गूथ
gūthaक्ली · neut.In 14 kośas: 19 synonym verses, 3 as a meaning of another word.
पुष्पिका तु लिङ्गमलं विड्विष्ठावस्करः शकृत् ।गूथं पुरीषं शमलोच्चारौ वर्चस्कवर्चसी ॥ ६३४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शान्तः षान्तश्च विड्गूथेऽशुचि वेशोऽपि वेषवत् ।
अनुष्टुप्
genderक्लीneut.
मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् ॥ ६७ ॥पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ ।
अनुष्टुप्
genderपुंक्लीm. n.
उच्यते वर्च उच्चारो वर्चस्कोऽवस्करः शकृत् ।गूथं कीटं च विट् विष्ठा पुरीषं शमलं मलम् ॥ ६३७ ॥
अनुष्टुप्
genderक्लीneut.
क्लीबे गूथं पुनर्वर्चः पुरीषं शमलोऽस्त्रियाम् ।पर्दनं गुदजे शब्दे तत्र कुस्मितमित्यपि ॥ २४८ ॥
अनुष्टुप्
genderक्लीneut.
गूथयूथमोथतीर्थपुलिन्दानां ततः पुनः ।ककुदाम्बुदयोः कुन्दपदयोः ककुदस्य च ॥ १६१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 थ (wrong syllable)
genderपुंक्लीm. n.
उल्बमस्त्री च कललं शुक्रार्तवघनेऽस्त्रियाम् ।मूत्रं वस्तिमलं किट्टोत्थ (?) मनुष्यजलं स्रवः ॥प्रस्रावश्च भवेन्मेहोऽथोच्चारावस्करौ समौ ।वर्चः पुरीषं लेण्डं च शकृच्छमलमन्तिमे ॥विष्ठा न स्त्री गूथ-मल-वर्चस्का विड्विषौ न ना ॥ ५८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
चित्र-वस्त्र-घुसृणागरु-हिङ्गु-गूथ-पिच्छ-दल-तालु-हलानाम् ।तुत्थदृङ्मरिचहृन्नलदानांयुद्ध-सिध्म-यकृदस्थि-फलानाम् ॥ ८० ॥
स्वागता
genderक्लीneut.
वार्तं दुरितं पृषत्तु बिन्दौजगन्महत्सूनृत जृम्भिते च ।अङ्गारितं यातु च शीतमत्या-हितं च वाहित्थवदुक्थ-गूथे ॥ १०० ॥
उपजातिःmetre not read in every linenearly उपजातिः: pāda 1, syllable 4 रि (wrong syllable)
genderक्लीneut.
ऐरावतं पारत-लोहिते चशुद्धान्त-वृत्ते धृत-दैवते च ।द्यूतं वियूथं च वरूथ-गूथेप्रस्थं तथा प्रोथ-सतीर्थ-यूथः ॥ ४८ ॥
इन्द्रवज्रा
genderपुंक्लीm. n.
विष्ठा गूथपुरीषे च वर्चस्कं वर्चसा सह ।विट् शकृच्छमलोच्चारौ [75] परिकर्म त्वलंकृतिः ॥ २८९ ॥
अनुष्टुप्
genderक्लीneut.
रत्नाङ्गणनभोगूथशुक्तान्नतमसामपि ।हृषीकशुभपिच्छादिधनदारुमनोहृदाम् ॥ ७२ ॥
अनुष्टुप्
genderक्लीneut.
ऐरावतं दैवतमक्षतं चहस्तोपवीतव्रतपुस्तबुस्तम् ।द्यूतायुतध्वान्तवसन्तयूथ-वरूथगूथानि मुहूर्ततीर्थे ॥ १४१ ॥
उपजातिः
genderपुंक्लीm. n.
वर्चस्कं गूथमुच्चारो विष्ठा विट् चापि कथ्यते ।कपाले कर्परोऽथास्थ्नि कुल्यं शल्यं च कीकसम् ॥ १३७ ॥
अनुष्टुप्
genderक्लीneut.
उच्चारोऽवस्करो वर्चो वर्चस्कं शमलं शकृत् ।विट् विष्ठाऽशुचि गूथं वै पुरीषं चेति मन्यते ॥ १०२५ ॥
अनुष्टुप्
genderक्लीneut.
अथ मूत्रन्तु प्रसावः स्त्रियौ विष्ठा विषौ शकृत् ।अमेध्यं शामलं दूर्यं गूथं वर्चस्कमस्त्रियाम् ॥
अनुष्टुप्
genderक्लीneut.
सृणीका सृणिका गूथो विड्-विषौ शान्त-षान्तगौ ।वर्चस्क-वर्चसी तुल्ये विष्ठा वर्गद्वितीयभाक् ॥ १९६ ॥
अनुष्टुप्
genderपुंmasc.
पुरीषं शमलं वर्चः शकृद्विष्ठाविशौ स्त्रियौ ।गूथवर्चस्कमस्त्री स्यादुच्चारावस्करौ समौ ॥ १११८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
उच्चारो विण्न ना गूथो वर्चस्को मलमस्त्रियाम् ।विष्ठा चाप्यथ लण्डोऽस्त्री विष्ठा राजियुता दृढा ॥ ११९ ॥
अनुष्टुप्
genderपुंmasc.
गूथ as a meaning in nānārtha verses
- धरणिकोश अवस्करअवस्करौ गुह्यगूथौ अपस्करं रथाङ्गकम् । सहचरः सखा झिञ्टी दण्डधारो यमे नृपे । मधुकरौ कामिभृङ्गौ विभाकरोऽग्निसूर्ययोः ॥ Dharaṇikośa 26.1.22
- कोषकल्पतरु अवस्करव्यसने[60b]च व्यतिषङ्गे व्यतिकर उक्तो विभाकरस्त्वग्नौ । सूर्ये गूथे तु भवेद्गुह्ये चावस्करः पुंसि ॥ ८९ ॥ Koṣakalpataru 6.27.89
- वैजयन्ती अवस्करवह्निवातावपांगर्भौ गुह्यगूधाववस्करौ । कूर्मेशेऽब्धावकूपारोऽवलेपो लेपगर्वयोः ॥ १५ ॥ Vaijayantī 8.1.15