संवित्ति
saṃvittiस्त्री · fem.In 11 kośas: 7 synonym verses, 5 as a nānārtha head word, 1 as a meaning of another word.
मतिर्मनीषा बुद्धिर्धीर्धिषणाज्ञप्तिचेतनाः ॥ ३०८ ॥प्रतिभाप्रतिपत्प्रज्ञाप्रेक्षाचिदुपलब्धयः ।संवित्तिः शेमुषी दृष्टिः सा मेधा धारणक्षमा ॥ ३०९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
प्रेक्षा प्रज्ञा प्रतिभा धीर्धिषणा शेमुषी मनीषा च ।बुद्धिर्मतिश्च मेधा संख्या संवित्तिरुपलब्धिः ॥ ३३४ ॥
आर्या
genderस्त्रीfem.
बुद्धिर्मनीषा धिषणा चेतना शेमुषी मतिः ।विदा बुधा धीख्याती च ज्ञप्तिसंवित्तिरित्यपि ॥ ८७ ॥
अनुष्टुप्
genderस्त्रीfem.
चित्संविज्ज्ञानसंवित्तिर्भगबोधोपलब्धयः ।तत्त्वं रहस्यं सारश्च परमार्थश्च निश्चयः ॥ १३७ ॥
अनुष्टुप्
genderस्त्रीfem.
ज्ञप्तिश्चित् चेतना प्रज्ञा प्रेक्षा च प्रतिभा तथा ।उपलब्धिश्च संवित्तिः दृष्टिश्च शेमुषी तथा ॥ ४५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderस्त्रीfem.
सत्त्वं राजस्तमोऽस्पृष्टं मनः करणमिन्द्रियम् ।ज्ञाने तु वित्तिः संवित्तिः प्रतिभा ज्ञानगौरवम् ॥ १७७७ ॥
अनुष्टुप्
genderस्त्रीfem.
ज्ञप्तिः पण्डोपलब्धिस्तु संवित्तिरनुभूश्चितिः ।अवगत्यनुभूती चिज्ज्ञप्तिर्ज्ञानं च बोधनम् ॥ १६४ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्याप्तिः स्यात्परित्राणे प्राप्तिप्रकामयोरपि ।संवित्तिः प्रतिपत्तिः स्यात्संवित्तिरविवादितः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
सम्बन्धेऽपि च संवित्तिर्मर्यादायामपि स्थितिः ।सीता लाङ्गलरेखा स्याद्व्योमगङ्गा च जानकी ॥ १९१ ॥
अनुष्टुप्
meaningsसम्बन्ध
संवित्ति as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) वेदनाव्यवस्थायां च संस्था स्यात्संवित्तावपि वेदना । यात्रा स्यादनुवृत्तौ च संज्ञायां च समाह्वयः ॥ ८१९ ॥ Abhidhānaratnamālā (Halāyudha) 5.819