कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मुनिभेद

munibheda

In 6 kośas: 0 synonym verses, 25 as a meaning of another word.

मुनिभेद as a meaning in nānārtha verses

  • धरणिकोश जनकअलकः कुटिले केशे अलका नगरीत्यपि । जनकः पितरि प्रोक्तो जनको मुनिभेदयोः ॥ Dharaṇikośa 1.2.41
  • धरणिकोश शालङ्कायनहरिवाहननामानौ स्मृतौ रविपुरंदरौ । शालङ्कायन इत्येष मुनिभेदे च नन्दिनि ॥ Dharaṇikośa 19.2.96
  • धरणिकोश भेलशैलो गिरौ तु शैलं तु शैलेये तार्क्ष्यशैलके । भेलः स्यादुडुपे भीरौ निर्बुद्धिमुनिभेदयोः ॥ Dharaṇikośa 27.2.9
  • धरणिकोश कपिलकपिलो मुनिभेदः स्यात्कपिलौ पिङ्गकुक्करौ । पुण्डरीकगजस्याख्या कपिला शिंशपा च गौः ॥ Dharaṇikośa 27.3.23
  • धरणिकोश प्रचेतस्सुमनसः स्मृताः पुष्पमालतीसुरपण्डिताः । प्रचेतसस्त्रयः कृष्णमुनिभेदजलेश्वराः ॥ Dharaṇikośa 31.2.19
  • कोषकल्पतरु वल्मीकभूतीकं भूतिकव- त्कत्तृणभूनिम्बसोमवल्केषु । वल्मीको मुनिभेदे गदभेदेऽर्थे*वामलूरेऽस्त्री ॥ ७८ ॥ Koṣakalpataru 6.1.78
  • कोषकल्पतरु हारीतहारीतः खगमुनिभेदकैतवेषु सन्मन्त्रैर्हुतभुजि संस्कृते कृते च । सं[294a]पन्नेऽप्युपनिहिते प्रवेशिते च संप्रोक्तं किल परलिङ्गकं प्रणीतम् ॥ ५ ॥ Koṣakalpataru 6.16.5
  • कोषकल्पतरु विश्वकर्मन्अर्केऽपि विश्वकर्मा मुनिभेदे देवकारौ च । नन्दिनि तु मुनिविशेषे सालंकायन इति प्रोक्तः ॥ ६१ ॥ Koṣakalpataru 6.21.61
  • कोषकल्पतरु आत्रेयकालेयो दनुजेऽन्तिमे तु समयाकृत्यामथ स्यात् खरे स्याद्भाङ्गर्यां च मृदौ हिते तु बलये भेद्याभलिङ्गो भवेत् । आत्रेयो मुनिभेदके च मलिनीनद्योः स्त्रियां स्यादथो पानीयं जलपेययोरथ भवेदैणेयमेणीभवे ॥ ६७ ॥ Koṣakalpataru 6.26.67
  • कोषकल्पतरु कपिलशुनि मुनिभिदि वह्नौ पुंसि पिङ्गेऽन्यवत्स्या- त्कपिल इह तु योषिच्छिंशपागोभिदोश्च । अनलदिगिभनार्यां रेणुकायां तथाथ त्रिषु पटलमुशन्ति ह्यूर्ध्वभागे गृहाणाम् ॥ ९९ ॥ Koṣakalpataru 6.28.56
  • कोषकल्पतरु कोहल[71b]तथा स्याच्छृङ्खलाचार्ये कोहलस्तु सुराभिदि । मुनिभेदे तैतिलो ना गण्डके करणेऽन्तिमे ॥ ३१ ॥ Koṣakalpataru 6.28.31
  • नानार्थार्णवसंक्षेप पर्वतअस्त्रयन्त्रे पर्वतस्तु मुनिभेदे गिरावपि । मेधेऽप्यथ पटीरः स्यात् कन्दर्पे चापि चन्दने ॥ १५३ ॥ Nānārthārṇavasaṃkṣepa 3.2.153
  • शब्दरत्नावली नाकुनाकुः पर्वनवह्लीकमुनिभेदेषु पुंस्ययम् । भेकः मण्डूकधनयोर्भूको नार्वाचिदैत्ययोः ॥ Śabdaratnāvalī 7.1.16
  • शब्दरत्नावली मण्डूकमण्डूको मुनिभेदे च स्यात् शोसाके गाटतेजसि । भेके मण्डूकपर्ण्यान्तु मण्डूकी धृष्टयोषिति ॥ Śabdaratnāvalī 7.1.119
