कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

धान्ताः · धद्विः

इति दान्ताः ।

गन्धो लेलीतके कुष्टे दधि स्याच्छ्रीनिवासके ॥ २३३ ॥
15.1.233 · p. 22
क्षीरस्य चोत्तरावस्थाभावे दुग्धं तु जीवने ।क्षीराविकायां दुग्धी स्यात् मधुः पुण्ड्रमधूकयोः ॥ २३४ ॥
15.1.234 · p. 22
अनुष्टुप्
मधु पुष्परसक्षौद्रमद्यक्षीराविकासु च ।जीवन्त्यां तु स्त्रियां राधा श्रीफले च विषोदरे ॥ २३५ ॥
15.1.235 · p. 22
अनुष्टुप्
वधूः शटी माल्यवतीगोपकन्याप्रियङ्गुषु ।सुधा गङ्गेष्टिकामूर्वाचूर्णानिस्तृंशपत्रके ॥ २३६ ॥
15.1.236 · p. 22
अनुष्टुप्