कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नृत्त

nṛttaक्ली · neut.

In 13 kośas: 16 synonym verses, 7 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.280 · p. 16
गीतं गानं गेयं गीतिर्गान्धर्वमथ नर्तनम् ।नटनं नृत्यं नृत्तं च लास्यं नाट्यं च ताण्डवम् ॥ २८० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 गे (wrong syllable); pāda 3, syllable 5 त्यं (wrong syllable)
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.117 · p. 76
ताण्डवं नटनं नाटयं लास्यं नृत्तं च नर्तनम् ।जायाजीवस्तु शैलूषः शैलालिभरतो नटः ॥ ११७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
भ्रकुंसश्च भ्रुकुंसश्च भ्रकुंसोऽपि भृकुंसवत् ।नृत्यं नृत्तं लास्यकं च लास्यं स्यादालसोऽलसः ॥ ५४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.40 · p. 421
एकमात्रिकतालेन सूडाद्याः स्युरनेकधा ।नाट्यं तौर्यत्रिकं गीतं नृत्तं वाद्यं त्रयं च तत् ॥ ४० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.48 · p. 422
ग्रामसंदिग्धमित्येवं दशधा गीतदुष्टता ।नर्त्तनं नटनं नाट्यं नृत्यं नृत्तं च ताण्डवम् ॥ ४८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.32 · p. 78
करताली करर्द्धिः स्त्री तालमध्ये तु कुक्कुटी ।स्त्रियां गुणनिका च स्यात्ताण्डवं तु न योषिति ।नृत्यं नृत्तं नर्तनं च नाट्यं नटनं लास्ययुक् ॥ ३२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.195 · p. 29
गीतं वाद्यं तथा नृत्तं तौर्यं नाट्यं प्रकीर्तितम् ।संगीतमथ गीतं तु गेयं गान्धर्वमेव तत् ॥ १९५ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.196 · p. 29
नृत्तं लास्यं तथा नृत्यं ताण्डवं नाट्यनर्तने ।नटनं चोच्चताले स्यात्पानगोष्ठ्यामपि स्मृतम् ॥ १९६ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.23 · p. 2
लास्यं नृत्तं नर्त्तनकं नाट्यं नर्त्तनताण्डवे ।विपञ्ची तुंबिनी तन्त्री वीणा सप्तस्वरस्वना ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.405 · p. 52
नर्तनं नटनं नृत्यं नृत्तं नाट्यं च ताण्डवम् ।लास्यञ्चेति हि वामानि कथ्यन्ते कोविदैः किल ॥ ४०५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.442 · p. 31
अक्षराणि चवर्गादिपञ्चेत्युक्तं मनीषिभिः ।नृत्यं नृत्तञ्च नटनं नाट्यं नाटश्च नर्तनम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.111 · p. 186
सन्ध्या स्यात् सन्धया साकं संप्रत्याङ्भ्यः परः श्रवः ।वर्जे वर्जनं वृजनं, नृत्ये नृत्तं च नर्त्तनम् ॥ १११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्ज (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.944 · p. 118
समाने गीतगान्धर्वे रागास्तु ललितादयः ।नटनं नर्तनं नाट्यं नृत्तं लास्यं तु तन्मृदु ॥ ९४४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1822 · p. 221
नृत्तमाभ्यन्तरं नाम कालिका तु विवर्णिका ।रोमाञ्च उल्लूकसनं वीक्षणं तु निभालनम् ॥ १८२२ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.71 · p. 141
वेणुध्माः स्युर्वैणविकाः पाणिवादास्तु पाणिघाः ।नृत्तं गीतं वाद्यमिति नाट्यं तौर्यत्रिकं त्रिकम् ॥ ७१ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.73 · p. 142
ताण्डवोऽस्त्री नृत्तलास्यनटनाक्षजनर्तनम् ।नटितिर्नाटकी रासो नृत्तं बाह्यं स्वकल्पितम् ॥ ७३ ॥
अनुष्टुप्
genderक्लीneut.

नृत्त as a meaning in nānārtha verses