  • शब्दरत्नावली शृङ्गविषाणोत्कर्षयोरूर्ध्वे तीक्ष्णे सूक्ष्मे च पङ्कजे । शृङ्गो ना कूर्चशीर्षे तु मुनिभेदे च स स्मृतः ॥ Śabdaratnāvalī 7.3.28
  • शब्दरत्नावली मरीचिमरीचिः स्याद्द्वयोर्दीप्तौ मुनिभेदे पुमानपि । मारीचः कुष्ठिते रक्षोभेदे स्याद्याजकेऽपि च ॥ Śabdaratnāvalī 7.6.15
  • शब्दरत्नावली शतानन्दविशारदः पुंसि धृष्टे पण्डितेऽपि भवेत्पुमान् । भवेद्विष्णुपदं खेतु क्षीरोदेऽपि च न द्वयोः ॥ तथा भागिरथी सूर्यसंक्रान्तिभेदयोः स्त्रियाम् । शतानन्दः पुमान् कृष्णे मुनि भेदे च पुंस्ययम् ॥ भवेच्छतह्रदा वज्रे सौदामन्यामपि स्त्रियाम् । समर्यादः समीपे ना मर्यादासंयुते त्रिषु ॥ Śabdaratnāvalī 7.18.29
  • शब्दरत्नावली शालङ्कायनदेवशिल्पिनि चण्डांशौ विश्वकर्मा मुनावपि । विघातिघोरदृष्ट्योस्तु विघ्नकारी पुमान्भवेत् ॥ महेशे दैत्यभेदे स्याद् वृषपर्वा पुमानयम् । विहङ्गे देवतायाञ्च व्योमचारी भवेत्पुमान् ॥ शाकभेदे कृष्णभेद्यां स्त्रियाञ्च शकुलादनी । मुनिभेदे नन्दिनि स्याच् शालङ्कायन इत्यपि ॥ Śabdaratnāvalī 7.20.137
  • शब्दरत्नावली काश्यपकाश्यपो मुनिभेदे स्यान्मृगे पुंसि क्षितौ स्त्रियाम् ॥ Śabdaratnāvalī 7.21.17
  • शब्दरत्नावली गौतमगौतमः पुंसि बुद्धे च मुनिभेदे च कीर्त्यते । गौतमी स्त्री तु दुर्गायां रोचनी शप्तसीभिदोः ॥ Śabdaratnāvalī 7.25.35
  • शब्दरत्नावली कपिलकपिला गोदिक्करिणीरेणुकाशिंशपासु च । कमला तु भवेल्लक्ष्म्यां स्त्रियां वरस्त्रियामपि ॥ कपिला गोदिक्करिणीरेणुकाशिंशपासु च । कपिलो मुनिभेदे ना वाच्यभेदे तु वाच्यवत् ॥ Śabdaratnāvalī 7.28.46
  • शब्दरत्नावली गालवकुटुम्बोऽस्त्री जनज्ञातिबान्धवेषु च सन्ततौ । कैरवं कुमुदे धूर्ते चन्द्रिकायान्तु कैरवी ॥ गाण्डीवगाण्डिवौ चापे पार्थचापेऽपि न स्त्रियौ । गालवो मुनिभेदे स्यात्तथा लोध्रमहीरुहे ॥ ताण्डवोऽस्त्री तृणभिदि ख्याते नृत्ये समुद्धते । त्रिदिवा तु नदीभेदे स्वर्लोके तु भवेत्पुमान् ॥ Śabdaratnāvalī 7.29.29
  • शब्दरत्नाकर पुण्डरीकमुनिभेदे राजभेदे क्लीबे तु सितपंकजे । स्त्रियां सुराङ्गनाभेदे पवमानोऽग्निवातयोः ॥ २२१३ ॥ Śabdaratnākara 4.1.2213
  • त्रिकाण्डशेष मरीचिमरीचिर्मुनिभेदेऽपि चौरवह्नी मलिम्लुचौ । कक्कोलेऽपि च मारीचो मोचा शाल्मलिरम्भयोः ॥ ७७ ॥ Trikāṇḍaśeṣa 3.3.77
  • त्रिकाण्डशेष अन्तावसायिन्विनीते विप्रभेदे चाऽनूचानोऽर्थी विवाद्यपि । अन्तावसायी चाण्डाले मुनिभेदे च नापिते ॥ २२७ ॥ Trikāṇḍaśeṣa 3.3.227