जम्बाल
jambālaपुं · masc.In 15 kośas: 16 synonym verses, 6 as a nānārtha head word, 4 as a meaning of another word.
जम्बालेचकिलौ पङ्कः कर्दमश्च निषद्वरः ।शादो हिरण्यबाहुस्तु शोणो नदे पुनर्वहः ॥ १०९० ॥भिद्य उध्यः सरस्वांश्च द्रहोऽगाधजलो ह्रदः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
genderपुंmasc.
निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
पिच्छिलं स्याद्विजपिलं पङ्कः शादो निषद्वरः ।जम्बालः कर्दमः प्रोक्तो बुधैरिचिकिलस्तथा ॥ ६७८ ॥
अनुष्टुप्
genderपुंmasc.
डिण्डीरोब्धिकफः फेनो वुद्वुदस्थासकौ समौ ।निषद्वरोऽस्त्री जम्बालं तस्मिंस्तु कलिलो घने ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
स्याद्धलाहलजम्बालवल्कलानां ततः पुनः ।सहेन्द्रनीलगरललाङ्गूलैः खण्डलस्य च ॥ १८६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पङ्काम्बुकल्कौ न स्त्रीत्वे जम्बालः कृमिवल्लभः ।निषद्वरः कर्द्दमश्च शादश्चावकि[की]लो दमः ॥ ३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
प्रवालं विशालं चषालं तमालं ।कपालं च भालं सतैलालवाले ।सजम्बाल-कङ्काल-कोलाहलानिस्मृतान्यत्र काकोलहालाहलानि ॥ ६७ ॥
भुजङ्गप्रयातम्
genderपुंक्लीm. n.
कमलं कललं शकलंजम्बालं स्याच्च नील-लाङ्गूले ।कवलो निगलो बालोह्रीबेरे कुन्तले विद[234a]लम् ॥ ६८ ॥
metre not recognised
genderपुंक्लीm. n.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
संवत्सरपुंहायनपुंअब्दपुंगिरिपुंपर्वतपुंधरपुंशैलपुंमासपुंचैत्रपुंवैशाखपुंज्येष्ठपुंआषाधपुंअर्णवपुंसमुद्रपुंसागरपुंपारावारपुंसरित्पतिपुंऋतुपुंवसन्तपुंग्रीष्मपुंदेवपुंसुरपुंअसुरपुंदैत्यपुंशरपुंकाण्डपुंअसिपुंखड्गपुंमण्डलाग्रपुंपङ्कपुंकर्दमपुंजम्बालपुंअरिपुंशत्रुपुंवैरिन्पुंरिपुपुंविपक्षपुंभास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीईषिकास्त्रीविद्युत्स्त्रीदिश्स्त्रीभूमिस्त्रीवल्लीस्त्रीसरित्स्त्री
genderपुंmasc.
[सिकता?] वालुकाः प्रोक्ता बिन्दवः पृषतः प्रषत् ।विप्रुषोऽप्यथ जम्बालचिकिलौ कर्दमः पुमान् ॥ ३६९ ॥
अनुष्टुप्
genderपुंmasc.
काकोलकोलाहलतैलतूलंजम्बाललाङ्गूलकपालमुल्वः ।कङ्कालगाण्डीवशरावभावानिष्ठेवरावौ शवदैवपूर्वाः ॥ १६० ॥
इन्द्रवज्रा
genderपुंक्लीm. n.
विस्कल्लश्चापि जम्बालः ख्यातः शादस्तथा किल ।कर्दमस्येति नामानि कथ्यन्ते पण्डितै जनैः ॥ १९०५ ॥
अनुष्टुप्
genderपुंmasc.
वालुकामयतीरन्तु सैकतं सिकतामयम् ।कर्दमः कङ्कटोऽपि स्याद् जम्बालस्तु निषद्वलः ॥
अनुष्टुप्
genderपुंmasc.
रुद्राक्षस्तु नमेरुः स्यादमलः पुष्पचामरः ।केतकः पुष्पमूचिः स्याद् जम्बालः कृकरच्छदः ॥
अनुष्टुप्
genderपुंmasc.
नदी पुरी च नागानां भोगवत्यथ कर्दमः ।पुमान्निषद्वरः शादो जम्बालः पङ्कमस्त्रियाम् ॥ ३१४ ॥
अनुष्टुप्
genderपुंmasc.
दारिपत्परिपत्पंकचिकिलाश्च निषद्वरः ।शादावकीलजंबाला वप्रोऽस्त्री पालिराल्यपि ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.doubtful
जंबुकौ क्रोष्टुवरुणौ जंबालौ पंकशैवलौ ।श्वेतस्तिलोऽपि जामाता जीमूतौ मेघपर्वतौ ॥ २६ ॥
अनुष्टुप्
doubtful
जम्बाल as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् शादनिर्वादो जनवादेऽपि शादो जम्बालशष्पयोः । Amarakośa 3.3.174
- धरणिकोश निषद्वरनिषद्वरस्तु जम्बालो निशा निषद्वरी मता । निशाचराः समाख्याता भूतराक्षसपेचकाः ॥ Dharaṇikośa 26.2.74
- परमानन्दीयनाममाला अब्जअर्घो मूल्येऽर्चनेऽथाब्जो विधौ धन्वन्तरौ तरौ । जम्बालशङ्खयोरब्जं संख्यायां कमलेऽपि च ॥ ३ ॥ Paramānandīyanāmamālā 5.1.3
- शिवकोष शादग्रन्थिपर्णे तमालेऽपि मदो मार्गे च शीधुनि । मदा तु शीधुपुष्पायां शादो जम्बालशष्पयोः ॥ २२१ ॥ Śivakoṣa 14.1.221