कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शैलूष

śailūṣaपुं · masc.

In 16 kośas: 21 synonym verses, 5 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.257 · p. 17
शैलूषो भरतः सर्वकेशी भरतपुत्रकः ।धात्रीपुत्रो रङ्गाजायाजीवो रङ्गावतारकः ॥ ३२८ ॥नटः कृशाश्वी शैलाली चारणस्तु कुशीलवः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.54
बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.12
शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः ।भरता इत्यपि नटाश्चारणास्तु कुशीलवाः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.592 · p. 67
शैलाली शैलूषः कुशीलवश्चारणः कृशाश्वी च ।जायाजीवो भरतो नटस्तथा स्यान्नटी क्षुद्रा ॥ ५९२ ॥
metre not recognised
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.117 · p. 76
ताण्डवं नटनं नाटयं लास्यं नृत्तं च नर्तनम् ।जायाजीवस्तु शैलूषः शैलालिभरतो नटः ॥ ११७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.26 · p. 205
मायाकारः शाम्बरी स्यान्मायी च शाम्बरीत्यपि ।शैलालयस्तु शैलूषा जायाजीवाः कृशाश्विनः ॥ २६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.133 · p. 263
विल्वो द्वयोर्हृद्यगन्धः शाण्डिल्यः श्रीफलः पुनः ।शल्वः शलाटुः शैलूषः शैवपत्रः शिवेष्टकः ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.77 · p. 425
पात्राणि नाट्येऽधिकृतास्तत्र द्वेषस्तु भूमिका ।शैलूषो भरतः सर्ववेशी भरतपुत्रकः ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.38 · p. 79
अस्त्री नटः कृशाश्वी शैलाली सर्ववेशि-रसिकौ च ।भरतोघः(?) शैलूषो रङ्गाजीवोऽङ्गनाजीवी ॥ ३८ ॥
आर्या
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.43 · p. 147
वसन्तकुसुमो लेखशाटः स्या[29a]द्बहुवारकः ।शैलूष-पिच्छिलोद्दाल-मुक्त-मुक्तफला अपि ॥ ४३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.56 · p. 156
शाण्डि[37a]ल्यश्च शलाटुश्च शैलूषः पूतिमारुतः ।शचीको ग्रन्थिलः सत्यधर्मा स्यान्नीलकण्टकः ॥ ५६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.79 · p. 45
बिल्वे महाफलः श्र्याह्वः शलाटुः पूतिमारुतः ।महाकच्छः [च] शाण्डिल्यः शैलूषो नीलमल्लिका ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.221 · p. 32
शैलूषो नर्तको रङ्गाजीवो रङ्गावतारकः ।कृशाश्वी सर्वकेशी च धर्मीपुत्रोऽपि दृश्यते ॥ २२१ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.580 · p. 100
नटे कुशीलवो जायाजीवश्चारण इत्यपि ।कृशाश्वी चापि शैलाली शैलूषो नट इत्यपि ॥ ५८० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.482 · p. 60
अथ नटः कृशाश्वी च शैलूषो भरतस्तथा ।धर्मी पुत्रश्च शैलाली तथा भरत पुत्कः ॥ ४८२ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1997 · p. 330
शाण्डिल्यः श्रीफलो विल्वः शैलूषश्च प्रसिद्धकः ॥ १९९७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.18 · p. 154
जायाजीवस्तु शैलूषरङ्गजीवकधर्षकाः ।शैलालिकस्तु शैलाली कृशाश्वी भरतो नटः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.472 · p. 62
तत्र शाण्डिल्यशैलूषपूतिपाकमहाफलाः ।मालूरश्चाथ यज्ञाङ्गो हेमदुग्ध उदुम्बरः ॥ ४७२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1546 · p. 187
संवाहकोऽङ्गमर्दः स्याच्छैलूषो भरतो नटः ।जायाजीवः सर्वकेशी शैलाली वहुरूपकः ॥ १५४६ ॥
अनुष्टुप्
genderपुंmasc.doubtful
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 179 · p. 540
रङ्गावतारी शैलूषो नटो भरतभारतौ ॥ १७९ ॥
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.62 · p. 141
कृतं त्रेता द्वापरं च कलिश्चेति यथाक्रमम् ।जायाजीवस्तु शैलूषः शैलाली भरतो नटः ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास षपादः Dharaṇikośa 30.1.3 · p. 217
अभीषुः प्रग्रहे भासि प्रदोषः कालदोषयोः ।प्रत्युषौ प्रभातवसू शैलूषौ बिल्वनर्तकौ ॥
अनुष्टुप्metre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.55 · p. 375
स्यात्सप्तघस्रावधिदुग्धकेऽन्त्येपीयूषमुक्तं च तथा सुधायाम् ।पेयूषमस्त्री ह्यभिनव्यदुग्धे-ऽमृतेऽथ शैलूषमुशन्ति बिल्वे ॥ ५५ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.56 · p. 375
नटे च पुंस्त्वेऽप्यथ मारिषः स्या-च्छाकप्रभेदे गदितस्तथार्ये ।दक्षाम्बिकायां तु स योषिति स्या-दथाविषो राजनि वारिराशौ ॥ ५६ ॥
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1856 · p. 209
शैलूषस्तु नटे द्वे स्यात् कितवे च पुमान् पुनः ।शण्डजातौ च बिल्वे च शैशवं तु नपुंसकम् ॥ १८५६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश षान्ताः Śabdaratnāvalī 7.31.24 · p. 293
मारिषा राक्षसीभेदे … समुपाशने ।शैलूषस्तु नटे धूर्ते श्रीफले तालधारके ॥
अनुष्टुप्metre not read in every line

शैलूष as a meaning in nānārtha verses