कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कीट

kīṭaपुं · masc.

In 11 kośas: 12 synonym verses, 18 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य द्वीन्द्रियाः Abhidhānacintāmaṇi 4.6.1 · p. 47
नीलङ्गुः कृमिरन्तर्जः क्षुद्रः कीटो बहिर्भवः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.636 · p. 72
बुक्कं स्यादग्रमांसं च तिलकं क्लोम कथ्यते ।कृमिः कीटस्तु नीलङ्गुः पुलकश्च समः स्मृतः ॥ ६३६ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.637 · p. 72
उच्यते वर्च उच्चारो वर्चस्कोऽवस्करः शकृत् ।गूथं कीटं च विट् विष्ठा पुरीषं शमलं मलम् ॥ ६३७ ॥
अनुष्टुप्
genderक्लीneut.
गणितनाममाला Gaṇitanāmamālā · हरदत्त नृचतुष्पदजलकीटसरीसृपसंज्ञा Gaṇitanāmamālā 30.115 · p. 7
गोसिंहाजमृगाद्यर्द्धं धनुरन्त्यं चतुष्पदा ।कीटस्तु कर्कटो राशिर्वृश्चिकोऽपि सरीसृपः ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.179 · p. 337
अली च चञ्चरीकः स्यात्पर्यायान्मधुपुष्पयोः ।लिट्पः कीटः पालिपालौ पालितः सूदनः पुनः ॥ १७९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.117 · p. 474
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.48 · p. 192
अष्टपादूर्णनाभिः स्याल्लालास्रावः क्रिमिः कृमिः ।नीलङ्गुः कृकलश्च स्यान्नीलाङ्गुः कृमिरान्तरः ।नीलाङ्वादिर्द्वीन्द्रियोऽथ द्वंद्वे कीटो बहिर्भवः ॥ ४८ ॥
अनुष्टुप्metre not read in every line
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीपुंसलिङ्गाधिकारः Koṣakalpataru 4.4.21 · p. 109
genderपुंस्त्रीm. f.
अन अन्ते यस्य तदिदमनान्तं अकर्त्तरि अन्प्रत्ययान्तं यत्प्रातिपदिकं तन्नपुंसके विद्धि जानीहि । "नपुंसकाद्भावे क्त" इत्यत्र "वर्तमाने ल्युट् चे"ति ल्युट् । "युवोरनामि"त्यनादेशः । वचनं भजनं भाजनं पानं आसनं प्रयाणं शासनम् । अधिकरणमित्यादि । अकर्त्तरीति किम् । "नन्द्यादिभ्यो ल्युट्" । नन्दनः मरणः मदनः कुलनः शतनः दमनः सङ्कर्षणः मधुसूदनः जनार्दन इत्यादि । अनिः स्त्रियामेव ।एवकारोऽवधारणार्थः । "आक्रोशे नञ्यनिः" । यथा इयमम्भोजनिः अकारणिः अहरणिः अखादनिः अशरणिरित्येवमादिः । अण च अप्च अणापौ यौ तौ पुंस्युक्तौ । णौ अण् चेत्यण् प्रत्ययः । त्यागः उपदेशः उपसर्गः इत्यण्प्रत्ययः । निघः पर्वतः । किञ्चान्यौ मन्युमृत्यू पुंसि भवतः । अयं मन्युर्दया शोकश्च । मृत्युर्नाशः ।पटपुटकटघटचण्टवाटजूटवटा हि पुंस्युक्ताः ।अवटखटपट्टकिराटकीटाश्च कूटतटयोश्च नपुंसकता ॥ २८ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंस्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.4.109 · p. 224
genderपुंस्त्रीm. f.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.32 · p. 84
कृमिः क्रिमिश्च नीलङ्गुर्नीलाङ्गुः कीट इत्यपि ।कर्णकीटा शतपदी स्याद्भीरुः शतपादिका ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.39 · p. 151
नीलांगा कृमिरन्तर्जः क्षुद्रः कीटो बहिर्भवः ।पुल्लकास्तूभयेऽपि स्युः कीकसाः कृमयोऽणवः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.

कीट as a meaning in nānārtha verses