कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

जान्ताः · जत्रिः

अम्बुजो निचुले पुंसि कमले क्लीबमद्रिजम् ॥ १०८ ॥
7.2.108 · p. 10
पलिते शैलनिर्यासे करञ्जं घृतपूरके ।नखे च कारुजीधातौ केसरे तिलभिद्यपि ॥ १०९ ॥
7.2.109 · p. 11
अनुष्टुप्
काम्बोजः श्वेतखदिरे पुन्नागे सोमवल्कले ।काम्बोजी पाण्डुराहिङ्गुपर्णीचूडामणिष्वपि ॥ ११० ॥
7.2.110 · p. 11
अनुष्टुप्
गिरिजं त्वमले लोहे शिलाजतुनि गैरिके ।गिरिजा मातुलुङ्ग्यां च जलजं शङ्खपद्मयोः ॥ १११ ॥
7.2.111 · p. 11
अनुष्टुप्
नीरजं कमले कुष्टे वनजोऽन्धकमुस्तयोः ।क्लीबं गदेऽम्बुजे स्त्री तु मुद्गपर्ण्यश्वगन्धयोः ॥ ११२ ॥
7.2.112 · p. 11
अनुष्टुप्
शिलाजमिन्द्रजतुनि शैलेये स्त्री शिलात्वचि ।
7.2.6 · p. 11