहौ पुमान् ।रङ्गमाता च कुट्टन्यां रोगवृक्षभिदोः(?) स्त्रियाम् ॥लक्ष्मीपतिर्नरपतौ वासुदेवे भवेत्पुमान् ।व्यतिपातो योगभेदे महोत्पातापमानयोः ॥
अनुष्टुप्
भोगवती as a meaning in nānārtha verses
- तन्त्राभिधान ग----------------------------------- गीतं सरस्वती विद्या भोगिनी नन्दनो धरा । भोगवती च हृद्यं ज्ञानं जालन्धरो लवः ॥ ६५ ॥ Tantrābhidhāna 2.20.65