कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

डान्ताः · डद्विः

इति ठान्ताः ।

क्ष्वेडा वंशशलाकायामथ पुंसि हलाहले ।लोहितार्के पर्णफले क्लीबं च कृतवेधने ॥ १४५ ॥
10.1.145 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
खण्डः स्यादिक्षुविकृतौ विश्वदेव्यां तु योषिति ।गुडः फाणौ गुडा हारहूरायां वज्रकण्टके ॥ १४६ ॥
10.1.146 · p. 14
अनुष्टुप्
चण्डा घोषाचोरपुष्प्योर्द्रावन्त्यां क्रोधमूर्च्छिते ।यवान्यां गन्धमांस्यां च तिन्तिण्यां तु द्विलिङ्गभाक् ॥ १४७ ॥
10.1.147 · p. 14
अनुष्टुप्
पिण्डं लोहे बले पिण्डो जयापुष्पे च सिल्हके ।पिण्ड्यलाबूतगरयोः पिण्डा खर्जूवरानिशि ॥ १४८ ॥
10.1.148 · p. 14
अनुष्टुप्
पृथ्व्यां च भण्डी जिङ्ग्यां ना कूष्माण्डे कर्कटीभिदि ।मण्डोरुवावसिक्थान्नरसे क्लीबं तु मस्तुनि ॥ १४९ ॥
10.1.149 · p. 14
अनुष्टुप्
आमलक्यां स्त्रियां शौण्डी पिप्पल्यां त्रिकेऽपि च ।
10.1.6 · p. 14