वर्चस्क
varcaskaपुंक्ली · m. n.In 13 kośas: 13 synonym verses, 1 as a meaning of another word.
पुष्पिका तु लिङ्गमलं विड्विष्ठावस्करः शकृत् ।गूथं पुरीषं शमलोच्चारौ वर्चस्कवर्चसी ॥ ६३४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् ॥ ६७ ॥पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ ।
अनुष्टुप्
genderपुंक्लीm. n.
उच्यते वर्च उच्चारो वर्चस्कोऽवस्करः शकृत् ।गूथं कीटं च विट् विष्ठा पुरीषं शमलं मलम् ॥ ६३७ ॥
अनुष्टुप्
genderपुंmasc.
वल्कवल्मीकमरककल्कानां पुलकस्य च ।करकस्य व्यलीकस्य पङ्कवर्चस्कयोरपि ॥ १४४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
उल्बमस्त्री च कललं शुक्रार्तवघनेऽस्त्रियाम् ।मूत्रं वस्तिमलं किट्टोत्थ (?) मनुष्यजलं स्रवः ॥प्रस्रावश्च भवेन्मेहोऽथोच्चारावस्करौ समौ ।वर्चः पुरीषं लेण्डं च शकृच्छमलमन्तिमे ॥विष्ठा न स्त्री गूथ-मल-वर्चस्का विड्विषौ न ना ॥ ५८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
विष्ठा गूथपुरीषे च वर्चस्कं वर्चसा सह ।विट् शकृच्छमलोच्चारौ [75] परिकर्म त्वलंकृतिः ॥ २८९ ॥
अनुष्टुप्
genderक्लीneut.
व्यलीककिञ्जल्कवलीकतङ्कावितङ्कवल्मीकतटाकनिष्काः ।तडाकवर्चस्कविशेषकाश्चविटङ्कवल्कौ पुलकालकौ च ॥ १२९ ॥
उपेन्द्रवज्रा
genderपुंक्लीm. n.
वर्चस्कं गूथमुच्चारो विष्ठा विट् चापि कथ्यते ।कपाले कर्परोऽथास्थ्नि कुल्यं शल्यं च कीकसम् ॥ १३७ ॥
अनुष्टुप्
genderक्लीneut.
उच्चारोऽवस्करो वर्चो वर्चस्कं शमलं शकृत् ।विट् विष्ठाऽशुचि गूथं वै पुरीषं चेति मन्यते ॥ १०२५ ॥
अनुष्टुप्
genderक्लीneut.
अथ मूत्रन्तु प्रसावः स्त्रियौ विष्ठा विषौ शकृत् ।अमेध्यं शामलं दूर्यं गूथं वर्चस्कमस्त्रियाम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
सृणीका सृणिका गूथो विड्-विषौ शान्त-षान्तगौ ।वर्चस्क-वर्चसी तुल्ये विष्ठा वर्गद्वितीयभाक् ॥ १९६ ॥
अनुष्टुप्
genderक्लीneut.
पुरीषं शमलं वर्चः शकृद्विष्ठाविशौ स्त्रियौ ।गूथवर्चस्कमस्त्री स्यादुच्चारावस्करौ समौ ॥ १११८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
उच्चारो विण्न ना गूथो वर्चस्को मलमस्त्रियाम् ।विष्ठा चाप्यथ लण्डोऽस्त्री विष्ठा राजियुता दृढा ॥ ११९ ॥
अनुष्टुप्
genderपुंmasc.
वर्चस्क as a meaning in nānārtha verses
- धरणिकोश मलखलं भूस्थानबन्धेषु पामरक्रूरयोः खलः । मलं पापे च किट्टे च वर्चस्के कृपणे मलाः ॥ Dharaṇikośa 27.2.1